पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८३
तृतीयोऽधिकारः

निद्रान्ताचम-
नादिकम् ।

 अत्र-----

"वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् ।
यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले " ।

इत्यादिभिर्मन्वाद्युपदिष्टसोदकमण्डलुधारणादिकं भगवद्योगिनोऽप्यनपोदितमिति ज्ञापनाय 'कमण्डलुस्थितेनैव' इत्युक्तम् । निद्रान्तनिमित्ततया[१], उत्तरकर्माङ्गतया चात्र तन्त्रेणाचमनम्, तुशब्देन स्वशास्रोक्तविशेषः तोया लाभदशायां[२] दक्षिणश्रवणस्पर्शश्च व्यज्यते । स्मरन्ति हि -----

"सम्यगाचमनाशक्तावलाभे[३]सलिलस्य च ।
पूर्वोत्तेषु निमित्तेषु दक्षिणं श्रवणं स्पृशेत् " ॥ इति ।

अत्र मन्त्रचतुष्कादिव्यतिरिक्तं सर्वं संहितान्तरनिष्ठानामपि साधारणम् । अजिनासन इति "चेलाजिनकुशोत्तरम्" इति गीते प्रधानांशग्रहणम् । "ततस्त्वभिमतेनैव[४] त्वास्ते पद्मासनादिना " इति जितासनगतत्वं विधीगते ।

अपररात्रयोगः ।

 यच्च "समं कायशिरोग्रीवं धारयन् अचलं स्थिरम्" इत्यादिना योगदशापेक्षितं गीतं तदपि सर्वमिह सविशेषमुपदिश्यते[५]

  1. निद्रानिमित्ततया-क. च. झ.
  2. तोयाभाव- क, ख, ग, च, झ.
  3. शक्तावभावे-क. ख. ग. च, झ .
  4. अभिमतेनैव तिष्ठेत्-क, ख, ग, च, झ.
  5. समं कायेत्यारभ्य उपदिश्यते इति यावत् घ कोशादन्यत्र विमुक्तम् ।