[ भाष्यम् ]
नास्त्यसतः संभवः, न चास्ति सतो विनाश इति द्रव्यत्वेन संभवन्त्यः कथे निवर्तिष्यते वासना इति--
[ सूत्रम् ]
अतीतानागतं स्वरूपत्तोऽस्त्यध्वभेदाद्धर्माणाम् ॥ १२
[ भाष्यम्]
भविष्यद्व्यक्त्ति कमनागतं1, भूतव्यक्तिकमतीतं, स्वव्यापारोपारूढं वर्तमानं, त्रयं चैतद्वस्तु ज्ञानस्य ज्ञेयम् । यदि चैतत्स्वरूपतो नाभविष्यन्नेदं
निर्विषयं ज्ञानमुदपत्स्यत । तस्मादतीतानागतं स्वरूपतोऽस्तीति । किंच
[ विवरणम् ]
ननु चैषामभावे तदभाव इत्युक्तम् । तथा च सिद्धान्तहानिः ! कथम् ? एवं हि सिद्धान्तः नास्त्यसतः सम्भवः उत्पत्तिः । न चास्ति सते विनाश इति । अथ पुनः सन्ति वासनास्तदा, द्रव्यत्वेन (वस्तुसत्यः) [सम्भवन्त्यः] कथं निवर्तिष्यन्ते । नैव निवर्तिष्यन्त इत्यर्थः । तत्र कथमुक्तमेषामभावे तदभाव इति । कथं वा कैवल्यमनिवृत्तासु हेतुकृतजन्मसु वासनास्वित्यत उत्तरं पठति-अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्मणाम् ॥
एवं वैतत् । अथ वा सिद्धान्तपक्षेणैव नेयं भाष्यम् । कथम् ? एषामभावे तदभावः इति हेत्वादीनां वासनानां च नात्यन्ताभाव उच्यते । कस्मात् ? नास्त्यसतः सम्भवो न चास्ति सतो विनाश इति द्रव्यत्वेन वस्तुतया सम्भवन्त्यः कथं निवर्तिष्यन्ते वासनाः । शब्दविकल्पितत्वे वासना नात्यन्तं निवर्तिष्यन्ते । सन्त्येवातीतस्वरूपेणेत्यर्थः ॥
भविष्यद्व्यक्त्तिकं भविष्यति व्यक्तिः यस्य तत् भविष्यद्व्यक्तिकम् । । यथा पिण्डावस्थायां घटरूपम् । प्रवृत्तेतिकर्तव्यतासाधनं तत् अनागतम् । भूतव्यक्तिकमतीतं भूता अतिक्रान्ता व्यक्तिरुपलब्धिर्विषयत्वापत्तिर्यस्य । यथा प्रभग्नो घटः तदतीतमित्युच्यते । अव्यङ्ग्यमभविष्यत् यस्य व्यञ्जने साधनमुपादेयम् । अनतीतव्यक्तिकमभूतम् ! किं तर्हि? व्यापारोपारूढं तत् वर्तमानम् । यथा घटः स्वक्रियायाः ॥
1. तमनुभूत