अलङ्कारमणिहारः (भागः १)/व्यतिरेकालंकारसरः (२२)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   

अथ व्यतिरेकालंकारसरः.



उक्तः कश्चिद्विशेषश्चेदुपमानोपमेययोः।
तमाहुर्व्यतिरेकाख्यमलंकारं विचक्षणाः ॥

 अधुना भेदप्रधानालंकारवर्णनम् । तत्र उपमानोपमेययोर्यथाकथंचिद्भेदवर्णनं व्यतिरेकः। तेन उपमेयोत्कर्षे उपमानोत्कर्षे उभयोत्कर्षापकर्षाप्रतीतावपि यत्किंचिद्वैधर्म्यमात्रेऽप्ययं भवतीति ध्येयम् ॥  तत्रोपमयोत्कर्षे यथा--

 उरगाचलपतिमानसमुदधेर्मध्यमिव भाति गम्भीरम् । मन्दरसंक्षुभितमभूच्चरमं प्रथमं तु नो कदाचिदपि ॥ ६३१ ॥

 मन्दरेण संक्षुभितं, पदो-मन्दो रसः यस्य तत् क्षुभितं व्याकुलितं च । स्पष्टमन्यत् ॥

 यथावा--

 अञ्जनगिरिनायकतनुरसितिमरुचिरा चकास्ति यमुनेव । तपनं दूरीकुरुते प्रथमा चरमा तु तपनतनुजाता ॥ ६३२ ॥

 तपनं नरकविशेषम् । तपनस्य भानोः तनुजाता तनया 'तपनो दुष्करेऽपि स्याद्भास्करे निरयान्तरे' इति मेदिनी ॥

 यथावा--

 किरणस्फुटारविन्दः प्रभावितानेमितस्फुरन्मूर्तिः। रविरिव हरिहेतीशस्स हि दुर्दर्शस्सुदर्शनोऽयं तु ॥ ६३३ ॥

 हरेर्भगवतः हेतीशः चक्रराजः रविरिव किरणैः स्फुटानि विकचानि अरविन्दानि यस्य स तथोक्तः । अन्यत्र-किरणैः स्फुटाः प्रव्यक्ताः ये अराः परितो नाभ्यर्पितशलाकाः 'अरं शीघ्रे च चक्राङ्के' इति मेदिनी । तान्विन्दतीति तथोक्तः । कर्मण्यण् । प्रभाविताने तेजोमण्डले । यद्वा प्रकृष्टा भाः येषां ते प्रभासः अग्न्यादयस्तेजस्विनः तेषां विताने समुदये अमितं अपरिच्छिन्नं यथायथा स्फुरन्ती मूर्तिर्यस्य स तथोक्तः । अन्यत्र प्रभायाः अविता रक्षकः प्राप्ता वा। अवतेः रक्षणार्थकादवाप्त्यर्थकाद्वा ताच्छील्ये तृन् । नेमितः नेम्या परितस्थितेन वलयेन स्फुरन्मूर्तिः ‘चक्रंं रथाङ्गं तस्यान्ते नेमिस्स्त्री' इत्यमरः । सः रविः दुर्दर्शः अयं हेतीशः सुदर्शनः शोभनं दर्शनं यस्य स तथोक्तः। सुदर्शनशब्दः पुंस्त्वेऽप्यनुशिष्टः । तथाच मेदिनी ‘सुदर्शनो हरेश्चक्रे मेरुजम्बूद्रुमे पुमान्’ इति ‘सुदर्शनोस्त्रियां चक्रे' इति नामनिधानं च । माघश्च ‘बन्धुरेष जगतां सुदर्शनः’ इति प्रायुङ्क्त ॥

 यथावा--

 निश्वसनविचलदलकं लसदलिकं नलिनमिव भवद्वदनम् । जननि परं त्वत्रान्त्यं कनति तरामब्जकरशुभालोकैः ॥ ६३४ ॥

 निश्वसनेन विचलन्तः अलकाः चूर्णकुन्तलाः यस्य तत्तथोक्तम् । पक्षे—नितरां श्वसनेन मरुता विचलन्तीति विचलानि, पचाद्यच् । दलानि पत्राणि यस्य तत्तथोक्तं ‘शेषाद्विभाषा' इति कप् । लसत् अलिकं ललाटं यस्य तथोक्तं ‘ललाटमलिकं' इत्यमरः । पक्षे -लसन्तः अलयो भ्रमराः यस्मिंस्तत्तथोक्तं, पूर्ववत्कप् । परंतु अन्त्यं भवद्वदनं अब्जस्य चन्द्रमसः कराणां किरणानां शुभैः आलोकैः प्रकाशैः, पक्षे- अब्जः शङ्खः करे यस्य स तथोक्तः भगवानित्यर्थः । तस्य शुभैः कल्याणैः आलोकैः कटाक्षैः कनतितराम् ॥  यथावा--

