स्नात्वा शुक्लतिलैस्तोये गङ्गायाः शुचिमानसः।
गृहे वा देवतास्थाने कुर्यात्कुसुममण्डपम् ॥
वस्त्रैः परिवृतं सम्यकू नानावर्णैः सुशोभनैः।
पूगैश्च नारिकेलैश्च जम्बीरैर्मातुलिङ्गकैः ॥
अन्यैश्च बहुपुष्पैश्च शोभितं फलसञ्चयैः।
तत्र मध्ये मृदः कार्यमालवालं मनोरमम् ॥
निःक्षिपेत्तत्र धान्यानि ततः सिञ्चेज्जलैः शुभैः।
तत्रोपरि न्यसेत्कुम्भं जलपूर्ण नवं शुभम् ।
सुवर्णे निक्षिपेत्तत्र गन्धपुष्पैः समर्चयेत् ।
पुष्पमालावृतं कुर्यात्प्रतिष्ठामन्त्रमन्त्रितम् ॥
पुरस्तात्तस्य कुम्भस्य जपेत्सप्तशतीं बुधः ॥ इति।
देवीपुराणेऽपि--
पूज्या मङ्गलकुम्भस्था देवी देवगणैर्युता ॥ इति।
एतेन कलशस्थापनमाचारमात्रकममूलमिति स्वज्ञान
स्यैवाऽमूलतामाह । तथा च तत्रैव ब्रह्मपूजनं कार्यम् ।
तदुक्तं महार्णवे--
पञ्चाशद्भिः कुशैः कार्यो ब्रह्मा पश्चान्मुखैः स्थितः।
संस्नातः स्थपेतः कुम्भे चतुर्बाहुश्चतुर्मुखः ॥