अलङ्कारमणिहारः (भागः १)/प्रतिवस्तूपमासरः (१९)

विकिस्रोतः तः
               




   

अथ प्रतिवस्तूपमासरः.

 पदार्थारब्धो वाक्यार्थ इति पदार्थगतालंकारानन्तरं वाक्यार्थगतालंकारप्रस्तावः । तत्र सामान्यधर्मस्य इवाद्युपादाने सकृन्निर्देशे उपमा । वस्तुप्रतिवस्तुभावेन सकृन्निर्देशेऽपि सैव । इवाद्यनुपादाने सकृन्निर्देशे दीपकतुल्ययोगिते । असकृन्निर्देशे तु शुद्धसामान्यरूपत्वं बिम्बप्रतिबिम्बभावो वा । आद्यः प्रकारः प्रतिवस्तूपमा । द्वितीयप्रकाराश्रयेण दृष्टान्तो वक्ष्यते । तदेवमौपम्याश्रयेणैव प्रतिवस्तूपमा । तथाच तल्लक्षणम्--

सदृश्यावसिते वाक्यद्वये चेद्धर्म एककः ।
द्विरुपात्तो भवेत्सा तु प्रतिवस्तूपमोच्यते ॥

 अन्योन्यमैकवाक्यलाभार्थमुपमानोपमेयभावपर्यवसन्नयोर्वाक्ययोर्गुणक्रियारूप एक एव धमो वस्तुप्रतिवस्तुभावापन्नतया शब्दान्तरेण पृथङ्निर्दिश्यते चेत्सा प्रतिवस्तूपमा । प्रतिवस्तु उपमानोपमेयभावदिशि उपमा तत्प्रयोजकसाधारणधर्मोऽस्यामिति व्युत्पत्तेरित्यर्थः । अर्थान्तरन्यासवारणाय सादृश्येति । तत्र तु समर्थ्यसमर्थकभावमात्रं विवक्षितं न तु सादृश्यम् । विम्बप्रतिबिम्बभावेन दृष्टान्तेऽपि धर्मोपादानात्तत्रातिप्रसङ्गवारणायैक इति । तत्र हि भिन्न एव धर्म उपादीयत इति न दोषः ॥

 यथा--

 नारायणगिरिरेव स्फारां कीर्तिं बिभर्ति खलु गिरिषु । ऐरावत एव परं स्मरां दीप्तिं दधाति दिक्करिषु ॥ ५८६ ॥  अत्र बिभर्ति दधातीत्येक एव धर्म उपमेयोपमानवाक्ययोः पृथग्भिन्नपदाभ्यां निर्दिष्टः । अयमेव हि वस्तुप्रतिवस्तुभाव इत्युच्यते ॥

 यथावा--

 भजतां कथं नु महता भवताऽल्पा देवता हरे समताम् । काचमणिर्नीचघृणिर्हीरेण सदृक्किमत्युदारेण ॥ ५८७ ॥

 भजतामिति लोट् ॥

 यथावा--

 अहरहरपि गच्छन्तो मूढास्त्वां ब्रह्म नाप्नुवन्ति हरे । विन्दन्त्यक्षेत्रज्ञा उपर्युपरि न हि निधिं चरन्तोपि ॥ ५८८ ॥

 अत्र ‘तद्यथा हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि संचरन्तोपि न विन्देयुरेवमेवेमास्सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः' इति दहरविद्यागतश्रुत्यर्थोऽऽनुसंहितः । अस्यार्थः—यथा अधस्तान्निक्षिप्तं हिरण्यनिधिं निधिमत्क्षेत्रस्वभावज्ञानहीना निधेरुपर्युपरि संचरन्तोपि न लभन्ते, एवमेवेमास्सर्वाः प्रजाः सुषुप्तिकाले अहरहर्गच्छन्त्यः सुषुप्तौ 'सति संपद्य न विदुः’ इत्युक्तरीत्य अविभागं गच्छन्त्यः एतं दहराकाशाख्यं ब्रह्मरूपं लोकं न विन्दन्ति न लभन्त न जानन्तीत्यर्थः । ब्रह्मलोकशब्दौ निषादस्थपतिन्यायेन समानाधिकरणा । तत्र हेतुमाह-- अनृतेन हि प्रत्यूढा इति। अनृतेन कर्मणा प्रतापं नीताः स्वभावान्तरं प्रापिताः। आच्छादिता इति यावत् । यद्वा--अहरहर्गच्छन्त्य इति न सुषुप्तिकालिकं गमनमुच्यते, अपितु अन्तरात्मत्वेन सदा वर्तमानस्य दहराकाशस्य हिरण्यनिधिवत्परमपुरुषार्थभूतस्य उपर्युपरि अहरहर्गच्छन्त्यः सर्वस्मिन्काले वर्तमानास्तमजानत्यस्तं न विन्दन्ति न लभन्त इत्यर्थः। उदाहरणे मूढा इत्यस्यानृतेन प्रत्यूढा इत्यर्थः । अत्र वाक्यद्वये प्राप्त्यभावरूपस्साधारणधर्मश्शब्दभेदेनोपात्तः ॥

