निद्रान्ताचम-
नादिकम् ।
अत्र-----
"वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् । |
इत्यादिभिर्मन्वाद्युपदिष्टसोदकमण्डलुधारणादिकं भगवद्योगिनोऽप्यनपोदितमिति ज्ञापनाय 'कमण्डलुस्थितेनैव' इत्युक्तम् । निद्रान्तनिमित्ततया[१], उत्तरकर्माङ्गतया चात्र तन्त्रेणाचमनम्, तुशब्देन स्वशास्रोक्तविशेषः तोया लाभदशायां[२] दक्षिणश्रवणस्पर्शश्च व्यज्यते । स्मरन्ति हि -----
"सम्यगाचमनाशक्तावलाभे[३]सलिलस्य च । |
अत्र मन्त्रचतुष्कादिव्यतिरिक्तं सर्वं संहितान्तरनिष्ठानामपि साधारणम् । अजिनासन इति "चेलाजिनकुशोत्तरम्" इति गीते प्रधानांशग्रहणम् । "ततस्त्वभिमतेनैव[४] त्वास्ते पद्मासनादिना " इति जितासनगतत्वं विधीगते ।
अपररात्रयोगः ।
यच्च "समं कायशिरोग्रीवं धारयन् अचलं स्थिरम्" इत्यादिना योगदशापेक्षितं गीतं तदपि सर्वमिह सविशेषमुपदिश्यते[५] ।