इत्यभिगमन निगमितम् [१]. । तद्विवरण च गद्यादिकमेव । अनुयागपर्यन्तसमाराधनसमनन्तरभाविस्वाध्यायश्च श्रुतिस्मृतीतिहासपुराणमन्त्रजपसत्संवादाध्यात्मशास्रश्रवणप्रवचनाद्यात्मा यथासम्भवं भगवच्छास्रधर्मशास्रादिष्वनन्तरभावियोगोपकारकज्ञानसन्धुक्षणप्रयोजन प्रतिपाद्यत इति तत्कालनित्य सोऽपि 'द्वयमर्थानुसन्धानेन सह सदैवं वक्ता' इति गद्योक्तस्य द्वयवचनस्य शास्त्रीयकर्मान्तरानुपरोधेन यथावसरमुपनिपातादुपदिष्ट एवेति ज्ञायते । सदाववचनं हि न निद्राकाले अशक्यत्वात् । न मौनकाले तद्विधिविरोधात्त [२] । न मन्त्रान्तरादिसाध्यसमाराधनादिकाले तैरव [३] तदुपरोधात् । अतो यथावसरै तत्प्राप्ति । एव योगोऽपि [४]. द्वयार्थानुसन्धानैकाग्र्यरूपः सर्वव्यापारोपरतिसुभगनिद्रापूर्वापरकालयोः " तत्पूर्वापररात्रेषु युञ्जान " इत्याद्युक्तावसरलब्ध[५]यलभ्यः । श्रीवैकुण्ठगद्ये च स्वतन्त्रप्रपत्तिनिष्ठामेव विधाय “ततश्च प्रत्यहमात्मोज्जिवनायैवमनुस्मरेत्" इत्यारभ्य , परमपदपर्यङ्कनिलयस्य भगवत परिपूर्णध्यानयोगमुक्त्वा, अनुसन्धानविशेषाश्चोपदिश्य, " श्रीमत्पादारविन्दं [६]. शिरसि कृतं ध्यात्वा अमृतसागरान्तर्निमग्नसर्वावयव सुखमासीत " इत्यनेनानन्यप्रयोजनो विचित्रो योग प्रतिदिनकर्तव्यत्वेन विहित । तदधिकारे च विस्तरेण दर्शयिष्याम । नित्ये च "एवं शरणमुपगम्य तत्प्रसादोपबृंहितबमनोवृत्तिस्तमेव भग-
- ↑ निर्णीतम्—ड, छ, निर्दिष्टम् -ज
- ↑ तद्विरोधात्-क, ख, ग, झ
- ↑ तेनैव- क, ख, ग', च
- ↑ अपि- क, ख, ग, ड, च पुस्तकेषु न दृश्यते
- ↑ अवसरयुक्तयत्रलभ्य -क, झ, अवसरयत्नलभ्य -घ , अवसरलब्ध्या युक्तयत्नलभ्य-क,झ,अवसरयत्नलभ्य-घ, अवसरलब्ध्या युक्तायत्न लभ्य-च,छ
- ↑ पादाराविन्दयुगल-क , च , , झ्