अलङ्कारमणिहारः (भागः १)/निदर्शनालंकारसरः (२१)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   

अथ निदर्शनालंकारसरः.



उपात्तयोरर्थयोश्चेदार्थाभेदः प्रकीर्त्यते ।
औपम्यपर्यवसितो भवेत्सेयं निदर्शना ॥

 उपात्तयोः अर्थयोः आर्थोऽभेद औपम्यपर्यवसायी निदर्शनेत्यर्थः । अतिशयोक्त्यादीनां ध्वन्यमानरूपकस्य च वारणाय उपात्तयोरिति वाच्यरूपकवारणायार्थ इति । आर्थत्वं च प्राथमिकान्वयबोधाविषयत्वम् । यदि च विशिष्टोपमायां विशेषणयोरभेदः प्रतीयत इत्युच्यते, तदा बिम्बप्रतिबिम्बभावानापन्नप्रधाननिरूपितगुणीभाववतोरिति विशेषणमर्थयोरुपादेयम् । विशिष्टोपमायां प्रधानभूतयोरुपमानोपमेययोर्बिम्बप्रतिबिम्बभावापन्नतया तन्निरूपितगुणभाववतोर्विशेषणयोरार्थाभेदभानेऽपि नाति- प्रसङ्गः । निदर्शनायां तु वक्ष्यमाणोदाहरणेषु अभिजानन् वेत्तीत्यादिक्रिययोर्गुणभूतयोर्बिम्बप्रतिबिम्बभावे सत्यपि तादृशक्रियानिरूपितप्रधानभाववतोः कर्त्रोर्बिम्बप्रतिबिम्बभावानापन्नतया तादृशकर्तृनिरूपितगुणभाववत्योरभिज्ञानवेदनादि क्रिययोरार्थाभेदप्रतीतेर्भविष्यति लक्षणानुगमः। इदं च श्रौत्या निदर्शनाया लक्षणम् । आर्थीसाधारणं तु लक्षणं ललितालंकारप्रकरणे प्रदर्शयिष्यते ॥

 यथा--

 नित्यं परमात्मानं प्रत्यगभिन्नं भवन्तमभिजानन् । सत्यं फणिशैलपते भृत्याभेदेन वेत्ति सम्राजम् ॥ ६०३ ॥

 अत्र परमात्मनः प्रत्यगात्मभेदेन ज्ञानं सम्राजो भृत्याभेदेन ज्ञानं चाभिन्नमिति तत्सादृश्यमूला धीः ॥ ६०३ ॥

 यथावा--

 तव महिमानमनन्तं वेदितुमिच्छन् हृदा परिच्छिद्य । कक्षेऽन्तरिक्षमखिलं काङ्क्षति परिवेष्ट्य हन्त निक्षेप्तुम् ॥ ६०४ ॥

 अत्र-

यदा चर्मदवाकाशं वेष्टयिष्यन्ति मानवाः ।
तदा शिवमाविज्ञाय दुःखस्यान्तं निगच्छति ॥

इति श्रुतिच्छाया गृहीता । अत्रानन्तस्य भगवन्महिम्नो मनसा परिच्छिद्य वेदनेच्छा अन्तरिक्षस्य कटादिवत्परिवेष्ट्य कक्षनिक्षेपणेच्छा चाभिन्ने ॥ ६०४ ॥

 यथावा--

 त्वामविगणय्य योऽन्यत्तामरसविलोचनाश्रयेद्दै- वम् । स शिरोमणिं विधून्वन्पिशुनशिरसा बिभर्त्ययःपिण्डम् ॥ ६०५ ॥

 यथावा--

 निरवधिदिव्यविभूतेर्भवतो विभवं समर्पयेद्योऽन्यम् । कनकाचलस्य सीसाकलिताभरणं रमेश स हि दत्ते ॥ ६०६ ॥

 यथावा--

 अपलिलपिषति मुरारे भूमानं यस्तवातिसीमानम् । चिच्छादयिषति कामं पाणितलेनाखिलं स गगनतलम् ॥ ६०७ ॥

 यथावा--

 अन्यां विवक्षति कथां मान्यां यस्तावकीं कथां हित्वा । शेषगिरीश जिघत्सत्यूषररेणुं सितां विहायैषः ॥ ६०८ ॥

 यथावा--

 फणिगिरिपतिसममन्यं भणति सुरं यस्तु पण्डितंमन्यः । मणिसदृशं लोष्टं खरघृणिसदृशं तिमिरमपि भणति सोयम् ॥ ६०९ ॥

