सामग्री पर जाएँ

पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शाब्दनिर्णयः ।

१३

कवर्णसङ्ख्यानियमव्यवहाराय । न हि सन्ख्येयावमर्शमन्तरेण सङ्ख्योपलभ्यते । तस्माद् वर्णव्यतिरिक्तपदकल्पनाकारणाभावाद् वर्णेभ्य एवार्थप्रतिपत्तिरिति रमणीयम् ॥ १५ ॥ द्वितीयं पूर्वपक्षम् वर्णयति-

स्मारका एव संस्काराः स्मृतिभिः सम्प्रबोधिताः

अर्थधीलब्धसामर्थ्या बोधयन्त्यर्थमञ्जसा ॥ १६ ॥

वर्णोपलम्भजनितसंस्कारा वर्णस्मृतिहेतव एवार्थं प्रत्याययन्ति । नन्वनुपलब्धानां चक्षुरादिवत् कथं प्रत्यायकत्वम् । नैष दोषः । स्वस्वकार्यवर्णविषयस्मरणसमुन्नीतानां तदुपपत्तेः। नन्वदृष्टा संस्कारेभ्योऽपूर्वार्थाधिगति: । सत्यम् । इहान्त्यवर्णप्रत्ययसहकारिभ्यस्तेभ्य एव प्रत्यभिज्ञेव पूर्वोपलम्भसंस्कारादर्थाधिगतिरित्यनन्तरकार्यदर्शनादेवावगम्यते ॥ १६ ॥ उच्यते-

स्मारकादर्थधीर्न स्यादन्यत्रानुपलब्धितः ।
साम्यात् प्रसिद्धर्वर्णेभ्यः क्रमसिद्धेभ्य एव सा॥१७॥

न तावदन्यज्ञानसंस्कारोऽन्यमर्थमवगमयति, अदर्शनात् । कार्यसामर्थ्यात् कल्प्यत इति चेत् , तर्हि तत एव क्रमोपलब्धानामेव वर्णानां सामर्थ्यं कल्प्यताम् । नन्वन्त्यवर्णप्रत्ययात् तत्पूर्वक्षणवर्तिनां पूर्ववर्णोपलम्भानां कथं कालव्यवधानेन कार्यसामर्थ्यमदृष्टपूर्वं कल्प्यते । समानमेतद् युगपद्भाविसंस्कारेष्वदृष्टसामर्थ्यकल्पनम् । कोऽयं निर्णयहेतुः । अनुपपत्तिसाम्याच्छब्दार्थप्रतिपत्तिप्रसिद्धेश्च वर्गोपलम्भपक्ष- एव श्रेयान् । प्रत्यभिज्ञायामपि स्मृत्यंश एव संस्काराज्जायते,