वन्तं सर्वेश्वरेश्वरमात्मन स्वामित्वे [१],नानुसन्धाय अत्यर्थप्रियाविरतविशदतमप्रत्यक्षतापन्नानुध्यानेन [२] ध्यायन्नासीत" इति समाराधनारम्भोक्तस्यानुध्यानस्य स्वादुतमस्य समाराधनवदेव अनन्यप्रयोजनकैङ्कर्यरूपतयावसरे प्राप्तिर्युक्ता, तस्मादनन्यप्रयोजनप्रधानतया परिपूर्णसमाराधनविशेषोपदेशिभिर्भाष्यकारैरर्थत शास्त्रान्तरैश्च सिद्धमन्यदपि सर्वमनुज्ञातमिति विज्ञायते । अत एव हि तच्छिष्य-प्रशिष्यादय पञ्चकालविभागेनैव भगवत्सेवा प्रत्यपीपदन् । प्रपत्यावृतिप्रसङ्गादिचोद्यानि तु निक्षेपरक्षान्ते [३] परिहृतानि ।
अत्र यदुक्त प्रपत्यङ्गत्वेनोपदेशाभावात् परित्याज्य इति तदसत् । भाष्यकारोक्तनित्यसमाराधनस्यापि तत एव परित्याज्यत्वप्रसङ्गात् । तच्चेद्भगवत्प्रीत्येकप्रयोजनतयानुष्ठेयमित्यनुज्ञायेत तर्हि तदनुबन्धि सर्वमपि तद्वदनुज्ञायताम् । प्रपत्यङ्गसर्वधर्मस्वरूपत्यागविधिवादिनोऽपि हि [४] स्वामिनि भगवति दासभूतस्य प्रपन्नस्य स्वरूपप्राप्ता किङ्करवृत्तिमनुजानन्ति । यत्तु शातवार्षिकव्रतावधि विलम्बाक्षमत्वमुक्तं तत्तथैव । न ह्यस्य निष्पन्नोपायस्य शातवार्षिकव्रतमनुष्टेयं ब्रूम । यथा हि नदीतरणाय नौकागमनं प्रतीक्षमाणाः पुरुषा केचिल्लीलाद्यूतेन कालं यापयन्ति । केचित् पणबन्धद्युतेन । द्युतमर्यादानुपालनं चोभयेषा समानम् । तत्रानियतकालभाविनौकागमनसमये वैहारिका विहारद्यूतविच्छेदेनापि नदीं तरन्ति । बद्धपणास्तु यावद्द्युतसमाप्ति विलम्बन्ते । तद्वदिहापीति तत्त्वविदा सम्प्रदाय ।