 अत्र सप्तमुदाहरणेषु आद्ययोरभेद एकवाक्यगतः। अन्तिमेषु तु भिन्नवाक्यगतः । तत्रापि ‘त्वामविगणय्य’ इत्यादिषु चतुर्षु वस्तुमात्रयोरौपम्यमूलोऽभेदः। अन्तिमे “फणिगिरि’ इति । पद्ये त्वौप्ययोरौपम्यमूलस्स इति विशेषः ॥

 यथावा--

 कलशेन जलधिसलिलं सकलं शक्नोति यो हि परिमातुम् । अखिलं भवतो विभवं मनसा स भवेत्क्षमः परिच्छेत्तुम् ॥ ६१० ॥

 अत्रोपमानोपमेयवाक्यार्थयोः प्रातिलोम्येनाभेदः मित्थ्याध्यवसितिसंकीर्णत्वं च पूर्वोदाहरणेभ्यो विशेषः ॥

 यथावा--

 वृषगिरिमलंकरिष्णोर्विष्णोर्वीर्याणि स हि वदितुमीष्टे । प्रभविष्णुः परिमातुं रजांसि यः पार्थिवानि निखिलानि ॥ ६११ ॥

 अत्र 'विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांग्सि' इति श्रुत्यर्थानुधावनं विशेषः । अन्यत्सर्वं पूर्ववदेव । श्रुतावपीदृशालङ्कारसद्भावं ज्ञापयितुमिदम् । एवं ‘तव महिमानं’ इति प्रागुदाहृतपद्येऽपि बोध्यम् । एषा वाक्यार्थनिदर्शनेत्युच्यते । विशिष्टार्थयोः प्रकृतैकधर्मिगतयोरार्थाभेदे निदर्शनाया इष्टेः | अस्यां च घटकपदार्थानां बिम्बप्रतिबिम्बभावोsवश्यंभावी ॥

 मालारूपाऽपीयं दृश्यते । यथा--

 विकिरति स सुधां परितः क्षिपति शरच्चन्द्रचन्द्रिकाधाराम् । वितरति चन्दनचर्चां सुचारु यो हरिकथां प्रचारयति ॥ ६१२ ॥  इदं चापरं बोध्यं—

 वातात्मंभरिगिरिवरनेता चेतो ममैष यदयासीत् । वेलातीतं दुरितं शूलाकार्षीत्तदेतदिति मन्ये ॥

 शूलाकार्षीत् शूलेनापाक्षीदित्यर्थः । ‘शूलात्पाके’ इति शूलशब्दाड्डाच् । अत्र ‘भावप्रधानमाख्यातम्’ इति यास्कोक्तरीत्या क्रियाविशेष्यकवोधवादिनां मते शाब्द एवाभेदारोपः क्रिययोरिति मुखं चन्द्र इत्यादाविव रूपकमुचितम् । प्रथमान्तविशेष्यकबोधवादिनां त्वार्थस्स इति निदर्शनेति भेदः ॥

 पदार्थनिदर्शना यथा—

 दिनविगमसमयविकसन्नवकुवलयवलयविलसदसितरुचिम् । जयतु चिराय दधानो दयितः कलशाम्बुराशिकन्यायाः ॥ ६१४ ॥

 अत्र कुवलयदळभगवद्रुच्योराश्रयभेदाद्भिन्नयोरपि सादृश्यमूलस्ताद्रूप्याभिमानः आरोपो वा भगवति कुवलयरुचेः ॥

 यथावा--

 भवदवपरितप्तोऽयं भवदीयकृपासुधाप्लुतोऽद्य हरे । तुङ्गातपसङ्गार्दितगङ्गाह्रदमग्नगजसुखं धत्ते ॥

 अत्र ‘एष ब्रह्म प्रविष्टोऽस्मि ग्रीष्मे शीतमिव हृदम्' इति प्रमाणच्छायाऽनुसंहिता । अत्र तुङ्गातपसङ्गार्दितत्वगङ्गाह्रदनिमग्नत्वाभ्यां भवदवपरितप्तत्वभगवत्कृपासुधाप्लुतत्वयोः प्रतिबिम्बनमिति पूर्वस्मादुदाहरणाद्भेदः रूपकसंकीर्णत्वं च । आश्रयभेदभिदुरयोस्सुखयोस्सादृश्यहेतुकस्ताद्रूप्याभिमानस्तु तुल्य एव॥  यथावा—

