वसन्तसेना-संपदं तुमं ज्जेव्व वंदणीआ संवुत्ता । ता गच्छ, आरुह पवहणं । सुमरेसि मं । [ सांप्रतं त्वमेव वन्दनीया संवृत्ता । तद्गच्छ, आरोह प्रवहणम् । स्मरसि माम् । ]
शर्विलकः--स्वस्ति भवत्यै । मदनिके !
सुदृष्टः क्रियतामेष शिरसा वन्द्यतां जनः । |
( इति मदनिकया सह प्रवहणमारुह्य गन्तुं प्रवृत्तः )
( नेपथ्ये ) ।
कः कोऽत्र भोः ! राष्ट्रियः समाज्ञापयति--'एष खल्वार्यको गोपालदारको राजा भविष्यतीति सिद्धादेशप्रत्ययपरित्रस्तेन पालकेन राज्ञा घोषादानीय घोरे बन्धनागारे बद्धः । ततः स्वेषु स्वेषु स्थानेष्वप्रमत्तैर्भवद्भिर्भवितव्यम्' ।
शर्विलकः--(आकर्ण्य) कथं राज्ञा पालकेन प्रियसुहृदार्यको मे बद्धः ? । कलत्रवांश्चास्मि संवृत्तः । आः, कष्टम् ; अथवा द्वयमिदमतीव लोके प्रियं नराणां सुहृच्च वनिता च । संप्रति तु सुन्दरीणां शतादपि सुहृद्विशिष्ठतमः ॥ २५ ॥ भवतु, अवतरामि । ( इत्यवतरति )
मदनिका--(सास्रमञ्जलिं बद्धा ) एव्वं णेदं । ता परं णेदु मं अज्जउत्तो समीवं गुरुअणाणं । [एवं नेदम् । तत्परं नयतु मामार्यपुत्रः समीपं गुरुजनानाम् ।]
सुद्दष्ट इति । यत्र ते इति । हेतावाधारविवक्षया 'यत्र' इति सप्तमी । कर्तुः शेषत्वविवक्षया 'ते' इति षष्ठी ॥ २४ ॥ द्वयमिति ॥ २५ ॥ उदवसितं
- ↑ 'वधू'शब्दवाच्यत्वरूपमवगुण्ठनम् ; अन्यानवलोकनीयत्वात् ।
अन्यानबलोकनरूपं 'असूर्यम्पश्या राजदारा:' इत्यादिसदृशमिति भावः ।