पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/११४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४९
द्वितीयोऽधिकारः

पूजनं चार्घ्यपुष्पाद्यैर्भोगैर्यदखिलं मुने ।
बाह्योपचारैस्तद्विद्धि भोगसंज्ञं तु नारद ॥
मध्वाज्याक्तेन दध्ना वै पूजा च पशुनापि वा[१]
ततृतीयं हि यागाङ्गं तुर्यमन्नेन पूजनम् ॥
निवेदितस्य यद्दानं पूर्वोक्तविधिना मुने ।
सम्प्रदानं तु तन्नाम यागाङ्गं पञ्चमं स्मृतम् ॥
वह्निसन्तर्पणं षष्ठं पितृयागस्तु[२] सप्तमम् ।
प्राणामिहवनं नाम्ना त्वनुयाग[३]स्तदष्टमम् ॥
इत्येतत् कथितं सर्वं यत्त्वया परिचोदितम् ।
प्रददाम्यचिराद्यद्वै तन्निष्ठानां परं पदम् ॥" इति ।

 अचिरादित्यनेनास्य कर्मणः कर्मान्तरेभ्यः स्वभावतः प्राशस्त्यमुच्यते । स्मरन्ति च व्यासादय-

"न विष्ण्वाराधनात् पुण्यं विद्यते कर्म वैदिकम् ।
सर्वेषामेव धर्माणामुत्तमो वैष्णवो विधिः ॥'

इत्यादि[४] । प्रयाससाम्य-वैषम्यानादरेण स्वरुपत प्राशस्त्यं द्रव्यादिष्वपि विद्यते । यथोक्तमाश्वमेधिके श्रीवैष्णवधर्मशास्त्रे-

सर्वेषामेव पुष्पाणां सहस्रगुणमुत्पलम् ।
तस्मात् पद्मं तथा राजन् पद्मात्तु शतपत्रकम् ॥

  1. पशुना सह- क, ख, ग, झ.
  2. पितृयाग तु- क, ख, ग, ड, च, छ, झ
  3. अनुयाग- क, ख, ग, ड, च, छ, ज, झ
  4. इति- क, च, झ