पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/११५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५०
श्रीपाञ्चरात्ररक्षा

तस्मात् सहस्रपत्र तु पुण्डरीकमत परम् ।
पुण्डरीकसहस्रातु तुलसी गुणतोऽधिका ॥
बकपुष्प ततस्तु स्यात् सौवर्ण तु ततोऽधिकम् ।
सौवर्णाच्च प्रसूनात्तु मत्प्रिय नास्ति पाण्डव" ॥ इति ।

 एव जप-होम दानादिष्वपि प्रसिद्धम् । पाद्मेऽप्येव प्रशास्ततम [१] पञ्चकालसेवनमुक्तम् ।

पञ्चकालविधा
पाद्मवचनानि ।

"ब्रह्मोवाच--

"पञ्चकालविधिज्ञाना प्राशम्त्य भगवन्निह ।
कथित पञ्च के काला विधयश्चापि पञ्च के ॥
मह्य जिज्ञासमानाय कथयस्व यथातथम् ।
न चेद्रहस्यमत्यन्त यदह पृष्टवानिदम् ॥

श्रीभगवानुवाच---

आद्य कर्माभिगमनमुपादान तत परम् ।
इज्या च पश्चात् स्वाध्यायस्ततो योगस्त परम् ॥
पञ्चैते विधयस्तेषा काला पञ्चैव ते क्रमात् ।
कल्याणाचरणान्त यत् कर्मजात चतुर्मुख ॥
उत्थानादिक्रमादेतदभियान[२] मुदीरितम् ।
ब्राहझे मुहूर्ते बुद्धयेत ध्यायन्नारायणं परम् ॥
उत्थायासीत शयने कीर्तयन्नाम वैष्णवम्" ।

  1. प्रसिद्धतम-क, ख, ग, झ।
  2. अभिधान- क, ख, घ, ड. च, झ