पृष्ठम्:नवरात्रप्रदीपः.djvu/६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१
प्रतिपन्निर्णयः

क्यान्युदाहरन्ति । तथा हि तत्र सामान्यतरतावत्सौ रपुराणे--

 मासे सम्वत्सरे वाऽपि तिथिद्वैधं यदा भवेत् ।
 तदोत्तरा तिथिर्ग्राह्या न पूर्व्वा तु मलिम्लुचा ॥ इति ।

भविष्यपुराणेपि--

 यथा द्वादशभिर्मासैर्मासो वृद्धो मलिम्लुचः ।
 तथा तिथिस्त्वहोरात्रा वृद्धेः प्रोक्ता मलिम्लुचा ॥
 यथा मलिम्लुचः पूर्वो मासो देवस्तथोत्तरः ।
 त्याज्या तिथिस्त्वहोवृद्धौ ग्राह्या चैवोत्तरा तिथिः ॥ इति ।

विशेषतस्तु --

 तिथीनां प्रवरा यस्माद् ब्रह्मणा समुदाहृता ।
 प्रतिपादिता यदा पूर्व्वं प्रतिपत्तेन सोच्यते ॥
 तिस्रो ह्येता: पराः प्रोक्तास्तिथयः कुरुनन्दन !।
 कार्त्तिक्याश्वयुजे मासि चैत्रे मासि च भारत ।।। इति ।

परा:=परयुताः ।देवीपुराणेऽपि --

 आश्विनस्य सिते पक्षे प्रतिपत्सु यथाक्रमम् ।
 सुस्नातस्तिलतैलेन पूर्व्वाह्णे पूजयेच्छिवाम् ॥ इति ।