 परकीयः पक्कणराट्ण्ट्टणराङ्भवति तावकीनस्तु हरे । सिध्यति नॄणामनयोरुत्कटसंयोगमात्रतो रूपभिदा ॥ ६३५ ॥

 हे हरे परकीयः त्वदितरोपासकः पक्कणराट् शबरनिवासभूतकुग्राममात्रप्रकाशवान् भवति । पक्कणे राजत इति विग्रहे क्विप् ‘पक्कणश्शाबरालयः' इत्यमरः । तावकीनः त्वामुपासीनस्तु पट्टणराट् राजधान्याः राजा भवति ‘राज्ञि राट्' इत्यमरः । ‘पट्टणं पुटभेदनम्' इति पठन्तो वाचस्पतिप्रभृतयः तवर्ग्यमध्यान्त्यपत्तनशब्दवट्टवर्ग्यमध्यान्त्यपट्टणशब्दोप्यस्तीति मन्यन्ते । अत एव ‘अट्टशूलाः कतिपये पट्टणेऽस्मिन्प्रतिष्ठिताः ’ इति प्रयोगश्च प्रासबद्धस्संगच्छते । रूढश्चायं शब्दो नात्र विप्रतिपत्तव्यम् ।अनयोः पक्कणपट्टणराजोः उत्कटोऽतिमात्रः यस्संयोगस्संसर्गः तन्मात्रेण तावतैव नॄणां संसर्गिणां नराणां रूपाभिदा सिध्यति 'संसर्गजा दोषगुणा भवन्ति' इति न्यायात्पक्कणसंसर्गेण महतामपि निहीनत्वं पट्टणराट्संसर्गेण निहीनानामपि महत्त्वं चेत्येवंरूपभेदस्सिध्यतीति भावः । उत्कृष्टः कटयोर्वर्णयोः यस्संयोगः 'हलोऽनन्तरास्संयोगः, इत्युक्तलक्षणः औचित्यात् ककारस्य ककारेण टकारस्य टकारेणैव संयोगोऽत्र विवक्षितः । उत्कटसंयोग एव उत्कटसंयोगमात्रं तस्मात् ततः रूपभिदा सिध्यति । संयुक्तककारटकाराभ्यामेव पक्कणराट्पट्टणराट्छब्दयोर्वैलक्षण्यं नान्यवर्णेष्विति भावः । अत्राद्ये उदाहरणचतुष्टये व्यतिरेकमूलभूता उपमा शाब्दी । अत्र तु उपासनादिप्रयुक्ता गम्येति भिदा ॥  यथावा-

 करिभयकारी गिरिशः करिभयवारी फणाधरगिरीशः । वर्णे धवळासितयोरनयोः कावा भिदाऽस्ति हरहर्योः ॥ ६३६ ॥

 गिरिशः धूर्जटिः करिणः गजासुरस्य भयकारी, फणाधरागिरीशस्तु करिभयवारी गजेन्द्रभयनिवारयिता । वर्णे वर्णविषये धवळासितयोः यथासंख्यं सितनीलयोः अनयोः हरहर्योः का वा अभिदा अस्ति न काऽप्यभिदा, किंतु भेद एव स्पष्ट इत्यर्थः । पक्षे –वर्णे अक्षरे विषये कावाभिदा कावाभयमेवभेदः करिभयकारिकरिभयवारिशब्दयोः कावावर्णाभ्यामेव भेदो न वर्णान्तरेष्वित्यर्थः । किंच-हरहर्योः कावा काऽपि अभिदा अकारेणैव भिदा हरशब्दे द्वावकारौ हरिशब्देत्वेक एव स इति भेद इत्यर्थः । अत्र भयकार्यपेक्षया भयवारिण उत्कर्षस्सर्वलोकसाक्षिकः, भयाभयप्रदयोरभयप्रदस्यैव श्रेयस्त्वात् । अत्र हरिशब्दस्य 'द्वंद्वे घि, अभ्यर्हितं पूर्वम्' इति पूर्वप्रयोगावश्यंभावेऽपि ‘लक्षणहेत्वोः’ इति सूत्रनिर्देशात्तस्य प्रकरणस्यानित्यत्वमनुसृतं विवक्षितचमत्कारानुरोधादिति ध्येयम् । इहापि पूर्वोदाहरणवदीश्वरशब्दवाच्यत्वादिप्रयुक्तमौपम्यं गम्यम् ॥