 चलदलकाननचन्दिरविलोलमखिलाम्ब नयनयुगलं ते । विस्तृतजालजलाशयविचलन्मीनद्वयश्रियं वहते ॥ ६१६ ॥

 अत्रापि चलदलकत्वविस्तृतजालत्वयोः आननचन्दिरजलाशययोश्च बिम्बप्रतिबिम्बभावः विलोलनयनयुगलचलन्मीनद्वययोस्तु वस्तुप्रतिवस्तुभावकरम्भितस्स इति विशेषः । अन्यत्तुल्यम् ॥

 अस्यां चोपमानोपमेयगतधर्मयोरार्थाभेदप्रतिपत्तिः । अतः पदार्थनिदर्शनेत्युच्यते । अत्र च पदार्थनिदर्शनायां बिम्बप्रतिबिम्बभावस्तूपमानोपमेययोस्सविशेषणत्वे भवति, यथा अव्यवहितोदाहरणयोः । अन्यथा तु नेति विवेकः । ननु वाक्यार्थनिदर्शनायां विशिष्टवाचकशब्दाभ्यां विशेषणयोरप्युपादानादस्तुनामोपात्तयोरार्थाभेदः। पदार्थनिदर्शनायां तूपमानभूतरुच्यादेरन्यतरस्यैवोपात्तत्व न द्वयोरिति चेत्, रुचिशब्देन रुचित्वेन द्वयोरप्युपात्तत्वात् । न ह्युपमानोपमेयतावच्छेदकरूपेणोपात्तत्वं विवक्षितं, येनाव्याप्तिस्स्यात् । यद्वा प्रागुक्तलक्षणं वाक्यार्थनिदर्शनाया एव, न पदार्थनिदर्शनायाः । अस्यास्त्वेवमस्तु लक्षणं—

पदार्थपूर्वा साऽन्या स्यादुपमानोपमेययोः ।
यत्रान्यतरधर्मस्यान्यत्रारोपणमुच्यते ॥

 उपमानोपमेययोरन्यतरधर्मस्यान्यत्रारोपः पदार्थनिदर्शनेत्यर्थः । नन्वेवमपि वाक्यार्थनिदर्शनायां रूपकध्वनिना पदार्थनिदर्शनायां च निगीर्याध्यवसानरूपयाऽतिशयोक्त्या गतार्थतेति चेन्न । वाक्यार्थनिदर्शनायां रूपकस्य गुणीभूतत्वेन तद्ध्वनित्वायोगात् । अन्यथा गुणीभूतोपमया रूपकस्यापि चारितार्थ्यापत्तेः । किंच, अस्याश्शरीरं तादृशपदार्थयोः परस्पराभेदमात्रमुभयत्र विश्रान्तम् । रूपकस्य तूपमेयगत उपमानाभेदः, आतिशयोक्तेश्च निगरणानिगरणाभ्यां तयोर्विशेष इत्यन्यदेतत् । एवंच स्फुटमेवास्या रूपकातिशयोक्तिभ्यां वैलक्षण्यम् । अत एव ‘कलशेन जलधिसलिलं सकलं, वृषगिरिमलंकरिष्णोः’ इति प्रागुदाहृतपद्ययोरर्थयोः पौर्वापर्येऽपि न चारुताहानिः । एवं ‘तव महिमानमनन्तं' इत्यादिपद्येष्वपि कांक्षतीत्यादौ कांक्षन्नित्याद्यनूद्य इच्छन्नित्यादौ इच्छेदित्यादिविधानेऽपीति बोध्यम् । अत्र व्यङ्ग्यरूपकादौ तूच्यमाने व्यङ्ग्यकक्ष्योद्देश्यविधेयभावस्यापि वाच्यकक्ष्योद्देश्यविधेयभावानुरोधितया 'कलशेन जलधिसलिलं सकलं शक्नोति यो हि परिमातुम्’ इत्यादौ कलशकरणकसकलजलधिसलिलकर्मकपरिमाणशक्तिमदादिरूपे उपमाने मनःकरणकाखिलभगवद्विभवकर्मकपरिच्छेदक्षमरूपोपमेयाभेदस्यैव प्रत्येतव्यतया रूपकासामञ्जस्यापत्तेरित्यालंकारिकसार्वभौमैराकलनीयम् ॥

