पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/247

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
पुटमेतत् सुपुष्टितम्
२०१
साधनपादो द्वितीया:

[ भाष्यम् ]

 विपर्ययज्ञानवासनावासिता च न कार्यनिष्ठां पुरुषख्यातिं बुद्धिः प्राप्नोति । साधिकारा पुनरावर्तते । सा तु पुरुषख्यातिपर्यवसानां कार्यनिष्ठां प्राप्नोति । चरिताधिकारा निवृत्तादर्शना बन्धकारणाभावान्न पुनरावर्तते ॥

 अत्र कश्चित् पण्डकोपाख्यानेनोद्धाटयति - मुग्धया भार्यया अभिधीयते-‘पण्डक ! आर्यपुत्र ! अपत्यवती मे भगिनी, किमर्थं नाम नाहम्'- इति ! स तामाह-‌-'मृतस्तेऽहमपत्यमुत्पादयिष्यामि' इति । तथेदं विद्यमानं ज्ञानं चित्तनिवृर्तिं न करोति, विनष्टं करिष्यतीति का प्रत्याशा ॥

[ विवरणम् ]

  सैवाविद्येत्युच्यते । प्रलीनेष्वपि कारणेषु साम्यावस्थायमपि सत्यामवेिद्यावासना पुनः पुनः प्रवृत्तौ प्रधानस्य हेतुर्भवति । न पुनर्विपर्ययः प्राक् बुद्धयुत्पत्तेरभावात्प्रवृत्तिकारणमिति, तद्वासनैव प्रधानपुरुषसंयोगस्य कारणमित्याख्यायते ॥

 तदेवाह--विपर्ययज्ञानवासनावासिता न कार्यनिष्ठां कार्यसमाप्तिम् । कार्यनिष्ठामाह-पुरुषख्यातिमिति । तां बुद्धिर्न प्राप्नोति । पुरुषख्यातिपर्यवसाना हि बुद्धेः करणीयवत्ता । साधिकारा करणीयवती पुनः पुनरावर्तते विपर्ययज्ञानवासनावशात् ॥

 सा तु बुद्धिः पुरुषख्यातिपर्यवसाना कार्यनिष्ठां प्राप्नोति । पुनरपि तदेव स्पष्टयति-चरिताधिकारा निवृत्तादर्शनबन्धना कर्मविपाकयोरदर्शनमूलत्वाददर्शनमेव बन्धनम् । अदर्शननिवृत्तौ च बन्धनिवृत्तेर्बन्धकारणाभावाद्बन्धकारणस्यादर्शनस्याभावान्न पुनरावर्तते ॥

 अत्र कश्चित्पण्डकोपाख्यानेनोद्धट्टयति । पण्डकः षण्डः । स किल मुग्धया भार्यया अभिधीयते । कथम् ? आर्यपुत्र, मे भगिन्यपत्यवती, किमर्थं नाहं अपत्यवत्यस्मीति । तामाह मृतस्तेऽहमपत्यमुत्पादयिष्यामीति । तथेदं विद्यमानं ज्ञानं चितनिवृत्तिं न करोति, नष्टं करिष्यतीति का प्रत्याशा ||

 अयमुद्धट्टयितुरभिप्रायः-अविद्या चेदूबुद्धिपुरुषसंयोगस्य कारणं, तस्याश्च विद्या निवृत्तिहेतुः, ततश्च विद्यमानायां विद्यायां तद्विरोधिन्यविद्या निवर्तते । 26