पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५
प्रथमोऽधिकारः

"वासुदेव च राजेन्द्र सङ्कर्षणमथापि वा ।
प्रद्युम्न चानिरुद्ध च चतुर्मूर्ति प्रचक्षते ॥
एता अन्याश्च राजेन्द्र संज्ञाभेदेन मूर्तयः ।
विद्व्यनर्थान्तरा एव मामेव चार्चयेद्बुधः ” ॥

इत्यादिभिः वैष्णवशास्त्रभेदत्वेन समपरिपठितयोर्वेदाविरुद्धयोः भगवद्यामुनमुनि-वासुदेवस्वामिप्रभृतिभिः स्थापितप्रामाण्ययोरविशेषवैष्णवसमयपरिग्रहयोः श्रीमत्पञ्चरात्र [१] -वैखानसशास्त्रयोः द्वयोरप्यप्रामाण्यप्रसङ्गात् ।

 अथैतानि परम्परापकर्षवचनानि असङ्कीर्णबहुकोशपाठावलोकनादाप्त-

परस्परनिन्दावचनानि
स्वशास्त्रप्रशंसापराणि ।

भाषितानीति मन्येमहि, तथापि 'प्रात प्रातरनृत ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रम्" इत्यादिषु उदितहोमप्रशं[२]सार्थानुदितहोमनिन्दावत् [३] प्रक्रान्तशास्त्र प्राशस्त्यप्रतिपादनपरत्वेन [४] नेतव्यानि । न हि निन्दा निन्द्यं निन्दितुं प्रवर्तते अपि तु निन्द्यादितरत् प्रशंसितुम्' इति न्यायविदः ।

 एवमेव 'साङ्गेषु वेदेषु निष्ठामलभमानः शाण्डिल्यः पञ्चरात्रशास्त्रमधीतवान्' इत्यादौ वेदनिन्दाप्रसङ्गेन वेदविरोधमाशक्य स्वशास्रप्रशंसादिपरत्वेन पर्यहारि भाष्यकारैः न्यदर्शि च 'ऋग्वेद भगवोऽध्येमि' इत्यारभ्य 'सोऽहं भगवो मन्त्रविदेवास्मि नात्मवित्' इति भूमविद्योपक्रमगतस्य तदितरसमस्तवेदाध्ययनादात्मवेदनालाभवचनस्य भूमविद्याप्रशंसामात्रे तात्पर्यम् । अपि च-

  1. श्रीपञ्चरात्र- क, च
  2. प्रशंसार्थ- क, च
  3. निन्दादिवत्- घ, छ, ज
  4. प्राशस्त्यमात्रपरत्वेन- घ, छ, ञ