पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

१२

शब्दनिर्णयः

ष्टार्थावबोधकं पदभिव्यज्यते । स चावमर्शो न श्रोत्रेन्द्रियनिबन्धनः, असम्भवात् । न च गकारमात्र एव गोत्वमिव खण्डादौ वर्णातिरिक्तं किञ्चित् पदमभिव्यज्यते । नापि मानसप्रत्यक्षम् पदम् , सकृद्वर्णत्रयानवमर्शात् । एकैकवर्णप्रत्ययजनितसंस्कारेऽन्त्यवर्णप्रत्ययजनितपरिपाके च मनस्यध्यक्ष्यत इति चेद्, न । वर्णत्रयानुपरागेणानवभासनात् । तेषां युगपदुपरागानुपपत्तेश्च । अथ वर्णोपलब्धिजनितसंस्काराः सम्भूयाशेषवर्णविषयकं स्मृतिज्ञानमेकं सम्पादयेयुः । न तहिं स्मर्यमाणवर्णालम्बि पदविज्ञानं प्रत्यक्षम्, स्मर्यमाणघटगतशौक्लयवत् । किञ्च तादृशादेव स्मृतिविज्ञानादर्थबुद्धिसिद्धेः पदकल्पनार्थवती । नन्ववभासते पदम् । सत्यम् , वर्णा एवैकार्थबोधनसामर्थ्योपाधौ वनवत् पदबुद्धिभाजः । ननु शक्यवधारणायाः प्रागपि पदमवगम्यते । न । अनभ्यस्तभाषायामुदाह्रियमाणायामव्युत्पन्नस्य पदविभागज्ञानाभावाद् , एकानेकत्वाभ्यां पदसन्देहात् । संहितास्वप्यध्येतॄणां पदव्यवहारस्तथाविधबुद्धिमव्द्यवहारनिबधंनः । अतः पदबुद्धिरौपाधिकी वर्णविषयैव । ननु वर्णेभ्यो नार्थप्रत्यय इत्युक्तं, सत्यम्। अबोधकपदाभिव्यक्तावप्युक्तानुपपत्तिस्तुल्या। अथैकैव वर्णत्रयावलम्बिनी स्मृतिः पदमभिव्यनक्ति, सा तर्ह्यर्थाभिव्यक्तावपि समाना । वक्तव्या च सा पदाभिव्यञ्ज-


१.‘मे’ क पाठः. २. ‘ण्डत्वादौ’ ख. पाठः. ३. ‘णाव ' न. पाठः ४. ‘र्थप्रतिपादन' क पाठः. ५. ‘ना' ख. पाठः६. ‘त’ ग.पाठ: