पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७१७
बालमनोरमा ।

१२३५ । द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पति- गृहमेधाच्छ च ।(४-२-३२)

चाद्यत् । द्यावापृथिवीयम्-द्यावापृथिव्यम्। शुनासीरीयम्-शुनासीर्यम् ।

१२३६ । अग्नेर्ढक् । (४-२-३३)

आग्नेयम्

१२३७ । कालेभ्यो भववत् । (४-२-३४)

मासिकम् । प्रावृषेण्यम् ।

१२३८ । महाराजप्रोष्ठपदाट्ठ्ञ् । (४-२-३५)

महाराजिकम् । प्रौष्ठपदिकम्

१२३९ । देवताद्वन्द्वे च । (७-३-२१)


उषस्यमिति ॥ उषः देवता अस्येति विग्रहः । भत्वेन पदत्वाभावात् सकारस्य न रुत्वादि । द्यावापृथिवी ॥ द्यावापृथिवी, शुनासीर, मरुत्वत्, अग्नीषोम, वास्तोष्पति, गृहमेध, एतेभ्यः षड्भ्यः छो यच्च स्यादित्यर्थः । चापवादः । द्यावापृथिवीयम्- द्यावापृथिव्यमिति ॥ द्यावापृथिवी देवता अस्येति विग्रहः । छस्य ईयादेशः । उभयत्र यस्येति च' इति लोपः । शुनासीरीयमिति ॥ शुनो वायुः, सीरः आदित्यः, शुनश्च सीरश्च शुनासीरौ । “देवताद्वन्द्वे च' इत्यानङ् । शुनासीरावस्य स्त इति शुनासीरः । “वाय्वादित्यवा निन्द्रो विवक्षितः” इति वेदभाष्ये भट्टभास्करः । शुनासीरो देवता अस्येति विग्रहः । मरुत्वान् देवता अस्य मरुत्वतीयम्-मरुत्वत्यम् । अग्नीषोमौ देवता अस्य अग्नीषोमीयम् । वास्तुनः पतिः वास्तोष्पतिः रुद्रः । निपातनादलुक् । षत्वञ्च “रुद्रः खलु वै वास्तोष्पतिः” इति ब्राह्मणम् । अमरस्तु इन्द्रपर्यायेषु “वास्तोष्पतिः सुरपतिः” इत्याह । वास्तेष्पतिर्देवता अस्य वास्तोष्पतीयं-वास्तोष्पत्यम्। गृहमेधेो देवता अस्य गृहमेधीयम्-गृहमेध्यम् । अग्नेर्ढक् ॥ आग्नेयमिति ॥ प्राग्दीव्यतीये ध्वर्थेष्वयम् । 'सर्वत्राझिकलिभ्याम्' इति वचनात् । कालेभ्यो भववत् ॥ कालवाचिभ्यो भवेऽर्थ येन विशेषणेन ये प्रत्यया वक्ष्यन्ते, ते ‘साऽस्य देवता’ इत्यर्थे कालवाचिभ्यस्तेनैव विशेषणेन भवन्तीत्यर्थः। मासिकमिति ॥ मासो देवता अस्येति विग्रहः। कालाट्ठञ् । प्रावृषेण्यमिति ॥ प्रावृट् देवता अस्येति विग्रहः । प्रावृष एण्यः । महाराजप्रोष्ठपदाट्ठञ् ॥ माहाराजिक मिति ॥ महाराजो वैश्रवणः, सः देवता अस्येति विग्रहः । प्रौष्ठपदिकमिति ॥ प्रोष्ठपदो देवता अस्येति विग्रहः । वृत्तः “साऽस्य देवता' इत्यधिकारः । अथ प्रासङ्गिकम् । देवताद्वन्द्वे च ॥ “मृजेर्वृद्धिः' इत्यतो वृद्धिरित्यनुवर्तते । “अचो ञ्णिति' इत्यतः ञ्णितीति, ’किति च इति सूत्रञ्चानुवर्तते । “तद्धितेष्वचामादेः' इत्यतः अचामादेरिति, “हृद्भगसिंध्वन्ते पूर्वपदस्य