च तदनुष्ठानाभावस्य भगवत्कैङ्कर्यैकरति परमैकान्ती भूत्वा " इत्यादिभिस्तत्रैवोपदेशात् । अनन्यपायेऽनन्यप्रयोजने चाधिकारिणि परमैकान्तिशब्द्रम्य साम्राज्यात् । अथ परमैकान्तिनो भगवदाराधनप्रयोग वक्ष्ये '; इत्यस्य पूर्ववृत्तापेक्षाया तमेव शरणमुपगच्छेदखिलेत्यादिना '. शर णागतिप्रकारश्च पूर्वोक्त इति तत्प्रबन्धस्थवाक्यद्वयेन परिपूर्णशरणागति विषयम्य गद्यग्रन्थस्य पूर्ववृत्त्वप्रतीते । गतच समर्थयिष्यते । अतस्तथाविधप्रपन्न एवात्र परमैकान्ती । तमधिकृत्यैव किचित्सिद्धान्तस्था काचित्सहिता प्रधानीकृत्य समाराधनप्रयोगोऽत्र सगृह्यत इति यथासम्प्रदायमकामेनापि स्वीकरणीयम् ।
तच्च समाराधनमर्ध्यादिपात्रप्रक्षेप्यत[१]त्तदासनभागानुपूर्वी समर्पणीयौपचारिक- साम्पर्शिकाभ्यवहारिकादिभेदभिन्नगन्ध-पुष्पादिपरश्शतद्रव्यसापेक्ष दृश्यते
पञ्चकालप्रक्रिया
श्रीभाष्याकाराभिम
तेति समर्थनम् ।
तदपि न्यायत स्वयमेवार्जित मुख्यम्। अशक्तस्य तु पुत्रशिष्यादिमुखेन तत्प्रेरणरूपार्जनव्यापार । पूर्वसिद्धद्रव्यस्यापि तत्काले तदर्थोपादानमिति समाराधनात् पूर्वमेव नान्तरीयक सम्यग्द्रव्योपादानम् । अत इज्योपदेशेनैवार्थात्त [२] दपेक्षितोपादानमपि स्वकालप्राप्तमुपदिष्ट भवति । ततोऽपि पूर्वमभिगमनमपि तद्विधायकतत्तच्छास्रतत्तन्मन्त्रविशेषादिपरामर्शादन्तत
प्रपतिरूपतयैव परिणतमिति प्रागेव तदुपदेशेनार्थादभिगमनमप्युपदिष्ट भवति । अत एव हि तदभिप्रायविद्भिर्नारायणमुनिभि--
"द्वयेन तद्विवरणै प्रपद्य प्रभुमीश्वरम् । |