पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७१९
बालमनोरमा ।

एते निपात्यन्ते । “पितुर्भ्रातरि व्यत्' (वा २७०८) । पितुर्भ्राता प्रितृव्यः । ‘मातुर्डुलच्’ (वा १७०८) । मातुर्भ्राता मातुलः । ‘मातृपितृभ्यां पितरि डामहच्' (वा २७०९) । मातुः पिता मातामहः । पितुः पिता पितामहः । 'मातरि षिच्च' (वा २७१०) । मातामही । पितामही । 'अवेर्दुग्धे सोढदूसमरीसचो वक्तव्याः' (वा २७१२) । सकारपाठसामर्थ्यान्न षः । अविसोढम् । अविदूसम् । अविमरीसम् । 'तिलान्निष्फलात्पिञ्जपेजौ' (वा २७१३) । तिलपिञ्जः । तिलपेजः । वन्ध्यस्तिल इत्यर्थः । ‘पिञ्जश्छन्दसि डिच्च' (वा २७१४) । तिल्पिञ्जः ॥*

१२४३ । तस्य समूहः । (४-२-३७)

काकानां समूहः काकम् । बाकम् ।

१२४४ । भिक्षादिभ्योऽण् । (४-२-३८)

भिक्षाणां समूहो भैक्षम् । गर्भिणीनां समूहो गर्भिणम् । इह ‘भस्याऽढे-' इति पुंवद्भावे कृते ।


व्यदित्यादिना ॥ मातुल इति । मातृशब्दात् डुलचि 'टेः' इति टिलोपः । मातामह इति ॥ मातृशब्दात् डामहचि टिलोपः । एवं पितामहः । मातरि षिच्चेति ॥ मातृपितृभ्यां मातरि डामहच्, स च षिद्भवतीत्यर्थः । षित्त्वस्य फलं डीषित्याह । मातामही । पितामहीति । अवेरिति ॥ अवेर्दुग्धमित्यर्थे अविशब्दात् सोढः, दूस, मरीसच्, एते प्रत्यया वक्तव्याः इत्यर्थः । सोढसकारस्य प्रत्ययावयवत्वात् षत्वमाशङ्क्य आह । सकारपाठसामर्थ्यान्न ष इति ॥ अन्यथा षोड इत्येवोपदिशेदिति भावः । तिलादिति ॥ तिलशब्दः ओषधिविशेषे मुख्यः । तत्फले तु गौणः । तत्र यदा तिलशब्दः निष्फले ओषधिविशेषे वर्तते, तदा तस्मात्स्वार्थे पेज, पिञ्ज, इति प्रत्ययौ स्त इत्यर्थः । इति देवतार्थकः ॥* तस्य समूहः ॥ 'इनित्रकड्यचश्च' इति यावदिदमनुवर्तते । अस्मिन्नर्थे प्रथमोच्चारितात् षष्ठ्यन्तात्प्राग्दीव्यतीयाः अणादयो यथासम्भवं स्युरित्यर्थः । 'अचित्तहस्तिधेनोष्ठक्' इत्याद्यपवादविषयम्परिहृत्योदाहरति । काकम् । बाकमिति । समूहप्रत्ययान्तानां नपुंसकत्वं लोकात् । भिक्षादिभ्योऽण् । तस्य समूह इत्येव । भैक्षमिति । अत्र ' चित्तहस्ति’ इति वक्ष्यमाणठगपवादोऽण् । गार्भिणमिति ॥ गर्भशब्दान्मत्वर्थीये इन्प्रत्यये कृते प्रत्ययः, परश्च, आद्युदात्तश्च, इति इकारस्य उदात्तत्वे 'अनुदात्तम्पदमेकवर्जम्' इति शिष्टस्यानुदात्तत्वे गर्भिन्शब्दः अनुदात्तादिः । ततो नान्तलक्षणडीपा तस्य 'अनुदात्तौ सुप्पितौ' इत्यनुदात्तत्वे गर्भिणीशब्दोऽप्यनुदात्तादिरेव । ततः समूहेऽर्थे ‘अनुदात्तादेरञ्’ इति वक्ष्यमाणे अञि प्राप्ते भिक्षादित्वादणिति भावः । अणि प्रत्ययस्वरेणान्तोदात्तत्वम् । अञि तु 'ञ्नित्यादिर्नित्यम्'