पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/७७

विकिस्रोतः तः
(पृष्ठम्:TSS-001 The Daiva Of Deva - TG Sastri 1905.pdf/७७ इत्यस्मात् पुनर्निर्दिष्टम्)
पुटमेतत् सुपुष्टितम्
५२
दैवं

स्वामिवदेवास्थित । 'युज, पृच संयमने' । सम्बन्धन इति क्षीर स्वामी ॥

 रिचिर् विरेचने रिङ्क्ते रिणक्ति श्ने वियोजने ।
 संपर्चने च यौ वा णौ रेचयत्यपि रेचति ॥५२॥

  श्ने श्नमि । 'रिच वियोजनसंपर्चनयोः' ॥

 शुच्यते शुच्यतीत्येवं पूतीभावे शुचेः श्यनि ।
 शोके शोचति

  'ईशुचिर् पूतिभावे' । 'शुच शोके' ॥

हिंसायां तर्जने परिभाषणे ॥५३॥
 

 चर्चत्यध्ययने त्वर्थे भवेच्च्रर्चयतीति णौ।

  'चर्च परिभाषणहिंसातर्जनेषु' । अत्र धातुवृत्तिकाराः प्रत्ये- कमव्यवस्थितपाठशता दृश्यन्ते । यदत्र सत्यं, तद्देवा ज्ञातुमर्ह- न्तीत्यप्याहुः । तत्र च प्राचुर्यात् 'चर्च परिभाषणे' इति नूनं पक्ष- माश्रित्य देवः प्रववृते । 'चर्च अध्ययने । क्वचित्तु पठ्यते-

अध्ययने चर्चयेच्चर्चतीति तु ।
 

  हिंसायां तर्जने शे तु तथैव परिभाषणे ॥

 इति । तत्र 'चर्च हिंसातर्जनयोः' । 'चर्च परिभाषणे' इति नूनं पाठौ। परिभाषणसन्तर्जनयोरिति चान्त्यं बहवः पठन्ति । सर्वथापि स्वरभेदाद् द्विरुच्यते' इति शतुर्वा नुं शे स्यादिति तुदादिता' इति च वक्ष्यमाणनीत्या फलभेदो द्रष्टव्यः॥


१. अत्र = धातुस्वरूपविषये. २. तौदादकम् । 'जर्ज चर्च झर्झ परिभाष- णभर्त्सनयो:' इति तु सिद्धान्तकौमुद्याम् . ३. श्द पञ्चपञ्चाशश्लोके. ४. इदं

सप्तपञ्चाशश्लोके.