पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

१४

शब्दनिर्णयः ।

नापूर्वाधिगमः। न चान्त्यवर्णप्रत्ययोऽपि सहकारी । यदि तावत् पदेभ्य एव । संसर्गबुद्धिराश्रीयते , तदा वाक्यान्त्यवर्णप्रत्ययसमये पदान्त्यवर्णप्रत्ययानामनवस्थानात् । (न) च वाक्यान्त्यवर्णप्रत्यय एव कृत्स्नपदसहकारी, तस्यानवस्थितवर्णविशेषस्य पदेष्वन्तर्भावे पदानवधारणप्रसङ्गात्, प्रतिप्रयोगं पदस्व- रूपभेदात् । अनन्तर्भावे संस्कारमात्रस्य पदस्य स्वाभिधेयपदार्थांशबोधने सामर्थ्याभावः स्थित एव । पदेभ्यः पदार्थास्तेभ्यः संसर्ग इत्येतन्निराकरिष्यते ॥ १७ ॥ अपिच-

व्युत्क्रमे वक्तृभेदे च स्यात् संस्काराविशेषतः।

कृत्स्नसंस्कारधीहानात् सम्बन्धादिग्रहश्च न ॥१८ ॥

व्युत्क्रमप्रयुक्तेष्वपि वर्णेषु संस्काराविशेषादर्थबुद्धिः स्यात् । वर्णपक्षेऽपि तथा किं न स्यात्, क्रमविशेषनियमात् । तर्हि संस्कारेऽपि स नियमः स्यात् । न तावदुत्पत्तिक्रमनियमस्तेषामर्थबोधने विनियुज्यते । अन्त्यवर्णसंस्कारजन्मानन्तरमुत्पत्तीनामतिवृत्ततया तत्क्रमस्याप्यतिवृत्तेः । न च देशकालक्रमःयुगपदेकत्रावस्थानात् । ननु न वर्णानामपि देशकालक्रमः , व्यापित्वन्नित्यत्वाच्च । उपलब्धिक्रमस्त्वन्त्यवर्णोपलब्ध्यनन्तरमतिवृत्तः। सत्यम् । अशेषवर्णावमर्शिस्मृतिविज्ञानोपरक्ततयाऽतिवृत्तस्यापि क्रमस्य हेतुत्वाभ्युपगमाद्, उपलब्धिक्रमपक्षस्यानङ्गीकरणात् । वक्तव्या च तथाविध स्मृतिः ।


१. ‘त्तिनि’ ग. पाठः