अलङ्कारमणिहारः (भागः १)

विकिस्रोतः तः
               




   

Government Oriental Library Series

Bibliotheca Sanskrita No 51.

अलङ्कारमणिहारः


श्रीमद्भिः श्रीकृष्णब्रह्मतन्त्रपरकालसंयमीन्दैः प्रणीतः

प्रथमो भागः



ALANKARA-MANIHARA

BY

SRI KRISHNA-BRAHMATANTRA PARAKALASWAMIN

Part I


EDITED BY

L. SRINIVASACHARYA

Pandit, Government Oriental Library, Mysore



Published under the authority of the government of

His Highness the Maharaja of Mysore



MYSORE:

PRINTED AT THE GOVERNMENT BRANCH PRESS

1917

Government Oriental Library Series

Bibliotheca Sanskrita No 51.

अलङ्कारमणिहारः


श्रीमद्भिः श्रीकृष्णब्रह्मतन्त्रपरकालसंयमीन्दैः प्रणीतः

प्रथमो भागः



ALANKARA-MANIHARA

BY

SRI KRISHNA-BRAHMATANTRA PARAKALASWAMIN

Part I


EDITED BY

L. SRINIVASACHARYA

Pandit, Government Oriental Library, Mysore



Published under the authority of the Government of

His Highness the Maharaja of Mysore



MYSORE:

PRINTED AT THE GOVERNMENT BRANCH PRESS

1917

प्रस्तावना

अथेदानीं किञ्चिदत्र प्रस्तूयते—सुप्रसिद्धं खल्वेतद् प्रेक्षावतामपेक्षावतां च सर्वेषां पुरुषाणां, यत्--कर्णाटजनपदसंपदधिष्ठानभूतमहीशूरमहाराजाधानीयमध्यविद्योतमानदिव्यरत्नसिंहासनाधिरूठश्रीमन्महाराजश्रीकृष्णराजसार्वभौमवंशदेशिकेन्द्राःश्रीकृष्णब्रह्मपरतन्त्रपरकालसंयमीन्द्राः परश्शतप्रबन्धनिर्माणधुरन्धराः सर्वतन्त्रस्वतन्त्राः अनन्यजनसामान्यमान्यतमानेककार्यनिर्वहणविचक्षणाः श्रीब्रह्मतन्त्रपरकालमहास्थानमभूषयन्निति.

ते किल महाभागाः अलंचक्रुरपि निखिलेतरशास्त्रेष्विवालंकारशास्त्रे केनचन महता प्रवन्थेन अलंकारमणिहारनामधेयेन भगवन्तंश्रीनिवासं परमं दैवतं देवतानामपि. अयं च प्रबन्धः प्रत्यलंकारमात्मीयैरेव लक्ष्यमाणैः केवलभगवद्विभूतिविषयकैरारचितः परिहृतश्च तेन बहोः कालादापतितो महतोलंकारशास्त्रस्य उदाहरणगर्हणनिबन्धनो दोषः। इदानीं पुरातनेन महता प्रबन्धेन लक्ष्यलक्षणसमन्वयविषयकसङ्कोचोपि शिथिलीभविष्यति पठितॄणां पाठयितॄणां च॥

किं चास्मिन् प्रबन्धे प्राच्योदीच्याखिलालङ्कारिकसम्मतस्सिद्धान्तः परस्परं मतभेदः तत्र साधुत्वासाधुत्वविवेकश्च स्फुटं निरूपितः प्रायः सर्वेष्वप्यलङ्कारेषु। तेन च सशुकं विज्ञातुमखिलमप्यलङ्कारसर्वस्वं, अन्तरेणैव अवलोकनं प्राचीनस्य नवीनस्य वा कस्याप्यपरस्यालङ्कारस्यानुबन्धस्य।

अस्मिंश्च पुस्तके प्रथमभागे उपमालङ्कारमारभ्य समासोक्तिपर्यन्ताः पञ्चविंशतिरलङ्काराः सविचाराः सङ्ग्रथिताः, द्वितीयभागे चावशिष्टा सङ्ग्रथ्यन्ते, इत्यावेदयति

मैसूरु
सज्जन विधेयः
 
31—3—1917
लक्ष्मीपुरं श्रीनिवासाचार्यः.