 यथावा--

 सारसनाभिख्याढ्या दशनाळिस्तव मदम्ब रश नाळिश्व । मुख्याऽऽद्या मध्यस्था पराऽनयोर्भवति देवि दरमात्रभिदा ॥ ६३७ ॥  हे देवि मदम्ब सा प्रसिद्धा तव दशनाळिः रसनाया: रसज्ञायाः अभिख्यया शोभया आढ्या परिपक्वदाडिमबीजराजिवत्पाटलवर्णतया भासमानेत्यर्थः । रशनाळिः मेखलापङ्क्तिश्च । यद्वा रशना आळिस्सेतुरिव रशनाळिः ‘सेतुराळौ स्त्रियां पुमान्' इत्यमरः । स्त्रियां विद्यमानायामाळौ सेतुः पुमानिति कोशार्थः। सारसनमित्यभिख्यया नाम्ना आढ्या ‘सप्तकी रशना तथा । क्लीबे सारसनं च, अभिख्यानामशोभयोः' इति चामरः । अनयोर्मध्ये आद्या दशनाळिः मुख्या श्रेष्ठा मुखे भवा च, अपरा रशनाळिः मध्यस्था मध्यमा अवलग्नस्था च । अनयोः दरमात्री अल्पपरिमाणा भिदा भेदः। दरमात्री च सा भिदा चेति विग्रहः । मुख्यत्वमध्यस्थत्वे एव भेदो नान्य इत्यर्थः । पक्षे दराभ्यां दकाररेफाभ्यामेव भेदः दशनाळिरशनाळिशब्दयोस्तावतैव भेदः तुल्यत्वादन्यवर्णानुपूर्व्या इति भावः ॥

 यथावा--

 तव कृपया मुक्तेन्द्रावाविर्भूतस्वरूपसंपन्नौ । एकस्स्वराट्परस्तु स्वाराडास्फूर्तिमांस्तयोर्भेदः ॥

 हे भगवन्निति प्रकरणाल्लभ्यते । तव कृपया मुक्तः प्रकृतिबन्धविनिर्मुक्तः पुमान् इन्द्रश्शक्रश्च मुक्तेन्द्रौ आविर्भूतस्वरूपसंपन्नौ । मुक्तपक्षे आविर्भूतं यत्स्वरूपं अपहतपाप्मत्वादिब्राह्मगुणविशिष्टं स्वरूपं तेन संपन्नः, पूर्वं कर्मारब्धशरीरसंबन्धवत्तया तिरोहितापहतपाप्मत्वादिः पश्चात् ‘परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते’ इत्युक्तरीत्याऽऽविर्भूतस्वस्वरूप इत्यर्थः । अत्र संपद्याविर्भावाधिकरणार्थोऽनुसंधेयः । इन्द्रपक्षे आविर्भूतः प्रादुर्भूतः प्रकाशमान’ इति यावत् । यः स्वरुः शतकोटिः 'शतकोटिस्स्वरुश्शम्बः' इत्यमरः । तेन उपसंपन्नः इन्द्रस्य वज्रायुधलाभोऽपि भगवत्कृपायत्त एवेति भावः । एकः अनयोर्मध्ये प्रथमनिर्दिष्टो मुक्तः स्वराट् स्वेन राजत इति स्वराट् अकर्मवश्य इत्यर्थः । ‘स स्वराट् भवति' इति श्रुतेः । सूत्रितं च - ‘अत एव चानन्याधिपतिः' इति । ‘अपहतपाप्मा सत्यसङ्कल्पः' इति श्रवणादेवाकर्मवश्य इति सूत्रार्थः । परः अनन्तरनिर्दिष्ट इन्द्रस्तु स्वाराट् स्वेन न राजत इति स्वाराट् कर्मपरतन्त्र इत्यर्थः । पक्षे-स्वः स्वर्गस्य राट् राजा । स्वरिति रेफान्तमव्ययम् । 'रोरि' इति रेफलोपे ‘ढ्रलोपे पूर्वस्य’ इति दीर्घः ‘स्वाराण्णमुचिसूदनः' इत्यमरः । तयोः मुक्तमहेन्द्रयोः भेदः आस्फूर्तिमान् ईषत्स्फुरणवान् । आङीषदर्थे । अत्यल्प एव भेद इत्यर्थः । यद्वा-आ समन्तात्, आङ्भिविधौ । स्फूर्तिमान् अकर्मवश्यकर्मपरतन्त्रयोर्महान् भेद इति भावः । आङीषदर्थेऽभिव्याप्तौ' इत्यमरः । यद्वा-उक्तरीत्या अनयोस्तौल्येऽपि भेदोपि कश्चित्संभवेद्वा न वेति मीमांसमानस्स्मरन्नाह-आः स्फूर्तिमानिति । तयोः मुक्तमहेन्द्रयोः भेदः एकस्स्वराट् अन्यस्स्वाराडिति वैलक्षण्यं स्फूर्तिमान् इदानीं स्मृत इत्यर्थः । आ इति स्मरणार्थकं प्रगृह्यसंज्ञकमव्ययम् । ‘आ प्रगृह्यस्स्मृतौ’ इत्यमरः । पक्षे–आस्फूर्तिमान् ह्रस्वाकारदीर्घाकाराभ्यां स्फुरणवान् । स्वराट्स्वाराट्छब्दयोस्तावतैव भेददर्शनादिति भावः ॥

