पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५
द्वितीयोऽधिकारः

इत्यादिभि पटलै तत्तत्कालाशसाधनीयमुपादानादिकमपि यथाक्रम प्रपञ्चितम् । तदेव चतुर्विधपञ्चरात्रनिष्ठाना तत्रापि यत्किचिद्वयापकमन्त्रप्रधानाना सर्वेषामपि भगवदेकान्तिना यथायथ प्राचीनपरिगृहीतवैकल्पिकमर्यादाभेदै पाञ्चकालिकधर्म प्राप्त ॥

 तत्र ये स्वाधिकारानुरूप प्रपत्तिमेव केवलामव्यवहितामपवर्गसाधनमवलम्बन्ते तैरय पञ्चकालक्रम परित्याज्य परिग्राह्यो वेति विचार्यते ।

प्रपन्नं पञ्चकालक्रम
त्याज्य इति
पूर्वपक्ष ।

प्रपत्तिप्रकरणेषु तदङ्गत्वेन तदुपदेशाभावाद्विलम्बाक्षमस्याधिकारिण शातवार्षिकत्रतपूरणावधिकालक्षेपाक्षमत्वात् तदेकदेशभूतयोगशक्तौ च तस्यैवोपायत्वस्वीकारप्राप्ते यथाशक्ति वर्णाश्रमधर्मानुवर्णाश्रमानुष्ठान [१] रूपस्य भगवत्प्रीणनस्य तदाज्ञानुपालनस्य कर्तव्यत्वेऽपि व्यासदक्षादिधर्मशास्रोपदिष्टकालविभागपूर्वकदिनचर्या मर्यादयापि [२]सिद्धे अन्यथा कर्मणा परस्परोपरोधप्रसङ्गाच्च परित्याज्य इति पूव पक्ष |  राद्धान्तस्तु परिग्राह्य एवायमिति । तिष्ठतु तावदिह प्रमाणोपपत्तिपरामर्श । भाष्यकाराद्युपदेशसम्प्रदायस्तावत परामृश्यताम् । ' अथ परमैकान्तिनो

प्रपन्ने पञ्चकालक्रमो
ग्राह्य इति सिद्धा-
न्त ।

भगवदाराधनप्रयोगं वक्ष्ये' इत्यारभ्य. शौनक व्यास-बोधायनादिधर्मशास्त्रानुक्तेन भगवच्छास्त्रोक्तेन । वर्त्मना स्नानविशेषादिपूर्वकविलक्षणसमाराधनप्रक्रिया प्रतिपादन कथंभूतमधिकारिणमधिकृत्य भाष्यकारै कृतमिति कर्णे तवागतम् ? भवतु तच्छक्तमधिकार्यन्तर प्रतीति चेन्न । प्रपत्येकनिष्ठं तच्छिष्य प्रशिष्यादिभि [३] योग्यैरद्ययावद्यथाशक्ति तदनुष्ठानदर्शनात् । साधनबुध्या

  1. वर्णाश्रमानुष्ठानरूपस्य- क, ख, ग, च, झ
  2. दिनचर्याद्वारापि-क, ख, ग, झ
  3. प्रशिष्यादिभिश्च-क, ख, ग, च, झ