२४
शाब्दनिर्णयः ।
तत्र प्रमाणमाह-
प्रतिपत्तु: प्रवृत्त्या हि शब्दविज्ञानबन्धना१।
संसर्गबुद्धिर्व्युत्पन्नाव्यवधानानुमीयते ॥ २७ ॥
प्रवृत्त्यनुमिते हि संसर्गज्ञाने शब्दसामर्थ्यमन्वयव्य-
तिरेकौ गमयतः । ननु पदार्थबुद्धिव्यवधानेना यथासिद्धिरुक्ता, न तदानीं तावव्द्यवधानप्रतिपत्तिः | न । कालान्तरे तदनुसारेणैवावापोद्धारसम्भवात् । न च लोकेऽपि विशेष(ण) - प्रतिपत्तिजन्या विशिष्टप्रतिपत्तिरिति नियमः । प्रतिपादकचक्षुरादिसाम्ये सति प्रथमत एव विशिष्टप्रतिपत्तेः। तस्मात् प्रथमत एवान्वयव्यतिरेकौ संसर्गसामर्थं गमयत इति स्थितम् ॥२७॥
नन्वेवमप्यावापोद्धाराभ्यां स्वरूपमात्रे सामर्थ्यमित्यु-
क्तमिति । तत्राह-
योग्येतरान्वितस्यार्थस्यावापोद्धार दर्शनात् ।
संसृष्टेष्वेव सामर्थ्यम् पदानामवसीयते २ ॥ २८ ॥
यद्यपि प्रति(प्र)योगं विशेषान्तरतत्संसर्गयोर्व्यभिचारो
दृश्यते, तथापि योग्येतरान्वितस्यार्थस्याव्यभिचारात् प्रथमावगतसंसर्गसामर्थानुसारेण तत्रैव सामर्थ्यं कल्प्यत इत्यभिप्रायः। न च पदार्थज्ञानस्यावापोद्धाराभ्यां संसर्गस्यावापोद्वाराविति युक्तं, तस्य संसर्गात् पूर्वभावितया संसर्गेण तदानीमन्वयव्य-
१- नात्’, २• ‘गम्यते’ क. पाठः