 यथावा--

 कमलाननो हरे त्वं कमलासन एव तव सुतो जज्ञे । नसभेदो गणनीयो लोकेशाविति युवां यतो विदितौ ॥ ६३९ ॥  हे हरे ! त्वं कमलाननः कमलायाः श्रियः अननः प्राणयिता । अन्यते अनेनेत्यननः, कमलवदनश्च । तव सुतः ब्रह्मा कमलासनः श्रीनिरासकः अस्यते अनेनेत्यसनः, कमलायाः असन इति विग्रहः । पद्मोपविष्ट इति च । सः उक्तप्रकारः भेदः वैलक्षण्यं न गणनीयः उपेक्षणीयः अत्यल्पभेदस्याकिंचित्करत्वादिति भावः । यतो हेतोः युवां स च त्वं च युवां ‘त्यदादीनां मिथस्सहोक्तौ यत्परं तच्छिष्यते’ इत्यनुशासनात्परभूतयुष्मच्छब्दैकशेषः । लोकेशाविति विदितौ । लोकेशत्वेन विदितयोर्युवयोः कियानयं भेद इति भावः । प्रसिद्ध्यति हि चतुराननस्यापि लोकेशत्वं ‘हिरण्यगर्भो लोकशः इत्युक्तेः । पक्षे नसाभ्यां नसवर्णाभ्यां भेदः गणनीयः । कमलाननकमलासनयोस्तावतैव भेददर्शनादिति भाव । अत्र 'सारसनाभिख्याढ्या' इत्याद्युदाहरणत्रये सारसनेत्यादिश्लेषप्रतिभोन्मीलिततुल्ययोगतानुप्राणितो व्यतिरेक इति विशेषः ॥

 यथावा--

 पत्रिण्यासीच्छ्येनी फणिगिरिनाथ त्वदीयकीर्तिश्च । प्रथमा शशादनीति प्रथिताऽन्त्याऽऽत्मौजसा शशिनमत्ति ॥ ६४० ॥

 हे फणिगिरिनाथ ! पत्रिणी तदाख्या काचिद्विहगी श्येनी श्येनाख्या आसीत् ‘अथ शशादनः । पत्री श्येनः' इत्यमरः। ‘श्येने पत्रिशशादनौ' इत्यमरमाला । “ श्येनाख्यो विहगः पत्री पत्रिणौ शरपक्षिणौ' इति शाश्वतश्च । पत्रिशब्दात् नान्तलक्षणो ङीप् । जातिलक्षणो ङीष् वा । त्वदीयकीर्तिश्च श्येनी आसीत् उक्तोऽर्थः । पक्षे- श्वेतवर्णा अभूत् ‘विशदश्येतपाण्डुराः’ इत्यमरः । श्येतशब्दात् स्त्रीत्वविवक्षायां 'वर्णादनुदात्तात्तोपधात्तो नः' इति ङीप्संनियोगशिष्टस्तकारस्य नकारः । श्येनः पक्षिणि पाण्डुरे' इति मेदिनीकोशात्तु पुंस्यपि नोपधश्श्येनशब्दोस्तीति ज्ञायते । तस्मात् पिप्पल्यादेराकृतिगणत्वात् ङीष् बोध्यः प्रथमा तयोराद्या पत्रिणी शशमत्तीति शशादनी प्रथिता तन्नाम्ना प्रसिद्धा । अन्त्या त्वदीयकीर्तिस्तु आत्मौजसा निजतेजसा शशिनं शशवन्तं, इन्दुमिति वास्तवार्थः । अत्ति कबळयति आच्छादयतीति यावत् ॥

