[ भाष्यम् ]
धर्मलक्षणावस्थापरिणामेषु संयमात् योगिनो भवत्यतीतानागतज्ञानम् । धारणाध्यानसमाधित्रयं एकत्र संयम उक्तः । तेन परिणामत्रयं साक्षात्क्रियमाणम् अतीतानागतज्ञानं तेषु सम्पादयति ॥ १६ ॥
[ सूत्रम् ]
शब्दार्थप्रत्ययानाम् इतरेतराध्यासात् सङ्करः, तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ॥ १७ ॥
[ भाष्यम् ]
तत्र वाक् वर्णेष्वेव अर्थवती । श्रोत्रं च ध्वनिपरिणाममात्रविषयम् ।
[ विवरणम ]
वश्यतां योगिन उपयाति । धर्मलक्षणावस्थापरिणामेषु संयमात् योगिनो भवत्यतीतानागतज्ञानम् । धारणाध्यानसमाधित्रयमेकत्र संयम उक्तः । तेन संयमेन परिणामत्रयं साक्षात्क्रियमाणमतीतानागतज्ञानं तेषु परिणामेषु सम्पादयति । सकलपदार्थानां परिणामित्वात् तेषां चातीतादियोगात् कालत्रययुक्तसमस्तपदार्थविषयपरिणामत्रयसंयमेन सर्वं प्रत्यक्षीभवति । तथा प्रतिक्षणपरिणामधर्मकमनवस्थितं विश्वमीक्षमाणस्य वैराग्यं जायते ॥ १६ ॥
अयमन्यः संयमविषयः उपक्षिप्यते सर्वशब्दार्थप्रतिपत्त्यर्थः शब्दार्थप्रत्ययानामितरेतराध्यासात् संकरः तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानं सम्पद्यते । तत्र कः शब्दः, कोवा अर्थः, प्रत्ययो वा, संकरश्च किन्निमित्तः, कथं च तेषां प्रविभागः ? इति ॥
{{gap}}तत्र किं वागुच्चार्यः श्रोत्रग्राह्यः (स) शब्दः, उतार्थान्तरं, किं वागेव,तद्व्यतिरिक्तो वा, इति तावद्विचार्यते-वाक् तावन्न शब्दः । कस्मात् ? वाक् वर्णेष्वेवार्थवती । वागिति वर्णाभिव्यञ्जकमष्टसु स्थानेषु विषक्तमिन्द्रियं वर्णाभिव्यक्तिमात्रप्रयोजनोपक्षयं, न तावदर्थाभिव्यक्तौ शब्दाभिव्यक्तौ वा व्यापारं करोति ।
तथा श्रोत्रं च न स्वयं शब्दः, नापि शब्दविषयम् । कस्मात् ? ध्वनिपरिणाममात्रविषयं हि तत् । ध्वनिरिति सामान्यं वर्णावर्णरूपम् । तस्य विशेषः परिणामः अकारादिवर्णात्मकः, काकादिवाशितात्मकश्च मूढकरणव्यङ्गयः । तत् ध्वनिपरिणाममात्रप्रकाशावसानं श्रोत्रं नार्थशब्दयोर्व्याप्रियते ॥