पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/१५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
पुटमेतत् सुपुष्टितम्

शब्दनिर्णयः।

११

अयोगात् समुदायस्य कारणानां च भेदतः।

अतो वर्णातिरिक्तात् सा शब्दादेवेति गम्यते ॥१४ ॥

अस्ति तावद् गकारादिवर्णोपलब्ध्यनन्तरमर्थबुद्धि:। सा किं वर्णेभ्य एव, तद्व्यतिरिक्ताच्छब्दाद् वेति विवेचनीयम् । न तावदेकैकस्माद् वर्णादुपलब्धादनुपलब्धाद् वा सा, अदृष्टे:। नापि वर्णसमुदायात् , तदभावात् । अत एव न वर्णसमुदायोपलब्धेःस्मृतेर्वार्थप्रत्ययः, उपलब्धिकारणानां च वर्णोच्चारणानां क्रमवर्तितया भेदात्, संस्काराणां च स्मृतिहेतूनां प्रतिवर्णं निरपेक्षस्मृतिहेतुतया भिन्नत्वाद् न युगपत् समस्तवर्णोपलब्धिः स्मृतिर्वा सम्भवति । अतोऽर्थबुद्धिकार्यपरिशेषानुमानकल्पिताद् वर्णभेदेऽप्येकोऽयं शब्द इति प्रत्यक्षावसेयादन्यतः शब्दादर्थावगम इति ॥ १३, १४ ॥

इदानीमिमं पक्षं निराकरोति-

वर्णातिरेकि नाध्यक्षं वर्णाः सोपाधिकाः पदम् ।

अर्थे बुद्धे पदं नैकं योगः शब्दान्तरेऽपि न ॥ १५ ॥

{{c|न तावद् वर्णव्यतिरिक्तं पदं वर्णसमवेतं घटादिवत् स्वतन्त्रं वा प्रत्यक्षेणावगम्यते । नन्वेकमिदं पदमिति भिन्नवर्णातिरिक्तं पदमध्यक्ष्यते । न तावच्छ्रोत्रेन्द्रियेण, युगपद् गकारादिवर्णत्रयोपलम्भायोगात् । न च वर्णोपलम्भविकल: शब्दप्रत्ययः । न च गकारमात्रे पदमभिव्यज्यते, गङ्गादिपदानामपि तुल्यत्वात् । सत्यं तत्रैवाभिव्यज्यते । किन्तूत्तरवर्णाभ्यां विशेषेण परिच्छिद्यते । एवमपि वर्णत्रयावमर्शमन्तरेण न विशि-