पृष्ठम्:नवरात्रप्रदीपः.djvu/६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२
नवरात्रप्रदीपे

 अत्र पूर्वाह्णोपादानात्पूर्वाह्णव्यापित्वं निश्चीयते । तथा--

 वर्ज्जनीया प्रयत्नेन अमायुक्ता तु पार्थिव !।
 द्वितीयादिगुणैर्युक्ता प्रतिपत्सर्व्वदा शुभा ॥ इति ।

मनुरपि--

 यो मां प्रपूजयेन्नित्यं द्वितीयादिगुणान्विते ।
 प्रतिपच्छारदि (?) ज्ञाता सोश्नुतेऽफलमव्ययम् ॥
 यदि मोहात्प्रकुरुते प्रथमे स्थापनं मम ।
 तस्य शापाऽयुतं दत्त्वा भस्मशेषं करोम्यहम् ॥
 आग्रहात्कुरुते यश्च प्रथमे स्थापनं मम ।
 तस्य सम्पद्विनाशः स्याज्ज्येष्ठः पुत्रो विनश्यति ॥

पुनरपि मनुरेव-

 पूर्व्वविद्धा तु या शुक्ला भवेत्प्रतिपदाश्विनी ।
 नवरात्रव्रतं तस्यां न कार्यं शुभमिच्छता ॥

देवीपुराणेपि-

 देशभङ्गो भवेत्तत्र दुर्भिक्षं चोपजायते ।
 नन्दायां दर्शयुक्त्रायां यत्र स्यान्मम पूजनम् ॥