 यथावा--

 काको रराद हृदयं पिकस्तु तव वचनदास्यतो हृद्यः। द्विजयोरपि जननि तयोः काऽपि भिदा व्यञ्जने स्वरेऽप्यस्ति ॥ ६४१ ॥

 हे जननि ! काकः वायसः ऐन्द्रिरिति भावः । तव हृदयं वक्षः रराद विललेख ‘रद विलेखने ’ लिट् । यद्वा-काकः साधारणो वायसः हृदयं शृण्वतां चित्तं रराद स्वरकार्कश्येन उद्वेजयामासेति यावत् । पिकः कोकिलस्तु तव वचने दास्यतः दासभावात् 'त्वदास्यदास्येऽपि गतोऽधिकारितां न शारदः' इत्यादाविवास्य आपम्ये पर्यवसानम् । हृद्यः तव हृदयप्रियोऽभूत् । पक्षे--शृण्वतां स्वरमाधुर्येण मनोहरोऽभूदित्यर्थः । तयोः काकापिकयोः द्विजयोः विप्रयोस्सतोरपि पक्षिणोस्सतोऽरपीति वस्तुस्थितिः । काऽपि अनिर्वचनीया भिदा भेदः व्यञ्जने चञ्चुपक्षादिचिह्ने स्वरे ध्वनौ च अस्ति 'व्यञ्जनं लाञ्छनश्मश्रुनिष्ठानावयवेष्वपि' इत्यमरः । पक्षे - काकपिकशब्दयोः का पि इति वर्णयोर्विद्यमाना भिदा व्यञ्जने ककारपकाररूपे हलवर्णे स्वरे आकारेकाररूपे अवर्गेऽपि अस्ति हलज्वर्णयोरुभयोरप्यस्ति न त्वन्तिमककारयोः, तत्रोभयोरप्यैकरूप्यदर्शनादिति भावः । उदाहरणद्वयेऽस्मिन् श्लेषप्रतिभोत्तम्भितदीपकानुप्राणितो व्यतिरेक इति विशेषः । स च 'उरगाचलपतिमानसम्' इत्याद्येतदन्तेष्वेकादशसु पद्येषूपमेयोत्कर्षपर्यवसायीति ध्येयम् ॥

 उपमानोत्कर्षे यथा--

 आकाशगङ्गङ्ग्याढ्यौ मेरुः फणिभूधरश्च तत्राद्यः । विश्वंभरामधरयत्यन्यो विश्वंभराधरीभूतः ॥

 विश्वंभरां भुवं अधरयति अधस्तात्करोति । विश्वंभरायाः भुवः । पक्षे–विश्वंभरस्य भगवतः अधरीभूतः ॥

 यथावा--

 त्वमिवानन्ताश्रयभागहमप्यम्भोद नौ भिदा त्वियती। ऊष्मागमभवतापं त्वं तिरयस्यहमिमं वहे मूढः ॥ ६४३ ॥

 अनन्तस्य अन्तरिक्षस्य भगवतश्च । ऊष्मागमभवः ग्रीष्मजन्यः तापः संज्वरः तम् । पक्षे–ऊष्मा, तीक्ष्णः आगमः प्राप्तिरस्य स तथाभूतः भवस्संसारः तस्मात्तापं आध्यात्मि कादिकम् । अन्यत्सुगमम् ॥

 यथावा--

 त्वदपाङ्गाच्छ्रीलाभो दिशांपतीनां विशांपतीनां च । तुल्यो दिवि स्थितौ पुनरस्ति भिदा फणिगिरीन्द्रमणिदयिते ॥ ६४४ ॥  दिवि स्वर्गे स्थितौ पुनः अवस्थाने तु भिदा भेदः अस्ति । दिशांपतीनां स्वर्गस्थितिरस्ति, विशांपतीनां तु सा नास्तीति भिदा । पक्षे - दिशांपतीनां विशांपतीनामित्यत्र दि वि इति वर्णयोः स्थितावेव भिदा अन्यवर्णानां तौल्यात् । अन्यद्व्यक्तमेव । अस्मिन्नुदाहरणत्रयेऽपि उपमानोत्कर्षः । अन्यत्सर्वं पूर्ववदेव ॥

 उभयोत्कर्षापकर्षाप्रतीतौ यथा-

 घनसारशितिश्श्रुतिशतविदिता मूर्तिस्तवेश कीर्तिश्च । एते स्तोतुमशक्ये मूकीभावो विशिष्यतेऽत्र परम् ॥ ६४५ ॥