 एवं पदार्थनिदर्शनायां लक्षणवैलक्षण्येऽप्युदाहरणानि प्राक्प्रदर्शितान्येव समन्वयप्रकारभेदेन योजनीयानि । सोपि वक्ष्यमाणरीत्या बुद्धिमद्भिरूहनीयः ॥

 यथावा—

 त्वामस्तुत्वा भगवन्यो भवति स्तवनकारकोऽन्येषाम् । सद्भिः कृतो निरस्तस्सत्यं वनकाकतां वहत्येषः ॥ ६१७ ॥

 सद्भिः ब्रह्मविद्भिः । निरस्तः प्रत्यादिष्टः कुतस्सन् वनकाकतां अरण्यवायसतां, अतिनिकर्षद्योतनाय वनेतिविशेषणम् । वहति । पक्षे - स्तवनकारकशब्दः निरस्तः निर्गतौ रेफस्तकारौ यस्य स तथोक्तस्सन् वनकाक इति निष्पद्यत इत्यर्थः । अन्यत्सुगमम् । अत्र वनकाकत्वस्योपमानधर्मस्य उपमेये स्तवनकारके आरोपः। स चौपम्ये पर्यवस्यति । वनकाकवाशितवद्भगवदन्यस्तवनमनर्थकममनोज्ञमश्रव्यं चेति भावः । अत्र शब्दपरार्थान्तरवर्णनं चमत्कारातिशयाय ॥

 यथावा-

 सत्यपि तवाभिधाने मुदां निधाने मुधैव यो मुखरः । सत्यं स हि मुन्न्यूनस्संप्रथयति सारसाक्ष खरभावम् ॥ ६१८ ॥

 हे सारसाक्ष मुदां आनन्दानां निधाने निधिभूते मुक्त्यैश्वर्यपर्यन्तसर्वविधानन्दप्रदानधुरंधरे इति भावः । तव अभिधाने नामनि सत्यपि त्वदभिधानमनादृत्येत्यर्थः । यः मुधैव निरर्थकमेव मुखरः वाचाटः भवति सः पुमान् मुदा न्यूनस्सन् आनन्दनिधानभूतनामाभिलापवैधुर्यादिति भावः । पक्षे मुवर्णेन न्यूनः विश्लिष्टस्सन् । अस्मिन्पक्षे न्यू इत्यत्र नकारस्य 'अनचि च' इति वैकल्पिकं द्वित्वं पक्षान्तरार्थानुरूप्यायेति बोध्यम् । खरस्य रासभस्य भावं स्वभावं चेष्टां वा ‘भावस्सत्त्वास्वभावाभिप्रायचेष्टात्मजन्मसु’ इत्यमरः । संप्रथयति । उक्तप्रकारभगवन्नामाभिलापविधुरतयाऽतिमात्रपरुषाश्राव्यव्यर्थालापैस्समयं , क्षिपन्रासभतुल्य एवेति भावः । पक्षे - मुखरशब्दो मुवर्णच्यावने खरत्वं प्रकाशयतीत्यर्थः । अत्रापि भगवन्नामाभिलापविधुरवृथालापविधायिन्युपमेये उपमानभूतखरधर्मारोपः। चमत्कारान्तरं च पूर्ववदेव ॥

 यथावा--

 सुमनोरमोहिमान्यामलमूर्तिरसौ शिवाभ्युदयहेतुः । भुजगाधिराजशैलो भजते हिमवन्महीभृत२शैलीम् ॥ ६१९ ॥

 सुमनोरमः अतिमनोज्ञ । रमयतीति रमः पचाद्यच् । सुमनसां विबुधानां रम इति वा शेषाद्रिपक्षे । हिमवत्पक्षे तु शोभना मनोरमा तदभिधा जाया यस्य स तथोक्तः,

पुरा मनोरमा नाम सुमेरोरभवत्सुता ।
गृहमेधी तयैवासीच्चक्रवर्ती धराभृताम् ॥

इत्युक्तेः । अहिभिः मान्या अमला मूर्तिर्यस्य स तथोक्तः तस्य भुजगाधिराजरूपत्वादिति भावः । यद्वा-हीति भिन्नं पदं प्रसिद्ध्यर्थकम् । मान्या अमला मूर्तिर्यस्य स तथोक्तः । पक्षे हिमान्या हिमसंहत्या अमला विशदा मूर्तिर्यस्येति । शिवानां कल्याणानां शिवायाः उमायाश्च अभ्युदयस्य उपचयस्य जन्मनश्च हेतुः । अत्राप्युपमानधर्मस्योपमेये आरोपः पूर्ववदेव श्लेषोत्तम्भितत्वं च ॥

