पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/२०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८२
[अधि. ५.
काव्यालंकारसूत्रवृत्तिः।

प्रातिभादयः प्रज्ञादिषु ॥ ६३ ॥

 प्रातिभादयः शब्दाः प्रज्ञादिषु द्रष्टव्याः। प्रतिभाविकृतिद्वितादिभ्यः शब्देभ्यः प्रज्ञादिपाठादणि स्वार्थिके कृते प्रातिभम्, वैकृतम्, द्वैतमित्यादयः प्रयोगाः सिध्यन्तीति ।

न सरजसमित्यनव्ययीभाधे ॥ ६४ ॥

 'मधु सरजसं मध्येपद्मं पिबन्ति शिलीमुखाः' इत्यादिषु सरजसमिति न युक्तः प्रयोगोऽनव्ययीभावे, अव्ययीभाव एवं सरजसशब्दस्येष्टत्वात् ।

न धृतधनुषीत्यसंज्ञायाम् ॥ ६५ ॥

 'धृतधनुषि शौर्यशालिनि' इत्यत्र धृतधनुषीति असंज्ञायां न युक्तः प्रयोगः, 'धनुषश्च' इत्यनङ्विधानात् संज्ञायां ह्यनङ् विकल्पितः 'वा संज्ञायाम्' इति ।

दुर्गन्धिपद इद्दुर्लभः ॥ ६६ ॥

 प्रातिभादय इति । 'प्रज्ञादिभ्यश्च' इति स्वार्थिकोऽण् विधीयते । प्रतिभादीनामप्यत्र पाठाभ्युपगमेन स्वार्थिकेऽण्प्रत्यये कृते प्रातिभं वैकृतं द्वैतं चारित्रमित्यादयः सिध्यन्तीति व्याचष्टे- प्रातिभादयः शब्दा इति ।

 न सरजसमिति । बहुव्रीहिप्रयोगो न साधुरिति दर्शयितुमाह-- मधु रजसमित्यादिना । अनव्ययीभावे प्रयोगो न युक्तः । रजसा सह वर्तत इति सरजसमिति बहुव्रीहिसमासो न सिध्यति । तस्मिन् हि सति सरजस्कमिति स्यात् । अव्ययीभावे तु सिध्यति । 'अव्ययं विभक्ति-' इत्यादिना साकल्यार्थे अव्ययीभावे कृते अचतुरादिसूत्रेणाकारान्तत्वनिपातनात् सरजसमिति भवति । तथा चाह वृत्तिकारः 'तत एकोऽव्ययीभावः साकल्ये । सरजसमभ्यवहरतीति । बहुव्रीहौ न भवति । रजसा सह वर्तते इति सरजस्कं पङ्कजमिति' इति ।

 न धृतधनुषीति । निगदव्याख्यानमेतत् ।

 दुर्गन्धिपद इति । 'गन्धस्येदुत्पूतिसुसुरभिभ्यः' इति उदादिभ्यश्च-