 हे ईश ! श्रीनिवास ! तव मूर्तिः कीर्तिश्च घनसारः जलदवरः ‘सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु' इत्यमरः । स इव शितिः नीला । पक्षे-घनसारः कर्पूरः 'अथ कर्पूरमस्त्रियां । घनसारः' इत्यमरः । स इव शितिः धवला ‘शिती धवलमेचकौ' इत्यमरः । श्रुतिशते विदिता ‘नीलतो यदमध्यस्था, श्यामाच्छबलं प्रपद्ये शबलाच्छ्यामम्' इत्यादिश्रुतिषु नीलतोयदश्यामलतया प्रथिता । कीर्तिपक्षे श्रुतिशतैः श्रोतृजनश्रोत्रसहस्रैः विदिता ज्ञाता । यद्वा-धवलतया प्रथितेत्यर्थः । यद्वा-मूर्तिरप्राकृतत्वादिभिः प्रथिता । कीर्तिस्तु–‘तस्य नाम महद्यशः’ इत्युक्तरीत्या महत्त्वेन प्रथितेत्यर्थः । एते मूर्तिकीर्ती स्तोतुमशक्ये श्रुतिशतप्रथिते ते वर्णयितुं कस्य मितंपचवचसश्शक्तिरिति भावः । अत्र अनयोर्मूर्तिकीर्त्योः मूकीभावः मू की इत्याकारवर्णसत्तैव विशिष्यते तुल्यत्वाद्वर्णान्तरस्यायमेव विशेषो नान्य इति भावः । वाच्यवाचकयोस्तादात्म्यमिह शरणम् । अन्यथा विवक्षितव्यतिरेकस्यार्थगतत्वासंभवात् । किंच अत्र एतत्स्तुतिविषये मूकीभावो विशिष्यते। अस्माद्दशां मौनेनावस्थानमेव श्रेय इत्यर्थः । अत्र श्लेषानुप्राणित उत्कर्षापकर्षयोरविभावनादनुभयव्यतिरेकः। एवमुत्तरोदाहरणेष्वपि द्रष्टव्यम् ॥

 यथावा--

 त्वं खलु जगतीमाता जगतीत्राताऽब्धिपुत्रि तव दयितः । सर्वैर्गुणैस्सदृशयोर्मात्राभेदः परं भवति युवयोः ॥ ६४६ ॥

 मात्रया लेशतः भेदः अनिर्वचनीयं यत्किंचिदेव वैलक्षण्यं न तु सर्वात्मनेति भावः ‘स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः ' इत्यमरः । पक्षे-मावर्णत्रावर्णाभ्यामेव भेद इत्यर्थः ॥

 यथावा--

 कामोऽत्र बाधते मां यमः परत्रानयोस्स्वतस्समयोः । भेदस्तु कायमात्रादाधत्स्व कृपां ततो मयि मुकुन्द ॥ ६४७ ॥

 स्वतः स्वभावत एव समयो बाधितृत्वेन तुल्ययोः । पक्षे–मवर्णसहितयोः अनयोः कामयमयोः भेदस्तु कायमात्रात् शरीरत एव भेदो न तु गुणत इति भावः । यद्वा-कामस्य कायो नास्ति यमस्य तु सोऽस्तीति तन्मात्राद्वेद इत्यर्थः । काकारयकाराभ्यामेव भेद इत्यप्यथाऽनुसंधेयः ॥  यथावा-

 पूर्वं नरकानुगुणावाशुगचक्रेण लूनमूर्धानौ । भवता सदूषणौ यौ मुखमात्रभिदा तयोर्हि मुरखरयोः ॥ ६४८ ॥

 नरकस्य नरकासुरस्य निरयस्य च अनुगुणौ अनुरूपौ एकत्र तन्मित्रत्वात् अपरत्र पापकारित्वादिति भावः । दूषणेन दोषेण दूषणनाम्ना रक्षसा च सह वर्तेते इति सदूषणौ । यौ पूर्वं भवता आशुगेन चक्रेण सुदर्शनेन आशुगानां विशिखानां चक्रेण जालेन विलूनमूर्धानो अभूतामिति शेषः । तयोः मुरखरयोः तन्नाम्नोर्दैत्यरक्षसोः मुखमात्रेण भिदा मुरस्य त्रिशीर्षत्वेन त्रिमुखता खरस्य एकशीर्षतया एकमुखतैवेतीयानेव भेदः उक्तगुणानां तौल्यात् । सुवर्णखवर्णाभ्यामेव भेद इत्यर्थान्तरं च ॥