 यथावा--

 तरुणतमालवियत्तलमरकतजलनिधिवलाहितशिलासु । सुषमासितिमा भवतो वषगिरिमाणिक्य विहरति स्वैरम् ॥ ६२० ॥  हे वृषगिरिमाणिक्येति संबोधनम् । सुषमायाः असितिमा नैल्यम् ॥

 यथावा--

 इदमच्युतसुदतीमणिपदमिति वदति श्रुतिर्जलजमुचितम् । मृदुलस्मेरमनोज्ञे पदलक्ष्मीर्यदिह दृश्यते तस्याः ॥ ६२१ ॥

 अच्युतसुदतीमणेः श्रियः पदं चरणं स्थानं च । पदलक्ष्मीः चरणशोभा ॥

 यथावा--

 सिंहळखनिजनितमणीसंहतिषु दशास्यपुरनिशाचर्यः । संहननरुचं तव रघुसिंह समीक्ष्याधुनाऽपि मुह्यन्ति ॥ ६२२ ॥

 अत्राद्येषु 'दिनविगमसमय’ इत्यादावुदाहरणानां षट्के उपमेये उपमानधर्मारोपः । तत्रापि पूर्वत्रिके शुद्धः अन्तिमे त्रिके ‘त्वामस्तुत्वा’ इत्यादौ श्लेषसंकीर्णः । अनन्तरं 'तरुणतमाल' इत्यादौ उदाहरणत्रये उपमाने उपमेयधर्मारोपः । तत्राप्यन्तिमे' सिहळखनि’ इतिपद्ये निदर्शनया भ्रान्तिमदलंकारो व्यज्यत इति वैलक्षण्यं बोध्यम् । उभयत्राप्यन्यधर्मस्यान्यत्रासंभवेन तत्सदृशधर्माक्षेपादौपम्ये पर्यवसानं तु तुल्यमेव । इमां पदार्थवृत्तिनिदर्शनां ललितोपमेति व्यवाहार्षीज्जयदेवः ॥

 अलंकारसर्वस्वकारस्तु—

त्वत्पादनखरत्नानां यदलक्तकमार्जनम् ।
इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः ॥

 इति पद्यं वाक्यार्थनिदर्शनायामुदाजहार । आह च-यत्र तु

प्रकृतवाक्यार्थे वाक्यार्थान्तरमारोप्यते सामानाधिकरण्येन तत्र सम्बन्धानुपपात्तमूला निदर्शनैव युक्तेति । तन्न, वाक्यार्थरूपकस्य दत्तजलाञ्जलित्वापत्तेः । न चेष्टापत्तिः, वाक्यार्थनिदर्शनैव निर्वास्यतां स्वीक्रियतां च वाक्यार्थरूपकमिति पर्यनुयोगस्यापि तुल्यत्वात् । युक्तं चैतत्, पदार्थरूपके मुखं चन्द्र इत्यादौ । क्लृप्तस्य श्रौतस्याभेदारोपस्य 'रूपकजीवातुत्वकल्पनाया औचित्यात् 'इन्दुशोभां वहत्यास्यम्’ इत्यादिपदार्थनिदर्शनायामभेदारोपस्याभावात्तज्जीवातुत्वायोगाच्च । रूपके बिम्बनं नास्तीति तु शपथमात्रं युक्त्यभावात्, अस्मदुक्तोदाहरणे वाक्यार्थनिदर्शनायास्सावकाशत्वाच्च । यत्तु तेनैव लक्षणं निर्मितं ‘सम्भवताऽसम्भवता वा वस्तुसम्बन्धेन गम्यमानमौपम्यं निदर्शना, इति तदपि न, रूपकातिशयोक्त्यादिष्वतिव्यापनात् । यदि तु-

