च–' (सू १०८२) इति यलोपे प्राप्ते । 'प्रकृत्या अके राजन्यमनुष्य युवानः' (वा ४२१४) । राजन्यकम् । मानुष्यकम् । 'वृद्धाच्चेति वक्तव्यम्' (वा २७१६) । वार्द्धकम् ।
१२४८ । केदाराद्यञ्च । (४-२-४०)
चाद्रुञ् । कैदार्यम्-कैदारकम् । “गणिकाया यञिति वक्तव्यम्' (वा २७१९) । गाणिक्यम् ।
१२४९ । ठञ्कवचिनश्च । (४-२-४१)
चात्केदारादपि । कवचिनां समूहः कावचिकम् । कैदारिकम् ।
१२५० । ब्राह्मणमाणवबाडबाद्यन् । (४-२-४२)
ब्राह्मण्यम् । माणव्यम् । बाडब्यम् । 'पृष्ठादुपसङ्ख्यानम्’ (वा २७२०) । पृष्ठ्यम् ।
ग्लुचुकशब्दादपत्ये फिन्, 'इतो मनुष्यजातेः' इति ङीष्, समूहे वुञ् । अकादेशः, आदिवृद्धिः 'यस्येति च' इतीकारलोपः । औक्षकमिति । उक्ष्णां समूहः इति विग्रहः । वुञ्,अकादेशः, टिलोपः, आदिवृद्धिः । उष्ट्राणां समूहः इति विग्रहः, औष्ट्रकम् । उरभ्राः मेषाः तेषां समूहः, औरभ्रकम् । राजकम्-राजन्यकम् । वात्सकम् । मानुष्यकम् । आजकम् । यलोपे प्राप्ते इति । राजन्शब्दाद्रुञि अकादेशे “आपत्यस्य च' इति यकारस्य लोपे प्राप्ते सतीत्यर्थः । प्रकृत्याऽके राजन्यमनुष्ययुवान इति । अके परे राजन्य, मनुष्य, युवन् एते प्रकृत्या स्युरिति वक्तव्यमित्यर्थः । यूनो भावो यौवनकम् । मनोज्ञादित्वाद्रुञ् । प्रकृति भावान्न टिलोपः । “वृद्धाच्च' इति वृद्धशब्दस्वरूपमेव गृह्यते । नतु 'वृद्धिर्यस्याचामादिः’ इति वृद्धिसंज्ञकम् । भाष्ये वृद्धशब्दस्यैवोदाहरणात् । तदाह । वार्धकमिति । वृद्धानां समूह इति विग्रहः । केदाराद्यञ्च । केदारकम्-कैदार्यमिति । केदाराणां समूहः इति विग्रहः । गणिकाया यञ् । यञ्ग्रहणात् वुञो निवृत्तिः। गाणिक्यमिति ॥गणिकानां समूहः इति विग्रहः । ठञ् कवचिनश्च।। केदारादपीति । कवचिन्शब्दात् केदार शब्दाच्च समूहे ठञ् स्यादित्यर्थः । कावचिकमिति ॥ ठञ्, इकादेशे टिलोपः । 'ब्राह्मण माणवबाडबाद्यञ् ॥ ब्राह्मण्यमित्यादि। ब्राह्मणानां माणवानां बाडबानां च समूहः इति विग्रहः । मनोरपत्यं माणवः । अणि नस्य णत्वम् । “अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्धन्यः तेन सिध्द्यति माणवः ॥” इति 'मनोर्जातावञ्यतौ षुक्व' इति सूत्रे भाष्यम् । पृष्ठादिति।। यनः इति शेषः । पृष्ठ्यः । षडह इति । षण्णां अह्नां समाहारः षडहः, समाहारे द्विगुः । 'राजाहस्सखिभ्यः’ इति टचि टिलोपः । रथन्तर, बृहद्वैरूप, वैराज,शाक्वर, रैवताख्यानि षट् पृष्ठाख्यस्तोत्राणि । तद्युक्तान्यहानि लक्षणया