 यथा वा-

 ये निन्दन्त्यखिलगुरुं गोविन्द त्वाममन्ददुरितवशाः । भाषणमेषां भषणं केवलमाकारतोऽनयोर्भेदः ॥ ६४९ ॥

 भाषणं उक्तिः, भाषतेर्ल्युट्। भषणं श्वरवः ‘भष भर्त्सने' 'इह भर्त्सनं श्वरवः' इत्युक्तेः । अस्माल्ल्यट् । अनयोः भाषणभषणयोः आकारमात्रतः मनुजशुनकमुखोद्गीर्णत्वरूपस्वरूपमात्रे भेदः अन्यत्र अकारदीर्घाकाराभ्यामेव भेदः । अन्यवर्णानुपूर्वी तु तुल्यैव ॥  यथा वा--

 परबलहरहरिकलितौ श्वेतो द्वीपो द्विपश्च खलु तुल्यौ । कियती भिदाऽनयोस्स्यात्सवर्णयोरेव सर्वथाऽपि सतोः ॥ ६५० ॥

 श्वेतो द्वीपः श्वेतो द्विपः ऐरावतश्च । परेषां द्विषां बलं सामर्थ्यं सैन्यं वा तस्य हरः हर्ता हरिर्भगवान् तेन कलित इति श्वेतद्वीपपक्षे । ऐरावतपक्षे तु-परः वैरी बलः बलासुरः तस्य हरः हरिरिन्द्रः तेन कलितः । तयोरेकशेषः । अत एव तुल्यौ । सर्वथाऽपि सर्वप्रकारेणापि सवर्णयोः तुल्यवर्णयोरेव सतोः द्वयोरपि श्वेतत्वादिति भावः । पक्षे समानानुपूर्वीकाक्षरयोरेव सतोः अनयोः श्वेतद्वीपश्वेतद्विपयोः भिदा कियती स्यात् सर्वथा तुल्ययोरनयोरनिर्वचनीययत्किंचिद्वैलक्षण्यसद्भावोऽप्यकिंचित्कर इत्यर्थः। पक्षे कियती ईभिदा इति च्छेदः । ईभिदा दीर्घेकारहृस्वेकाराभ्यां भेदः कियती अत्यल्पेत्यर्थः । यत्किंचिद्वर्णभेदस्सन्नपि न गणनीय इति भावः ॥

 यथा वा--

 तद्वचनशिक्षितध्वनिमाधुर्यौ द्वाविमौ समौ मन्ये । अत्र सदापिशुभेदश्चित्ते क्रियतां मदम्व पिकशुकयाः ॥ ६५१ ॥

 हे मदम्ब ! त्वद्वचनेन शिक्षितं ध्वनिमाधुर्यं ययोस्तौ तथोक्तौ द्वौ इमौ पिकशुकौ समौ मन्ये । अत्र अनयोः पिकशुकयोः पिशुभेदः पि शु इति वर्णाभ्यामेव वैलक्षण्यं नान्यवर्णयोरिति भावः । चित्ते क्रियतां अवधार्यताम् । शब्दगतोऽप्ययं पिशुवर्णभेदः अर्थे शब्दतादात्म्याभिमानकृत इत्यवधेयम् । अर्थान्तरं च -हे शुभे ! इति संबुद्धिः । अद इति छेदः । अत्र अनयोः पिकशुकयोः अदः परस्परसादृश्यं सदा चित्ते क्रियतां अनयोस्त्वद्वचनशिक्षितध्वनिमाधुर्यत्वेन तौल्यमस्तीति त्वया । परिचिन्त्यतामिति ॥

 यथा वा--

 अमृतेप्सुविबुधसेव्यौ स वासुदेवश्च वासुकिश्चापि । तुल्यौ वैलक्षण्यं त्वनयोर्ननु देवकीति मात्रैव ॥ ६५२ ॥

 सः प्रसिद्धः वासुदेवश्च वासुकिश्चापि अमृतं ईप्सवो ये विबुधाः ब्रह्मविदः देवाश्च तैः सेव्यौ अत एव तुल्यौ । अनयोः वैलक्षण्यं तु देवकीति मात्रैव देवकीति प्रसिद्धया जनन्यैव ननु । वासुदेवस्य देवकीति मात्रा प्रसिद्धा वासुकेस्तु तादृशी माता नेत्येतावदेव वैलक्षण्यम् । अमृतेप्सुविबुधसेव्यत्वं तु तुल्यमेवेति भावः । पक्षे- वासुदेववासुकिशब्दयोः देवकी इति मात्रैव अल्पमेव वैलक्षण्यम् । आद्ये देवेति वर्णौ अन्त्ये कीति वर्ण इत्येतावानेव भेदः आदिमवर्णद्वयस्योभयत्राप्यैकरूप्यादिति भावः 'स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः' इत्यल्पपर्यायेष्वमरः ।

