पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७६१
बालमनोरमा ।

१४०३ । अमावास्याया वा । (४-३-३०)

अमावास्यक:-आमावास्यः ।

१४०४ । अ च । (४-३-३१)

अमवास्य: ।

१४०५ । सिन्ध्वपकराभ्यां कन् । (४-३-३२)

सिन्धुकः । कच्छाद्यणि मनुष्यवुञि च प्राप्ते, अपकरकः । औत्स- र्गिकेऽणि प्राप्ते ।

१४०६ । अणञौ च । (४-३-३३)

क्रमात्स्तः । सैन्धवः । आपकरः ।

१४०७ । श्रविष्ठाफल्गुन्यनूराधास्वातितिष्यपुनर्वसुहस्त विशाखाषाढाबहुळाल्लुक् । (४-३-३४)

एभ्यो नक्षत्रवाचिभ्यः परस्य जातार्थप्रत्ययस्य लुक् स्यात् ।

१४०८ । लुक्तद्धितलुकि । (१-२-४९)

तद्धितलुकि सत्युपसर्जनस्त्रीप्रत्ययस्य लुक् स्यात् । श्रविष्ठासु जातः श्रविष्ठः । फल्गुनः इत्यादि । ’चित्रारेवतीरोहिणीभ्य: स्त्रियामुपसङ्ख्यानम् ’


अमावास्याया वा ॥ वुनिति शेषः। पक्षे सन्धिवेलादित्वाद्ण् । एकदेशविकृतन्यायादमावास्याशब्दादप्ययं विधिः । अ च ॥ अ इति लुप्तप्रथमाकम् । अमावास्यादकारः प्रत्ययोऽपीत्यर्थः । आदिवृध्द्यभावः प्रयोजनम् । सिन्ध्वपकराभ्याङ्कन् ॥ सिन्धुक इति ॥ सिन्धौ जात इत्यर्थः । कच्छादीति ॥ “कच्छादिभ्यश्च' इत्यणि 'मनुष्यतत्स्थयोश्च' इति वुञि च प्राप्ते अयङ्कन्विधिरित्यर्थः । अपकरक इति ॥ अपकरे जात इत्यर्थः । अणि प्राप्ते इति ॥ कन्वि धिरिति शेषः । अणञौ च ॥ क्रमात् स्त इति ॥ सिन्ध्वपकराभ्यामिति शेषः । श्रविष्टा ॥ एभ्य इति ॥ श्रविष्ठा, फल्गुनी, अनूराधा, स्वाति, तिष्य, पुनर्वसु, हस्त, विशाखा, अषाढा, बहुला एतेभ्य इत्यर्थः । जातार्थेति ॥ प्रकरणलभ्यमिदम् । स्वातिशब्दः ह्रस्वान्त इति कैयटह्रदत्तौ। दीर्घान्त इति ‘अत सातत्यगमने' इति धातैौ माधवः। कृत्तिकावाचिबहुळाशब्दष्टा वन्तः । समाहारद्वन्द्वे ह्रस्वनिर्देशः । लुक तद्धितलुकेि ॥ प्रथमस्य द्वितीये इदं सूत्रम् । उपसर्जनस्त्रीप्रत्ययस्येति ॥ ’गोस्त्रियोरुपसर्जनस्य' इत्यतस्तदनुवृत्तेरिति भावः । श्रविष्ठ इति ॥ ऋत्वणो लुकि स्त्रीप्रत्ययस्य निवृत्तिः । 'लुक् तद्धितलुकि' इत्यत्र अप्रधानमेवोपसर्जनम्, नतु शास्त्रीयम् । असम्भवादिति भावः । फल्गुन इति ॥ फल्गुन्योः जात इत्यर्थः । अणो p 96