धर्मसाधनेषु प्रधानतमं शरीरं रक्षितु प्रवृत्ते 'ब्रह्मा स्मृत्वायुषो वेदमुपवेदमथर्वणाम्' इत्यथर्वणवेदोपवेदभूतायुर्वेदे “ब्राह्मे मुहूर्त उत्तिष्ठेजीर्णाजीर्णे निरूपयन् " इत्यभिधाय, अजीर्णे पुनरासन्ध्यागमनात् स्वापो विधीयते । ईदृशसर्वपुरुषक्रोडीकारेण[१] हि 'युक्तस्वप्नावबोधस्य' इति गीतम् । तस्मात् सर्वेषु मानवेषु प्रायिकतयौत्सर्गिकौ निद्राप्रबोधकालौ 'यांमद्वय शयान' इत्यादिभिरुपदिश्यत [२]इति विषयव्यवस्था ।
एवं प्राप्तकालमपनीतनिद्रातमस्कत्वेन सत्त्वस्थ प्रसन्नधीश्च भवति । तेन पूर्वयामानुसंहितमन्त करणचित्रभित्तिगत विचित्रशुभाश्रयविशिष्ट ध्येय
ब्राह्ममुहर्तप्रबोधः
तत्फ़ल च ।
निद्रातमोऽन्तरितमपि तत्कालैममुन्मुषितसत्त्वसन्धुक्षित सात्विकज्ञानरूपप्रदीपप्रकाशेन सम्यगवलोक्येत[३] । तत [४]एव चापररात्रयोगो निष्पद्यते । य एष सात्त्वतादिषु ब्राह्ममुहूर्तात् पूर्वमेव कर्तव्यत्वेन प्रपञ्च्यते----
"समुत्थायार्धरात्रेऽथ जितनिद्रो जितश्रम । |
इत्यादिना एतत्सहितानिष्ठानामेष योगकालनियम [५] । नि शब्दे सर्वसुषुप्तिकाले च ऐकाग्र्यातिशयसभावनया च ताद्विधि । तत्तत्पुरुषशक्त्याद्यनुसाराच तत्तत्कालविवेरविरोध इत्युक्तम् ।