तस्या वैदर्भ्या एवारोहणार्थमितरयोरपि रीत्योरभ्यास इत्येके मन्यन्ते ।
तच्च न । अतत्त्वशीलस्य तत्त्वानिष्पत्तेः ॥ १७ ॥
नह्यतत्त्वं शीलयतस्तत्त्वं निष्पद्यते ।
निदर्शनार्थमाह-
न शणसूत्रवानाभ्यासे त्रसरसूत्रवान-
वैचित्यलाभः ॥ १८॥
नहि शणमूत्रवानमभ्यस्यन्कुविन्दस्त्रसरतन्तुवानवैचित्र्यं लभते ।
'सापि समासाभावे शुद्धवैदर्भी ॥ १९ ॥
सापि वैदर्भी रीतिः शुद्धवैदर्भी भण्यते; यदि समासवत्पदं न भवति ।
'तस्यामर्थगुणसंपदास्वाद्या ॥ २० ॥'
तस्यां वैदर्भ्यामर्थगुणसंपत् आस्वाद्या भवति ।
तेषां मतं दूषयति-तच्च नेति । न ह्यतादृशं कर्म परिशीलयतस्तादृशकर्मकौशलं सिध्यति । यथा लोके वाजिनमारुरुक्षतो राजपुत्रादेस्तदुपयोगिजान्ववष्टम्भजवगतिमण्डलीक्रियादिसिद्धये मेषारोहाभ्यासां दृश्यते, न तथा कस्यचिदपि कुविन्दस्य सूक्ष्मतन्तुवानकौशलसिद्धयै गोणीवानाभ्यासो दृष्टः; तयोर्वैसादृश्येन उपयोगाभावात् । अतो वैदर्भीसंदर्भलाभाय गौडीयपाञ्चालरीत्योरभ्यास इति मतमनादरणीयम् ।
शणसूत्रं गोण्याधुपादानम् । त्रसरतन्तुः श्लक्ष्णवस्त्राद्युपादानम् । वानमिति, वयतेर्ल्युटि रूपम् ।
सापीति । सर्वं स्पष्टम् ।
शब्दभाग इव अर्थभागेऽपि गुणसंपत्तिर्वैदर्भ्युपरागादास्वादनीयेत्याह--
1. इदं सूत्र तद्वृत्तिश्च बहुषु कोशेषु नोपलभ्यते ।