पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/११९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४
श्रीपाञ्चरात्ररक्षा

स्वयमेवाभिधाय , [१] " एव सचिन्त्य मन्त्रार्थ ततस्तत्पुरुष [२] परम्' इत्यादिना पूर्वैरुक्त ध्यानं सक्षिप्य. तदनुक्त पादादिकेशान्तध्यान प्रपञ्चय षोडशो पचारक्रमेण समाराधनं च विहितम् । उपचारान्तराणामपि सर्वषामेते षोडश प्रधानतमा । तदनुबन्धेनैवान्यत्सर्वमनुष्ठीयते । देश-कालावस्थाद्यनुसारेण सक्षेप-विस्तारस्वीकारश्च शास्त्रीय । अत पूर्वैरेककृण्ठ्वमिहाप्यनुसन्धे यम् । अत एव हि तदुभयानुसारिभिर्नारायणमुनिभिरपि पञ्चकालकल्पनया तत्तत्कालानुष्ठेयानि यथाक्रम प्रपञ्चितानि ।

तथा हि--

भगवच्चरणाम्भोजपरिचयविधिक्रमम् ।
एकान्तिभिरनुष्ठेय नित्य समभिदध्महे ॥
ब्राह्मे मुहर्ते सत्त्वस्थो हरिर्हरिरिति ब्रुवन् ।
उत्थाय तत्र शयने समासीन समाहित ' ॥

इत्यारभ्य--

"द्वयेन तद्विवरणैः प्रपद्य प्रभुमीश्वरम् ।
निक्षिप्य विरमात्मान तत्पादाब्जे कृती भवेत् ॥
यो नारायणदासीयो माधवाराधनक्रम ।
तत्राभिगमन नाम प्रथम पटलो ह्ययम्" ॥

इत्यन्तेनाभिगमन परिसमाप्य

अह्नो द्वितीयभागेन कृष्णाराधनतत्पर ।
द्रव्याण्याराधनार्थानि शास्त्रीयाणि समार्जयेत्' ॥

  1. पूर्वै इत्यारभ्य स्वयमेवाभिधाय इत्यन्त क, ख, ग, झ पुस्तकेषु विमुक्तम्
  2. त पुरुष-क, झ, परमिति पद क, ख, ग, घ, झ कोशेषु नास्ति