पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१
शाब्दनिर्णयः ।

तिरेकायोगात् , शब्दस्येव तदानीं पूर्वभावित्वासिद्धेः। नन्वर्थन्तरमात्रान्वितं गोत्वं न गोशब्दसामर्थ्यविषयः, आनयनान्वयस्याशाब्दत्वप्रसङ्गात् । अर्थान्तरमात्रान्वयस्य च स्वरूपमात्राभिधानेऽप्यनुमानादिनैवान्यथासिद्धेर्न तत्र शब्दसामर्थ्यकल्पना युज्यते ॥ २८ ॥

अथानयनविशेषान्वितमेव गोत्वं गोपदाभिधेयं कलप्येत, तदानयतिपदान्तरवैयर्थ्यप्रसङ्गः । तत्राह-

न सामान्यन्वयं ब्रूमो विशेषान्वयमेव तु ।

अर्थेऽपि चोदना तुल्यापेक्षा च सहकारिणी ॥ २९ ॥

यो हि गोत्वादिपदार्था एवाकाङ्क्षासन्निधियोग्यतावशेन परस्परात्मसंसर्गं प्रमिमत इति प्रतिजानीते, तस्यापि पदार्थाः पदार्थान्तरमात्रसंसर्गं न प्रतिपादयन्ति, विशेषसंसर्गनिष्ठत्वात् प्रयोगप्रत्यययोः, अन्यथासिद्धत्वाच्च सामान्यान्वयस्य । अथ पदार्थविशेषसंसृष्टस्वात्मानं पदार्थः प्रतिपादयति, तर्हि पदार्थान्तरावगमाय न पदान्तरोपादानमर्थवद् , एकेनापि पदार्थेन विशिष्टसंसर्गसिद्धेः। अथ संसर्गप्रतिपादनसमर्था अपि पदार्था न परस्परमनपेक्ष्य प्रतिपादयन्ति,शक्तानामपेि कार्यजनने सहकारिसव्यपेक्षत्वादिति । शब्देष्वपि तर्हि तुल्योऽयं न्यायः, तेषामपि संसर्गसमर्थानामन्योन्यापेक्षया प्रतिपादकत्वात् । अत एव सत्यपि गोशब्दस्य योग्येतराशेषपदार्थविशेषसंसर्गप्रति-


१. ‘स्यै’, २. य स्व’ क. पाठः, ३. ‘ति ’ ख. पाठः