पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८५
तृतीयोऽधिकार

योऽह सोऽहमनेनैवाप्यद्वैतेन सदैव हि ।
एवमेव समभ्यासान्मतिमाश्छिन्नसशय ॥
तत्प्रभावाच्च तेनैव तथा कालेन जायते ।
अनेन क्रमयोगेन जपध्यानान्वितेन तु ॥
निखिलं [१] चाप्यधीकुर्यान्मन्त्रबृन्दं पुरोदितम् ।
यावदाभाति भगवान् स्थाने पूर्वोक्तलक्षणे ॥
प्रलीनमूर्तिरमलोऽप्यनन्तस्तेजसा निधि ।
चिदानन्दघन शान्तोऽप्यनौपम्यो ह्यनाकुल ॥
समाधायात्मनात्मानं तत्र त्यक्त्वा जपक्रियाम् ।
ध्यातृध्येयाविभागेन यावत्तन्मयता व्रजेत् ॥
यदा सवेद्यनिर्मुक्ते समाधौ लभते स्थितिम् ।
अभ्यासाद्भगवद्योगी ब्रह्म सम्पद्यते तदा ॥ " इति

अत्र न स्वरूपैक्यादिक विवक्षितम् । शरीर-शरीरिणोर्जीवात्म-परमात्मनो शारीरकसमर्थितप्रकारेणाविरुद्धस्य, अस्पृष्टलक्षणादोषस्य, अशेषशास्त्रानुगुणस्य, अनुकूलतर्कशालिन , “तत्स्थत्वादनुपश्यन्ति ह्येक एवेति साधव

[२] ' इत्युपबहणशतसुस्थितस्य [३]' अवस्थितेरिति काशकृत्स्न ' इति सूत्रितस्य , पूर्वापरग्रन्थसहितान्तरानुगुणस्य विशिष्टाद्वैतस्य विवक्षितत्वात् । 'ध्यातृध्येयाविभागेन' इत्यादिना च निर्विकल्पकसमाध्यवस्थोच्यते । 'ब्रह्म सम्पद्यते तदा' इति च परमसाम्यरूपफलप्रतिपादनम् । उक्त च ब्रह्मैव भवतीत्यादि वाक्यान्यधिकृत्य भाष्यकारै –“प्रकारैक्ये च तत्त्वव्यवहारो मुख्य एव , यथा सेयं गौरिति” इति । अन्यथा “निरञ्जन परम साम्यमुपैति '

  1. निखिल वापि—क, ख, झ
  2. (तन्मयत्वेन साधव )—च
  3. इत्याद्युपबृहण- घ