सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२०
[चातुरर्थिक
सिद्धान्तकौमुदीसहिता

१२४५ । इनण्यनपत्ये । (६-४-१६४)

अनपत्यार्थेऽणि परे इन्प्रकृत्या स्यात् । तेन 'नस्तद्धिते' (सू ६७९) इति टिलोपो न । युवतीनां समूहो यौवनम्। शत्रन्तादनुदात्तादेरञि यौवतम्।

१२४६ । गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्र- वत्समनुष्याजाद्वुञ् । (४-२-३९)

एभ्यः समूहे वुञ् स्यात् । लौकिकमिह गोत्रं, तच्चापत्यमात्रम् ।

१२४७ । युवोरनाकौ । (७-१-१)

'यु' 'वु' एतयोरनुनासिकयोः क्रमात् 'अन' 'अक' एतावादेशौ स्तः । ग्लुचुकायनीनां समूहो ग्लौचुकायनकम्। औक्षकमित्यादि | 'आपत्यस्य


इत्याद्युदात्तत्वमिति खरे विशेषः । अणि टिलोपाभावोऽपि प्रयोजनमिति दर्शयति । इह भस्येति ॥ गर्भिणीशब्दादणि सति 'भस्याऽढे' इति पुंवत्त्वेन डीपो निवृत्तौ गर्भिन् अ इति स्थिते 'नस्तद्धिते' इति टिलोपे प्राप्ते सतीत्यर्थः । इनण्यनपत्ये ॥ इन् अणीति च्छेदः । प्रकृत्येति ॥ 'प्रकृत्यैकाच्' इत्यतः तदनुवृत्तेरिति भावः । टिलोपो नेति ॥ आञि तु प्रकृतिभावाप्रवृत्तेष्टिलोपः स्यादिति भावः । यौवनमिति ॥ 'कनिन्युवृषितक्षि' इयौणादिककनिन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः । ततः स्त्रियां 'यूनस्तिः' इति तिप्रत्ययस्य प्रत्ययस्वरेणोदात्तत्वे सति शिष्टस्वरेण युवतिशब्दस्यानुदात्तादित्त्वादञि प्राप्ते भिक्षादित्वादणि कृते सति 'भस्याऽढे' इति पुवत्त्वे तिप्रत्ययस्य निवृत्तौ ‘अन्’ इति प्रकृतिभावाट्टिलोपाभावे यौवनमिति रूपम् । अञि तु प्रकृतिभावस्य प्रवृत्तेष्टिलोपः स्यादिति भावः । वस्तुतस्तु 'भस्याऽढे तद्धिते ' इत्यस्य अढे तद्धिते विवक्षिते सति ततः प्रागेव पुवदित्यर्थः । ततश्च तद्धितोत्पत्तेः प्रागेव युवतिशब्दस्य पुवत्त्वे तिप्रत्ययस्य निवृत्तौ युवन्शब्दस्य कनिन्प्रत्ययान्तस्य नित्स्वरेणाद्युदात्तत्वादनुदात्तत्वाभावादञभावे 'तस्य समूहः' इत्यणि प्रकृतिभावाट्टिलोपाभावे यौवनमिति सिद्धमेवेति युवतिशब्दो भिक्षादिगणे प्रत्याख्यातो भाष्यकैयटयोरित्यलम् । शत्रन्तादिति । प्रत्ययस्वरेण मध्योदात्तत्वादनुदात्तादिरयं युवच्छब्दः । ततः उगिल्लक्षणडीपः पुंवत्त्वेन निवृत्तौ युवच्छब्दादनुदात्तादेरञि यौवतमिति रूपमिति भावः । गोत्रोक्षोष्ट्र । एभ्य इति । गोत्र, उक्षन्, उष्ट्र, उरभ्र, राजन्, राजन्य, राजपुत्र, वत्स, मनुष्य, अज, एतेभ्य इत्यर्थः । लौकिकमिह गोत्रमिति । नतु पारिभाषिकमित्यर्थः । अत्र लौकिकङ्गोत्रं किमित्यत आह । तच्चापत्यमात्रमिति ॥ प्रवराध्याये परिगणितं पुत्रपौत्त्रादिकृत्स्नापत्यमित्यर्थः । “अपत्याधिकारादन्यत्र लौकिकमेव गोत्रं गृह्यते, नतु पारिभाषिकङ्गोत्रमिष्यते” इति “स्त्रीपुंसाभ्याम्' इत्यादिसूत्रभाष्ये सिद्धान्तितत्वादिति भावः । युवोरनाकौ ॥ युश्च वुश्च युवुः । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । तदाह । यु, वु एतयोरिति ॥ 'अनुनासिकयोरिष्यते' इति वार्तिकलब्धमेतत् । अनुनासिकयोः किम् । ग्लुचुकायनीनामिति ॥ 'प्राचामवृद्धात्' इति