त्वत्पादनखरत्नानि यो रञ्जयति यावकैः ।
इन्दुं चन्दनलेपेन पाण्डुरीकुरुते हि सः ॥

इति निर्मीयते पद्यं तदा निदर्शना युक्ता । न चास्मदुक्ता वाच्या निदर्शना, इय तु प्रतीयमानेति वाच्यम् । मुखं चन्द्र इवेति वाच्योपमा । मुखं चन्द्र इति प्रतीयमाना, न त्वलङ्कारान्तरमित्यस्यापि सुवचत्वात् । एवंचारोपाध्यवसानमार्गबहिर्भूत आर्थ एवाभेदो निदर्शनाजीवितम् । स च कर्त्राद्यभेदप्रतिपादनद्वारा प्रतिपाद्यते वाक्यार्थनिदर्शनायाम्। परे तु ‘त्वत्पादनखरत्नानाम्’ इत्यत्र दृष्टान्तालङ्कारमाहुः । तदप्यसत्, बिम्बप्रतिबिम्बभावापन्नपदार्थघटितस्य निरपेक्षवाक्यार्थद्वयस्यैव दृष्टान्तत्वात् । तस्मात् ‘त्वत्पादनख' इत्यत्र वाक्यार्थरूपकमेव न निदर्शनेति स्थितमिति विमर्शिन्यनुरोधिनि रसगङ्गाधरे प्रत्यपादि । एवमसम्भवद्वस्तुसंबन्धनिबन्धना वाक्यार्थपदवृत्तिनिदर्शना दर्शिता ॥

 सदर्थनिदर्शना--

 सदसद्बोधनं स्याच्चेत्क्रिययाऽन्या निदर्शना ॥

 कस्यचित्किंचित्क्रियाविशिष्टस्य स्वक्रियया परान्प्रति सतोऽसतो वाऽर्थस्य बोधनं यन्निबध्यते साऽन्या सम्भवद्वस्तुसम्बन्धनिबन्धना निदर्शनेत्यर्थः ॥

 यथा--

 सरसिजनयनो मान्यशिरसा सततं महत्त्वमभिलषता । इति सुमहानहिशैलो विबोधयंस्तं शिखामणीकुरुते ॥ ६२३ ॥

 महत्त्वं पूज्यत्वम् । सुमहान् अतिपूज्यः अतिपृथुलश्च । अत्र कारीषोऽग्निरध्यापयति भिक्षा वासयतीतिवदानुकूल्ये णिचः प्रयोगादहिशैलस्य च भगवच्छिखामणीकरणरूपस्य महत्वाभिलाषिजनगतभगवत्कर्मकशिरोमाननविषयकबोधानुकूलाचरणस्य संभवान्मयेवान्येनापि भगवान् शिरसा मान्य इत्यौपम्यसद्भावाश्च संभवद्वस्तुसंबन्धमूलाऽपेि निदर्शना संभवति । न च विबोधयन्निति गम्योत्प्रेक्षैव स्यादिति वाच्यं, वस्तुतो विबोधनसंभवादेव तस्याः प्रसक्त्यभावात् । एवमेव हि-

चूडामणिपदे धत्ते यो देवं रविमागतम् ।
सतां कार्याऽऽतिथेयीति बोधयन्गृहमेधिनः ॥

इत्यत्राहुः । इदं च 'धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते' इत्युक्तेन पथा धातूपात्तव्यापाराश्रयत्वं कर्तृत्वमिति मते संगच्छते । यदि तु यत्नार्थकात्कृञस्तृचि सविषयार्थकधातूत्तरकर्तृप्रत्ययस्याश्रयत्वे निरूढलक्षणया यत्नाश्रयः कर्तृपदार्थः । स एव च कर्तृप्रत्ययानां मुख्यार्थः अचेतनस्तु भाक्त इति न्यायेन पर्यालोच्यते तदा बोधयन्नित्यत्र गम्योत्प्रेक्षा संभवत्येवेत्यप्याहुः । तद्वदत्राप्युत्प्रेक्षा संभवतीति ध्येयम् ॥

 यथावा--

 संसिद्ध्यैव श्रीमान्भवति महीभृच्छिरोभिपूज्य पदः । इति दर्शयितुं फणभृत्पतिगिरिशिखरे पदं न्यधाच्छौरिः ॥ ६२४ ॥

 संसिद्ध्या प्रकृत्यैव 'संसिद्धिप्रकृती इमे' इत्यमरः । पदं चरणं स्थानं वा । अत्र भगवान् स्वकीयया फणिगिरिशिखराधिकरणकचरणाधानक्रियया परान्प्रति निसर्गत एव श्रीमान्महीभृच्छिरोऽभिपूज्यपदो भवतीति सदर्थं बोधयन्निबद्ध इति भवतीयं सदर्थनिदर्शना । एवमुत्तरत्रापि ॥

 यथावा--

 वनमालामाश्रितमपि लक्ष्मीर्न जहाति पुरुषमतिपुण्यम् । इति वृषशिखरिणि लक्ष्मीर्वनमालिन उरसि सततमपि वसति ॥ ६२५ ॥

