पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८४
श्रीपाञ्चरात्ररक्षा

"सम कायशिरोग्रीव सन्धाय सह वक्षसा ।
दृड्नासाग्रगता कार्या विनिमीलितलक्षणा ॥
जिह्वातालुतलस्था च सान्तरे दशनावली ।
ईषदोष्ठपुटौ लग्नौ धार्यौ द्वौ बाहुकूर्परौ ॥
उरुमध्यप्रदेशे तु हस्तौ नाभेरधो [१] न्यसेत्
अधरोत्तरयोगेन वामदक्षिणत क्रमात् ॥
अचलं योगपट्टेन त्वेव सन्धार्य विग्रहम् ।
सकोच्यापानदेशात्तु ह्यपरिष्टात्तमेव हि ॥
विकास्य वर्णहीनेन[२] हार्देनालक्ष्यमूर्तिना ।
विषयान्तर्निविष्टं तु क्रमाच्चित्त समाहरेत् ॥
कुर्याद्वै बुद्धिलीनं तु ता च कुर्यात् स्वगोचरे ।
समाधायात्मनात्मान सह मन्त्रैस्तत [३] । क्रमात् ॥" इति

योगे तादात्म्यभाव-
नस्य उपपति ।

 यत्पुनरिह योगदशाया तादात्म्यभावनमुपदिश्यते-----

"ततो जाग्रत्पदस्थ चाप्यनिरुद्ध च मन्त्रपम् ।
परावर्त्य शतं बुद्ध्या तदभिन्नेन चेतसा ॥
तन्मन्त्रजपसामर्थ्यात्तादात्म्यस्थितिबन्धनात् ।
महिमा तु सविज्ञानस्तदीयस्तस्य जायते ॥
अभ्यासाद्वत्सरान्ते तु तदद्वैतसमन्वित ।
अथ प्रद्युन्नमन्त्र तु परावर्त्य शतद्वयम् ॥

  1. नाभावध -घ, ड, छ
  2. विकास्यावर्णहार्णेन-घ, ड, छ
  3. मन्त्रै स्वत –क, झ