" मम साधर्म्यमागता" इति श्रुति-स्मृतिभ्या विरोध । तथा च श्रुत्यन्तरम्-- " यथोदक शुद्धे शुद्धमासिक्त तादृगेव भवति एव मुनेर्विजानत आत्मा भवति गौतम " इति । साम्ये च स एवेति व्यपदेश श्रुतावेव दृश्यते-- "वैष्णवं वामनमालभेत स्पर्धमानो विष्णुरेव भूत्वा इमान् लोकानभिजयति" इति । एवं च सति [१] 'महिमा तु सविज्ञानस्तदीयस्तस्य जायते' इत्यादिप्राकरणिकग्रन्थसामञ्जस्य भवति । शारीरके च फलपादे मुक्तस्याविर्भूतस्वरूपस्य गुणाष्टकविशिष्टस्य जगद्व्यापारव्यतिरिक्त भोगमात्रसाम्य च सूत्रितम्---- 'जगद्व्यापारवर्ज प्रकरणादसन्निहितत्वाच्च ', 'भोगमात्रसाम्यलिङ्गाच्च' इति । अत उपायदशाया फलदशाया च विशिष्टैक्यानुसन्धानमेवात्र विवक्षितम् ।
एतेन लाञ्छनन्यासाद्यनन्तर 'मुद्रा बध्वा [२] स्मरेद्देवं देवोऽहमिति भावयेत्' इति समाराधनारम्भग्रन्थोऽपि [३] ।मा निर्व्यूढ । 'बध्वा मूलादिका मुद्रा देवोऽहमिति भावयेत् [४] इत्यादिसहितान्तरग्रन्थाश्चात्र तुल्यन्याया । अत्र च · मनो ब्रह्मेत्युपासीत' इत्यादिष्विवेतिकरणादिवशात् दृष्टिविधित्व सुस्पष्टम् । अत एव हि तथाविधभावनयाप्यनन्तर योग्यतापादनमात्रमुक्तम्-
' न्यासेन देवमन्त्राणा देवतादात्म्यभावनात् । |
अन्यथा--
" देवतारूपमात्मानमर्चयेदर्घ्यधूपकै । |
.