 अतिशयितं पुण्यं यस्य तं अतिमात्रसुकृतशालिनमित्यर्थः। भगवत्पक्षे अतिक्रान्तः पुण्यं अतिपुण्यः तं तथोक्तं ‘न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्ते, तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदितः' इत्यादिश्रुतिभ्यः । पाप्मशब्दोऽत्र पुण्यपापरूपोभयविधकर्मपर इति स्थापितमाकरेषु । शिष्टं स्पष्टम् ॥  आद्ये उदाहरणे विबोधयन्निति शात्रा द्वितीये दर्शयितुमिति तुमुन्नन्तेन शब्देन बोधनम् । इह तु गम्यमानं तत् । आद्यं शुद्धं अन्ये तु श्लेषसंकीर्णे इति च विशेषः ॥

 असदर्थनिदर्शना यथा--

 सद्गोत्रप्रवरोऽपि प्रभुणा बहुवञ्चको ह्यधःक्रियते । इति दर्शयते हरिणा फणिगिरिरधरीकृतो बहुक्रोष्टा ॥ ६२६ ॥

 गोत्रं प्रवरश्च गोत्रप्रवरौ, सन्तौ गोत्रप्रवरौ यस्य स तथोक्तोपि सत्कुलप्रसूतोपीत्यर्थः । पक्षे उत्तमशैलश्रेष्ठोऽपि । बहूनां वञ्चकः अतिसंघाता । पक्षे बहवो वञ्चकाः सृगालाः यस्मिंस्तथोक्तः अधःक्रियते न्यक्क्रियते अधरीक्रियते च । अत्र फणिगिरिर्भगवत्कर्तृकस्वकर्मकाधःकरणक्रियया स्वकीयया दृष्टान्तभूतया अन्योऽप्येवं सद्गोत्रप्रवरोऽपि बहुवञ्चकश्चेत्प्रभुणाऽधःक्रियत इत्यसदर्थं बोधयन्निबद्ध इति भवतीयमसदर्थनिदर्शना ॥

 यथावा--

 भगवन्मुखप्रसादासहनानां गतिरियं भवित्रीति । संदर्शयन् जनानमिन्दुरुपैद्रौरवानुबन्धमलम् ॥

 इन्दोर्भगवन्मुखप्रसादासहनत्वं च तदौपम्ये पर्यवस्यतीति रहस्यम् । रौरवस्य तन्नाम्नो नरकस्य अनुबन्धं संबन्धं अलं उपैत् । वस्तुस्थितिस्तु रुरोः मृगस्यायं रौरवः । अण् । स चासावनुबन्धश्च तेन मलं कलङ्कमिति । अत्र रौरवानुबन्धं भजन्निन्दुरात्मवद्भगवन्मुखप्रसादासहिष्णूनां रौरवप्राप्तिर्भविष्यतीत्यसदर्थं बोधयन्निबद्धः ॥  यथावा--

 वैश्वानरो मुरारे त्वत्तेजस्स्पर्धिनां गतिं प्रथयन् । वैमुख्यभाक् स्ववर्णे श्वामध्य उपैदथान्त्यजनरत्वम् ॥ ६२८ ॥

 वैश्वानरः त्वत्तेजसा सह स्पर्धमानानां गतिः एवं भवित्रीति प्रथयन् सन् स्ववर्णे स्वकीयवर्णे स्ववाचकाक्षरसमुदाये च । जात्यभिप्रायकमेकवचनम् । वैमुख्यं विमुखतां भजतीति तथोक्तः स्ववर्णाद्भ्रष्ट इति यावत् । पक्षे वै इत्याकारकं मुख्यं मुखे भवं वर्णं अक्षरं भजतीति तथोक्त इत्यर्थः । अत एव मध्ये एतस्मिन्नन्तरे श्वा शुनकस्सन् । पक्षे श्वा इति वर्णो मध्ये यस्य सः श्वामध्य इत्यर्थः । अथ अनन्तरं अन्त्यजनरत्वं चण्डालतां उपैत् लब्धवान् 'श्वानयोनिशतं प्राप्य चण्डालेष्वभिजायते’ इत्युक्तरीत्येति भावः । पक्षे अन्त्ये अन्तिमभागे जातौ नरौ नकाररेफौ यस्य स तथोक्तः तस्य भावं उपैत् । अत्र वैमुख्यादिभाग्वैश्वानरः भगवत्तेजस्स्पर्धिनां गतिरीदृशीत्यसदर्थं बोधयन्निबद्धः ॥

