अलङ्कारमणिहारः (भागः १)/दृष्टान्तसरः (२०)

विकिस्रोतः तः
Jump to navigation Jump to search

अथ दृष्टान्तसरः



बिम्बत्वप्रतिबिम्बत्वापन्नधर्मादिकं द्वयोः।
वाक्यार्थयोश्चेदौपम्यमार्थं दृष्टान्त ईर्यते ॥

 बिम्बप्रतिबिम्बभावापन्नसाधारणधर्मादिकं वाक्यार्थयोरार्थमौपम्यं दृष्टान्त इत्यर्थः । तदुक्तम्- ‘दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम्' इति । सर्वेषां उपमादीनाम् । दृष्टः अन्तः निश्चयो यत्रेति यथार्थाभिधानोऽयं, दार्ष्टान्तिके सन्दिग्धस्यार्थस्यात्र निश्चयदर्शनात् ॥

 यथा--

 गणहीनाऽपि च कविता फणिगिरिपतिनाममसृणिता श्लाघ्या । योषा स्पृहणीया खलु भूषाही- नाऽपि पूर्णलावण्या ॥ ५९५ ॥

 अत्र कवितायोषयोरुपमेयोपमानयोः श्लाघ्यत्वस्पृहणीयत्वयोर्धर्मयोरपि बिम्बप्रतिबिम्बभावः । अस्य चालंकारस्य प्रतिवस्तूपमाया भेदकमेतदेव-यतस्यां धर्मो न प्रतिबिम्बितः किंतु शुद्धसामान्यात्मनैव स्थितः, इह तु प्रतिबिम्बित इति ॥  यथावा--

 श्रेयस्विनी त्रिलोकी भूयः कृपयैव भुजगशिखरीन्दोः । ओजस्विनी दिनश्रीस्तेजस्फूर्त्यैव तामरसबन्धोः ॥ ५९६ ॥

 यथावा--

 शुद्धिमतीयं जगती श्रीशैलेशाङ्घ्रिजन्मना सरिता । ऋद्धिमती त्रिदिवश्रीर्मन्दारभुवा महावदान्यतया ॥ ५९७ ॥

 यथावा--

 गिरेिशादिस्त्वदपाङ्गात्त्वं तु स्वत एव हीशिता भगवन् । काचमणिराचकास्ति द्युमणिकरादेष तु स्वभासैव ॥ ५९८ ॥

 यथावा--

 निस्स्वोपि त्वयि भक्तः पूज्यो नान्यो महासमृद्धिरपि । अभिरूपोऽनङ्गोपि श्लाघ्यो नानीदृशो महाङ्गोऽपि ॥ ५९९ ॥

 अनङ्गः अल्पाङ्गः नञोऽत्रानुदरा कन्येत्यादाविवाल्पत्वमर्थः। कृशतनुरपीत्यभिप्रायः । काम इत्यप्युपस्कार्यम् । महाङ्गः पीवरावयवोपि । पक्षे उष्ट्र इत्यर्थः । 'उष्ट्रे क्रमेळकमयमहाङ्गाः' इत्यमरः ॥  वैधर्म्येण यथा--

 मरुदात्मंभरिगिरिपतिवरदानादेव देहिनो विभवः । शरदागमं विना कः करदायी स्याद्विधुप्रसादस्य ॥ ६०० ॥

 विधुप्रसादस्य इन्दुप्रसन्नतायाः । करदायी हस्तालम्बवितरीता ॥

 यथा वा--

 तावद्भवः प्रभविता यावद्भगवन्न नेत्रपात्रमसि । सौपर्णमन्त्रवर्णे कर्णोद्गीर्णे न पन्नगत्रासः ॥ ६०१ ॥

 अत्राद्योदाहरणे प्रस्तुतवाक्यार्थगतयोर्वरदानविभवयोः, द्वितीयोदाहरणे भवप्रभवितृत्वभगवत्कटाक्षपात्रताभावयोश्च वैधर्म्येण शरदागमविधुप्रसाददानाभावौ पन्नगत्रासाभावसौपर्णमन्त्रकर्णगोचरत्वे च यथाक्रममुत्तरवाक्ये प्रतिबिम्बतया निरदेशिषाताम् ॥

 यथा वा--

 भजतां ददाति जगतां भवती लोकोत्तरं फलं सकलम् । अहिशैलमणिवधूमणि न हि मल्लीसुममसौरभं सूते ॥ ६०२ ॥

 इत्यत्रापि वैधर्म्येण दृष्टान्तो द्रष्टव्यः । 'अत्र दृष्टान्तालंकारमहिम्नैव बिम्बप्रतिबिम्बभावेन प्रतीयमानमुपमानोपमेयभावमनादृत्य दृष्टान्तोदाहरणनिदर्शनादिशब्दाः कविना न प्रयोक्तव्याः पौनरुक्त्यापत्तेः ’ इत्येकावळीकारः। अत एव-

तृप्तियोगः परेणापि न महिम्ना महीयसाम् ।
पूर्णश्चन्द्रोदयाकाङ्क्षी दृष्टान्तोऽत्र महार्णवः ॥

इति माघपद्यव्याख्यानावसरे 'नायं दृष्टान्तालंकार बिम्बप्रतिबिम्बभावेनौपम्यस्य गम्यत्वे तस्योत्थानात् । किंतु दृष्टान्तशब्देन तुल्यार्थाभिधानाढुपमालंकरारः’ इत्युक्त्वा उपदर्शितैकावळीग्रन्थमुदाहार्षीन्मल्लिनाथः । वस्तुतस्तु दृष्टान्तोदाहरणादिशब्दघटितेष्वीदृशस्थलेषु पूर्वं व्युत्पादित उदारणालंकार एवेत्युत्पश्यामः । स च सम्यगेव पूर्वं न्यरूष्यतेति नेह प्रतायते ॥

इत्यलंकारमणिहारे दृष्टान्तसरो विंशः