पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५९
द्वितीयोऽधिकारः

 यचान्यदुक्तं योगशक्तौ तस्यैवोपायत्वस्वीकार प्राप्नोतीति तदपि मन्दम् । स्वयोगमहिमप्रत्यक्षिततत्त्वत्रयाणा नाथमुनि-कुरुकेश्वरप्रभृतीना प्राक्

पाञ्चकालिकयोग-
शक्तौ प्रपत्तिनिष्ठा-
विरोधपरिहार ।

परिगृहीतप्रपत्त्युपायैकनिष्ठानामेव पश्चादपि भगवत्प्रसादलब्धयौगिकभगवदानन्दास्वादस्य प्रसिद्धत्वात् अन्यथा तथाविधानुसन्धानपूर्वकभाष्यकारोक्तसमाराधनादिशक्तौतस्याप्युपायत्वंस्वीकार[१]प्रसङ्गात् । तच्चेत् स्वामिकैङ्कर्यरूपमिति स्वादुतमतया [२] स्वयंप्रयोजनत्वेनोपादीयेत समाधावप्ययं समाधिकदरिद्र सुखसन्दोहात्मनि सम समाधि । प्रपन्नानुगुण च यौगिकमनुसन्धानं शाण्डिल्य[३]स्मृतावुच्यते--

"ईदृश परमात्मायं प्रत्यगात्मा तथेदृश [४]
तत्संबन्धानुसन्धानमिति योग प्रकीर्तित ॥
योगो नामेन्द्रियैर्वश्यैर्बुद्धेर्बह्मणि संस्थिति ।
प्रयुक्तैरप्रयुतैर्वा भगवत्कर्मविस्तरे ॥ " इति ।

एतदनुबद्धमेव [५] द्वयार्थानुसन्धानम् । एतद्विरुद्धं तु राहुमीमासकाना कबन्धमीमासकाना चानुसंधानं वेदबाह्यमिति श्रीकृष्णमुनिभिरुक्तम्--

"चेतनस्त्वेक एवेति मतिर्या केवला क्रिया च्
फलतीति मतिस्ते द्वे वेदाप्रामाण्यबुद्धिजे ।
"स एनं प्रीत प्रीणाति'ब्राह्मणस्यानुगे न ते ॥ ” इति ।

  1. स्वीकार-क, ख, ग, च, झ पुस्तकेषु नास्ति ।
  2. स्वादुतमतया --- क, ख, ग, च, झ पुस्तकेषु नास्ति ।
  3. शाण्डिल्यस्मृतावपि—क, च, झ
  4. अयमीदृश –घ, ड, छ, ज
  5. एतदनुसन्धानमेव- क, ख, ग, ज, झ्