पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शाब्दनिणयः ।

१५

अन्यथा एतावद्भिरेवंक्रमकैश्च वर्णैरेकपदबुद्धिगोचरैरुत्पन्नाः संस्कारा एकमर्थमधिगमयन्तीति क्रमसङ्ख्याविशिष्टवर्णपदव्यवहाराद्ययोग: । तदुक्तमौत्पत्तिकसूत्रे' वार्तिककारैः-

“अन्त्यवर्णे च विज्ञाते सर्वसंस्कारकारितम् ।

स्मरणम् पूर्ववर्णेषु सर्वेष्वन्ये प्रचक्षते । ”

इति सिद्धान्तत्वेन । अतो व्युत्क्रमप्रयुक्तेषु स्यादेवार्थबुद्धिः। भिन्नवक्तृकेष्वपि क्रमविशिष्टतयाऽनुसन्धीयमानेषुत्पद्यमानार्थबुद्धिः संस्कारपक्षे तदनपेक्षा स्यात् । स्यात् तर्हि क्रमोपहितसंस्कारबुद्धिरर्थाधिगमहेतुः । न । तदुपलम्भकारणाभावात् । वर्णस्मृतिकार्याण्येवोपलम्भकारणमिति चेद्, न। तेषामपि क्रमवर्तित्वात् , क्रमोपहितसकलवर्णविषयकैकज्ञानायोगात् । किञ्च अस्मिन् पक्षे सम्बन्धिज्ञानात् सम्बन्धज्ञानम्, ज्ञाताच्छब्दादर्थबुद्धिः , सविकल्पके चाभिधानानुस्मृतिः , इत्यादिव्यवहारो दुस्संपादः । अथ क्रमसंसृष्टाशेषवर्णावम- र्शिस्मृतिज्ञानोपगमादेवैतत् सर्वं सम्पत्स्यत इति, तर्हि तत । एवार्थसिद्धे: संस्कारेषु सामर्थ्यकल्पना दुर्लभैव । तस्मात् संस्काराणामपूर्वसामर्थ्ययोगात्, प्रसिद्धिविरोधाद् , व्युत्क्रमादिषु प्रसङ्गात्, सम्बन्धज्ञानाद्ययोगाच्च न संस्कारपक्षः श्रेयान् । किन्तु वर्णस्मृतिपक्ष एवेति स्थितम् ॥ १८ ॥


१. ‘गात् ।’क. पाठः २. ‘व’, ३. ‘वा’ क. पाठः

  • जैमिनिसूत्रम् (१. १. ५)