पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४
[अधि. १.
काव्यालंकारसूत्रवृत्तिः।

तदुपारोहादर्थगुणलेशोऽपि ॥ २१ ॥

 तदुपधानतः खल्वर्थगुणलेशोऽपि स्वदते । किमङ्ग, पुनरर्थगुणसंपत् । तथा चाहुः-

  'किं त्वस्ति काचिदपरैव पदानुपूर्वी
  यस्यां न किंचिदपि किंचिदिवावभाति ॥'
  'वचसि यमधिशय्य स्यन्दते वाचकश्री-
   र्वितथमवितथत्वं यत्र वस्तु प्रयाति ।


तस्यामिति । वैदर्भीरीत्यवष्टम्भादर्थेऽप्यारोपिता गुणसंपत्तिरास्वादनीयेत्यर्थः ।

 अमुमेवार्थं कैमुतिकन्यायेन समर्थयते- तदुपेतितदुपधानत इति । उपधानं उपरञ्जनम् । ‘अङ्गेत्यामन्त्रणेऽव्ययम्' इत्यमरः । उक्तार्थेऽभियुक्तोक्त्तिमभिव्यनक्त्ति --तथा चाहुरिति । किं त्वस्ति...' इत्यत्र ‘जीवन्पदार्थपरिरम्भणमन्तरेण शब्दावधिर्भवति न स्फुरणेन सत्यम्' इति पूर्वार्धं पठन्ति । ननु पदपदार्थयोर्गुणचमत्कारो वैदर्भीप्रसादलभ्य इति यदुक्तम् , तदयुक्तम् ; पदार्थपरिरम्भणमन्तरेण वैदर्भीस्फुरणमात्रेण जीवन्त्या वाक्यविश्रान्तेरसंभवादिति शङ्कामनुभाषते--- जीवन्निति । जीवन् तर्कवाक्यवैलक्षण्येन सहृदयहृदयाह्लादकारीत्यर्थः । शब्दावधिः वाक्यविश्रान्तिः । यदुक्त्तं शङ्कावादिना, तत् सत्यम् अस्त्येव । किं तु पदार्थव्यतिरिक्त्ता तत उत्कृष्टा पदसंघटनापरिपाटी काचिदस्ति। सा च पदपदार्थयोः सजीवत्वायावश्यमङ्गीकरणीयेत्याह-~- किं त्विति । यस्यां पदानुपूर्व्याम् । न किंचिदपि असदपि वस्तु । किंचिदिव सदिव । अवभाति प्रतिभाति, प्रबन्धृप्रौढिप्रकटितपदघटनापरिपाटिवशात्कल्प्यं वस्तु प्रत्यक्षायमाणं प्रतिभासत इत्यर्थः । यदाहुः, 'अपारे काव्यसंसारे कविरेकः प्रजापतिः । यथास्मै रोचते विश्वं तथेदं परविर्तते ॥' इति । वचसीति । काव्यात्मके


 1. निर्णयसागरादिमुद्रितेषु पुस्तकेषु 'कित्वस्ति' इत्येतत् पूर्वार्धतया, उत्तरार्धतया च 'आनन्दयत्यथ च कर्णपथ प्रयाता चेतः सताममृतवृष्टिरिव प्रविष्टा' इत्येतत् योजितं दृश्यते । पर त्विदमसगतमिव प्रतिभाति ; यतो व्याख्याता पूर्वार्धमन्यदेवाभिविलिख्य व्याचष्टे : न च व्याकरोति 'आनन्दयति' इत्येतत् । अतोऽस्माभिरन्यस्थलेष्विवात्रापि व्याख्याकृदादृत एव पाठः सयोजित.।