पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७१८
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

अत्र पूर्वोत्तरपदयोराद्यचो वृद्धिः स्यात् ञिति णिति किति च परे । आग्निमारुतम्

१२४० । नेन्द्रस्य परस्य । (७-३-२२)

परस्येन्द्रस्य वृद्धिर्न स्यात् । सौमेन्द्रः । “ परस्य' किम् । ऐन्द्राग्रः ।

१२४१ । दीर्घच्च वरुणस्य । (७-३-२३)

दीर्घात्परस्य वरुणस्य न वृद्धिः । ऐन्द्रावरुणम् । “ दीर्घात्' किम् । आग्निवारुणम् । “ आग्निवारुणीमनड्वाहीमालभेत ' । “तदस्मिन्वर्तत इति नवयज्ञादिभ्य उपसंख्यानम्’ (वा २७०६) । नावयज्ञिकः कालः । पाकयज्ञि- कः । “पूर्णमासादण्वक्तव्यः' (वा २७०७) । पूर्णो मासोऽस्यां वर्तत इति पौर्णमासी तिथिः ।

१२४२ । पितृव्यमातुलमातामहपितामहाः । (४-२-३६)


च' इत्यतः पूर्वपदस्येति, ‘उत्तरपदस्य च' इति सूत्रञ्चानुवर्तते । तदाह । अत्रेत्यादिना । आग्निमारुतमिति । अग्निश्च मरुच्च अग्नामरुतौ ‘देवताद्वन्द्वे च' इत्यानड् । अग्नामरुतौ देवता अस्य अग्निमारुतम् । अणि अनेन उभयपदादिवृद्धिः । अलौकिके विग्रहवाक्ये एव आनङं बाधित्वा “इद्वृद्धौ' इति इत्त्वम् । नेन्द्रस्य परस्य ॥ 'देवताद्वन्द्वे च' इत्युक्ता उभय पदवृद्धिः उत्तरपदस्य इन्द्रशब्दस्य नेत्यर्थः । सौमेन्द्र इति ।। चरुरिति शेषः । तैत्तिरीये “सोमेन्द्रं श्यामाकं चरुम्” इति छान्दसम् । दीर्घाच्च वरुणस्य ॥ ऐन्द्रावरुणमिति॥ इन्द्रावरुणौ देवता अस्येति विग्रहे द्वन्द्वः । आनड् । इन्द्रावरुणशब्दादणि दीर्घकारात्परत्वात् वरुणस्य नादिवृद्धिः । अग्निवारुणमिति ॥ “इद्वृद्धौ' इत्यग्नेरिम्बधित्वा इत्वे कृते दीर्घा- त्परत्वाभावान्निषेधाभावे सति ‘देवताद्वन्द्वे च' इत्युभयपदवृद्धिरिति भावः । इति प्रासङ्गिकम्। अथ प्रकृतम् । तदस्मिन्निति ॥ 'महाराजप्रौष्ठपदाट्ठञ्' इति सूत्रे वार्तिकमिदम् । ‘तदस्मि न्वर्तते' इत्यर्थे नवयज्ञादिभ्यः प्रथमान्तेभ्यः ठञः उपसङ्ख्यानमित्यर्थः । नावयज्ञिकः काल इति ॥ नवयज्ञः नूतनधान्यद्रव्यको यज्ञः आग्रयणाख्यः सः यस्मिन्काले वर्तते सः नावयज्ञिकः । आग्रयणकालः इति यावत् । पाकयाज्ञिकः इति ॥ पाकयज्ञः औपा सनाग्निसाध्यः पार्वणस्थालीपाकादिः सः यस्मिन्काले वर्तते सः पाकयज्ञिकः । पूर्णमासा- दिति ॥ तदस्मिन्वर्तते इत्यर्थे पूर्णमासशब्दात्प्रथमान्तादण् वक्तव्य इत्यर्थः । पूर्णो मासो ऽस्यामिति ॥ मासश्चन्द्रमाः पूर्णश्चासौ मासश्च पूर्णमासः पूर्णचन्द्रः, सः यस्यान्तिथैौ वर्तते सा पौर्णमासी तिथिरित्यर्थः । आणि 'टिड्ढाणञ्’ इति ङीप् । यद्यपि पूर्णो माः चन्द्रः पूर्णमाः। तस्येयमित्यर्थे 'तस्येदम्' इत्याणि पौर्णमासीति सिद्धम् । तथापि ईदृश एवार्थे अय साधुरिति भावः । पितृव्यमातुल ॥ कस्मिन् शब्दे किन्निपात्यते इत्यत आह । पितुर्भ्रातरि