पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/११८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५३
द्वितीयोऽधिकारः

इत ऊर्ध्वमहं तावद्यावज्जीव श्रिय श्रिय ।
पदयोरर्चन कर्तु यतमान समाहित ॥
अभिगच्छन् हरि प्रात पश्चाद्द्रव्याणि चार्जयन् ।
अर्चयश्च ततो देवं ततो मन्त्रान् जपन्नपि ॥
ध्यायन्नपि परं देव कालेषूक्त्तेषु पञ्चसु ।
वर्तमान सदा चैव पाञ्चकालिकवर्त्मना ॥
स्वार्जितेर्गन्धपुष्पाद्ये शुभै शक्त्यनुरूपत ।
आराधयन् हरि भक्तया गमयिष्यामि वासरान् ॥" इति ।

श्रीपराशरभट्टारकैश्च----

गर्भजन्मजरादुखमिश्रससारसागरात् ।
उत्तीर्य भगवत्प्राप्ति लिप्सेत पुरुषो यदि ॥
प्रातरुत्थाय संस्मृत्य हरि तचरणोत्थिताम् ।
गङ्गा विभाव्य तीर्थाम्भस्ततस्तदवगाह्य च ॥
श्रुतिस्मृत्युदितं कर्म यावच्छक्ति परात्मन ।
आराधनत्वेनापाद्य सोर्ध्वपुण्ड्श्च तर्पयेत् ॥
मन्त्रैराधारशक्त्यादिपारिषद्यान्तसस्थितै ।

इति पूर्वाचार्योक्त सग्रहेण प्रदर्श्य, 'हरि प्रणम्य चायम्य प्राणान् प्रणिपतन् गुरून्' इत्यारभ्य श्रीमदष्टाक्षरमन्त्रस्य ऋषि छन्दो देवता बीजशक्ती प्रकाश्य. भाष्यकारानुक्तो मन्त्रन्यासस्तच्छिष्याद्युक्तप्रकारेणोपादेय इति ज्ञापनाय “मन्त्रन्यास तत कृत्वा मन्त्रार्थमपि चिन्तयेत्' इति सग्रहेणाभिधाय, पूर्वेर्यन्थेष्वनिवेशित मन्त्रार्थचिन्तन अत्यन्तोपयुक्ततया [१]

  1. मन्त्रार्थ अत्यन्तोपयुक्ततया-घ, ज