 ननु ‘क्षाळयाते वेङ्कटाचल' इत्युदाहृतार्थावृत्तिदीपकाद स्थाः किं वैलक्षण्यमितेि चेन्न, प्रस्तुतानेकधर्मिगतैकधर्मनिर्देशः अप्रस्तुतानेकगततथाविधधर्मनिर्देशो वा अर्थावृत्तिः । इयं तु प्रस्तुताप्रस्तुतोभयनिष्ठतथाविधधर्मनिर्देशरूपेत्यस्यास्ततो वैलक्षण्यसद्भावात् । किंच-अर्थावृत्तिदीपकं वाक्ययोरर्थस्यावृत्तावेव भवति, सा च साधर्म्य एव न वैधर्म्ये । इयं तु वैधर्म्येणापि भवतीति ततोप्यस्या भेदः । तदेतदुक्त कुवलयानन्दे–‘“ अर्थावृत्तिदीपकं प्रस्तुतानामप्रस्तुतानां वा' भवति । प्रतिवस्तूपमा तु प्रस्तुताप्रस्तुतानामिति विशेषः । अयं चापरो विशेषः—आवृत्तिदीपकं वैधर्म्येण न सम्भवति प्रतिवस्तूपमा तु वैधर्म्येणापि दृश्यते” इति ॥

 यथा--

 फणिगिरिपतिगुणपरिमळमभिजानन्ति हि तदेकनिष्णाताः। मृगमदपरिमळभरमिह विदन्ति न ग्रामसूकरा जातु ॥ ५८९ ॥

 यथावा--

 मज्जति भवत्क्षमायां नाथामन्दं मदागसां बृ- न्दम् । नोन्मज्जति खलु पङ्कं गङ्गायां विमलतरतरङ्गायाम् ॥ ५९० ॥

 यथावा--

 उदधिसुते त्वामन्तर्निदधानं मम विभाति हृदयाब्जम् । निष्कासितमुक्तामणिशुक्तिपुटं नैव जात्वपि समिन्धे ॥ ५९१ ॥

 नन्विदं व्याहतं यद्वैधर्म्येणोपमेति । । साधर्म्यरूपत्वात्तस्या इति चेत्सत्यं, वैधर्म्येणोपन्यस्तेन मृगमदपरिमळभरमित्यादिवाक्यार्थेनाक्षिप्तस्य अपितु ज्ञातार एव जानन्तीति वाक्यार्थस्योपमानत्वेन विवक्षणात् । आमुखे वैधर्म्यप्रतीतावपि साधर्म्य एव पर्यवसानान्न दोषः । वैधर्म्येणेत्यस्य वैधर्म्यद्वारेत्यर्थः ॥

 अत्र साधारणधर्मस्य वस्तुप्रतिवस्तुभावकथनेन तदितरपदार्थानां बिम्बप्रतिबिम्बभावो घटनाया आनुरूप्यं च विवक्षितम् । अन्यथा--

खलास्तुकुशलास्स्वीयहितप्रत्यूहकर्मणि ।
निपुणाः फणिनः प्राणानपहर्तुं निरागसाम् ॥

 इत्यत्रासंष्ठुलवाक्यार्थेऽपि प्रतिवस्तूपमा स्यात् । अत्र हि खलफणिनोः प्राणहितयोश्च सत्यपि बिम्बप्रतिबिम्बभावे हरणप्रत्यूहकरणयोर्नाशप्रागभावपर्यवसितयोरनानुरूप्यान्न बिम्बप्रतिबिम्बभावः । यद्वा-- अस्त्वत्र प्रतिवस्तूपमा, परंतु पूर्ववाक्यार्थघटकानां हितप्रत्यूहकर्मणीति नामार्थविभक्त्यर्थादीनामुत्तरवाक्यार्थघटके प्राणानपहर्तुमित्यत्राभावेनासंष्ठुलतालक्षणस्य वाक्यार्थसामान्यदोषस्य जागरूकत्वादचमत्कारिण्येव, दुष्टोपमादिवत् । वाक्यार्थो हि निर्भरतरव्युत्पत्तिनिशातितान्तःकरणैः विविधपदार्थसंदर्भपरिवर्तननिपुणैरेव महाकविभिर्विरचितः किमपि पुष्णाति कामनीयकं, नेतरः। तस्मादेवंजातीयकेष्वलंकारेषु पूर्ववाक्यार्थघटकनामार्थानुरूपैर्नामार्थैः तद्घटकविभक्त्यनुरूपाभिर्विभक्तिभिः तदन्वयानुरूपेण चान्वयेनोत्तरवाक्यार्थे भाव्यमिति सहृदयहृदयमेव प्रष्टव्यमिति वदन्ति॥

 अलंकारकौस्तुभकारो विश्वेश्वरस्तु इयमलंकारान्तरविषयेऽपि दृश्यत इत्याह । तत्राप्रस्तुतप्रशंसाविषये यथा-

 नीरसमिव सारसमपि सान्द्रतमा इव स चन्द्रमा जननि । सलयमिव किसलयं ननु विद्रुत इव विद्रुमस्तव पुरस्तात् ॥ ५९२ ॥

 तव अतिमात्ररमणीयनयनवदनकराधराया इति भावः । अत्र सारसादीनामपकर्षरूप एको धर्मः प्रतिवाक्यं भिन्नेन नीरसत्वादिना प्रतिपादितः। उत्प्रेक्षया चेयं संकीर्णेत्यवधेयम् ॥

 मालारूपेणापीयं दृश्यते । यथा--

 सहकारः फलमतुलं वहते स हरः कलानिधिं धत्ते । सम्राण्बिभर्ति मकुटं सरीसृपगिरिर्दरीधरीति हरिम् ॥ ५९३ ॥

 यथावा--

 इन्धे कविः प्रतिभया भाति प्रभया सरोजीनीबन्धुः । राज्यश्रियाऽवनीन्द्रो राजति नित्यश्रिया हरिर्लसति ॥५९४ ॥  अत्राद्ये पद्ये वहनधानभरणधारणानां द्वितीये इन्धनभानराजनलसनानां च वस्तुत ऐकरूप्यात्प्रतिवस्तूपमेयं मालारूपा ॥

इत्यलङ्कारमणिहारे प्रतिवस्तूपमासर एकोनविंशः