पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/395

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५३
कैवल्यपादः चतृथैः

[ भाष्यम् ]

नामनुभवास्तावत्यः स्मृतयः प्राप्नुवन्तिं । तत्संकराचैकस्मृत्यनवधारणं च स्यादित्येवं बुद्धिप्रतिसंवेदिनं पुरुषमपलपद्भिर्वैनाशिकैः सर्वमेवाऽऽकुलीकृतम् । ते तु भोक्तृस्वरूपं यत्र कञ्चन कल्पयन्तो न न्यायेन संगच्छन्ते । केचितु सत्त्वमात्रमपि परिकल्प्य, अस्ति स सत्त्वो य एतान् पञ्च स्कन्धान् निक्षिप्यान्यांश्च प्रतिसंदधातीत्युक्त्वा, तत एव पुनस्रस्यन्ति ।

[ विवरणम् ]

 न चागृहीतासु बुद्धिबुद्धिषु संव्यवहारो घटते स्मृतिसंस्कारानुपपत्तेः । तत्रैकजातीयानामेव घटबुद्धिबुद्धनां दाशतयी माला स्यादनवस्थिता, न घटबुद्धिः । परिसमाप्तौ च घटबुद्धिबुद्धीनां असत्यां कथं घटादिबुद्धिरुपतिष्ठेत ॥

 अयं चापरो दोषः स्मृतिसंकरश्च् इति । बुद्धिबुद्धीनां तत्संस्काराणां चैकरूपत्वात् स्मृतिसंकरः प्राप्नोति । यावन्तो बुद्धिबुद्धीनामनुभवास्तावत्यः स्मृतयः संकीर्णाः प्राप्नुवन्ति । तत्सङ्करात् स्मृतिसङ्करात् स्मृत्यनवधारणं इयमस्या बुद्धेः स्मृतिरित्यनवधारयन्तः कथं व्यवहरेमहि । तथा च सरूपत्वात् स्मृतिसंकरः प्राप्नोति ॥

 यावन्तो बुद्धिबुद्धीनां विदानाः स्वबुद्धिस्मृतिपूर्वव्यवहारासम्भवात् सर्वे संमोहेन सङ्गच्छेमहि । यदि चानवस्थापरिजिहासया क्वचित् बुद्धयन्तरे समवतिष्ठेमहि, तमेव बुद्धिप्रतिसंवेदिनं बुद्धिप्रतिसंवेदनलिङ्गेन स्पष्टतरमपि पुरुषमपलपद्भिर्वैनाशिकैराकुलीकृतं जगदिति ॥

 ननु चालयविज्ञानकल्पनयाऽनवस्थादोषं परिहरेमहि । तथा चात्मकल्पनामपलपेमहीत्येवं ते भोक्तृस्वरूपं यत्र कचन कल्पयन्तो न न्यायेन सङ्गच्छन्ते । तस्याप्यालयविज्ञानस्य ग्राह्मत्वादनवस्थितत्वाच्चाभिहितसकलदोषानुषङ्गः ॥

 केचित् वैनाशिकविशेषाः सत्त्वमात्रमपि शब्दान्तरेण सत्त्वमात्रं भोक्तृस्वरूपं परिकल्प्य अस्ति स सत्त्वो य एतान् पञ्च स्कन्धान् रूपवेदनासंज्ञासंस्कारविज्ञानलक्षणान् निक्षिप्य परित्यज्य अन्यांश्च स्कन्धान् प्रतिसन्दधाति गृह्णाति इत्युक्त्वा तत एव भूतानागतस्कन्धप्रतिसन्धात्रेकसत्त्वपरि कल्पनातः त्रस्यान्ति