 यथावा--

 त्वद्रुचिहीनोहन्ताममतास्पदतां मसार एत्यादौ । भूत्वाऽसारः प्रथयत्यनर्थकारणमहंममग्राहम् ॥ ६२९ ॥

 मसारः इन्द्रनीलः ‘मसार इन्द्रनीले स्यात्' इत्युक्तेः ‘मसारगल्वर्कमुखः' इति श्रीरामायणे प्रयोगश्च । त्वद्रुचिहीनः त्वयि रुच्या प्रीत्या हीनः । पक्षे त्वद्रुच्यपेक्षया हीनः न्यूनरुचिरिति यावत् । आदौ प्रथमं अहन्ताममतयः अहंकारममकारयोः । अहंममेत्युभयमपि विभक्तिप्रतिरूपकमव्ययं, ताभ्यां तल् । आस्पदतां आश्रयतां एत्य अत एव असारः निस्सारः भूत्वा अहंममग्राहं अहंममाभिमानं अनर्थकारणं प्रथयति ।

अनात्मन्यात्मबुद्धिर्या अस्वे स्वमिति या मतिः ।
अविद्यातरुसंभूतिबीजमेतद्द्विधा स्थितम् ॥

इत्याद्युक्तरीत्या संसारचक्रभ्रमणपूर्वकनिस्सारतालक्षणानर्थहेतुतां बोधयतीत्यभिप्रायः । पक्षे- मसारशब्दः त्वद्रुचिहीनः मसारशब्दे भगवद्रुचिहीनतोक्तिश्शब्दार्थतादात्म्याभिमानकृता । हन्त अमं अतास्पदतामिति च्छेदः । आदौ प्रथमभागे अमं मकाररहितं यथास्यात्तथा अतास्पदतां अतायाः अवर्णत्वस्य आस्पदं आश्रयः अवर्ण इत्यर्थः । तस्य भावं अत्वं एत्य मकारलोपेन तत्रैवाकारतां प्राप्येत्यर्थः । 'न गिरा गिरेति ब्रूयादैरं कृत्वोद्गायेत्’ इत्यत्र गिरापदं प्रतिषिध्य विधीयमानभिरापदं यथा गिरापदस्थान एव भवति, एवमिहापि मवर्णं प्रतिषिध्य विधीयमानः अवर्णोपि तदीय एव स्थाने भवतीति ध्येयम् । एवं सर्वत्रेदृशस्थलेषु द्रष्टव्यम् । अत एव असारः भूत्वा उक्तरीत्या मकारात्सारणेन अकारन्यसनेन च असार इति निष्पन्न इत्यभिप्रायः । स्फुटमन्यत् । अत्र अहंताममतास्पदीभूततया भगवत्यरुचिं भजमानोऽसारोभवन्मसारः अहंममग्राहं उक्तविधानर्थकारणमित्यसदर्थं प्रथयन्निबद्धः । शब्दार्थतादात्म्यावलम्बिश्लेषभित्तिकाभेदाध्यवसायमूलातिशयनिर्व्यूढेयम् । एवं पूर्वोदाहरणेऽपि द्रष्टव्यम् ॥  यथावा--

 अप्युच्चैर्जन्मजुषो जडजन्त्वनुगाः पतन्त्यधोऽध इति । मरुदात्मम्भरिपरिवृढगिरिशिखरान्निर्झराः प्रणिपतन्ति ॥ ६३० ॥

 अत्राधोऽधः पतन्तीति बोधयन्त इति वक्तव्ये बोधयन्त इत्यस्य गम्यमानत्वादप्रयोगः । ततश्व उच्चैः उन्नतप्रदेशे जन्मजुषोपि जडजन्त्वनुगामितया स्वयंपतनक्रियाविशिष्टा निर्झराः स्वकीयया पतनक्रियया दृष्टान्तभूतया अन्येऽप्येवंविधा अधोऽधः पतन्तीत्यनिष्टपर्यवसायिनमर्थं बोधयन्त एव पतन्तीत्येवंविधार्थनिबन्धनादसदर्थनिदर्शना श्लेषोत्तम्भितेति ध्येयम् ॥

इत्यलंकारमणिहारे निदर्शनासर एकविंशः.

अलङ्कारमणिहारः.pdf