मात्रा कर्णविभूषायां वित्तमाने परिच्छदे ।
अक्षरावयवे स्वल्पे क्लीबं कार्त्स्न्येऽवधारणे ॥

इति मेदिनी च ॥  यथा वा-

 यस्यास सहजदेयं राज्यं यस्यापि सहजहेयं तत् । देहे भिदैव नान्या भिदाऽनयोर्भवति रामलक्ष्मणयोः ॥ ६५३ ॥

 यस्य रामस्य राज्यं सहजदेयं सहजे भ्रातरि भरते देयं आस बभूव । आसेति तिङन्तप्रतिरूपकमव्ययम् । ‘ इदमास चिह्नम्' इतिवत् । न त्वस्तेर्लिट् 'तिङन्तत्वे ‘अस्तेर्भूः’ इति लिटि भ्वादेशापत्तेः । यद्वा- ‘अस दीतौ ' इत्यस्माल्लिडेव । दीयत इति देयं कर्मणि ‘अचो यत्' इति यत् । राज्यं सहजदेयं दिदीपे इत्यर्थः।

अहं हि सीतां राज्यं च प्राणानिष्टान्धनानि च ।
ह्रेष्टा भ्रात्रे प्रदास्यामि भरतायाप्रचोदितः ।

इति तदुक्तेः । यद्वा-सहजेन भरतेन देयं दातुं योग्यमासीदित्यर्थः । 'तद्ददामि पुनस्तुस्यं यथा त्वमददा मम' इति भरतोक्तेः । यस्य लक्ष्मणस्यापि तत् राज्यं सहजे भ्रातरि सहजेन भ्रात्रा वा हेयं देयं आस । 'ओहाक् त्यागे’ ‘अचो यत्' इति यत् ‘त्यागो विहापितं दानम्' इत्यमरः । वस्तुतस्तु सहजेन निसर्गेणैव हेयं त्याज्यमित्यर्थः। ‘सहजस्तु निसर्गे ना सहोत्थे पुनरन्यवत्' इति मेदिनी । ‘सर्वात्मना पर्यनुनीयमानो यदा न सौमित्रिरुपैति योगम्' इत्यादिकमिहानुसन्धेयम् । कैङ्कर्यैकरतित्वात्तस्य राज्यं परिहार्यमासीदिति भावः । अनयोः सहजदेयसहजहेयराज्ययोः रामलक्ष्मणयोः देहे विग्रहे एव भिदा भेदः नान्या, स्वरूपे उक्तगुणे वा भेदो नास्तीत्यर्थः ।

ततः पद्मपलाशाक्षः कृत्वाऽऽत्मानं चतुर्विधम् ।
पितरं रोचयामास तदा दशरथं नृपम् ॥

इत्युक्तेः । अत्रात्मशब्दो देहवाची । पक्षे सहजदेयराज्यसहजहेयराज्यशब्दयोः दे हे इति वर्णाभ्यामेव भिदा न तु वर्णान्तरैरित्यर्थः । एषु ‘घनसारशितिः’ इत्यादिषु नवसूदाहरनणेषूत्कर्षापकर्षयोरविभावनादनुभयव्यतिरेको द्रष्टव्यः ॥

 एवं कुवलयानन्दानुरोधेन व्यतिरेको दर्शितः । अथ काव्यप्रकाशरसगङ्गाधराद्यनुरोधेन प्रदर्शयिष्यते.

प्राचीनरीत्या व्यतिरेकः--

उपमेयस्योपमानाद्यदा गुणविशेषतः ।
उत्कर्षो वर्ण्यते प्राहुर्व्यतिरेकं तदा बुधाः ॥

 उपमानादुपमेयस्य गुणविशेषवत्त्वेनोत्कर्षो व्यतिरेकः प्रतीपादिवारणाय तृतीयान्तं वैधर्म्यपरम् । तत्र चोपमेयस्योपमानतामात्रकृत एवोत्कर्षः न वैधर्म्यकृतः, साधर्म्यस्यैव प्रत्ययात् । अधिकगुणत्वमात्रं उपमानगतापकर्षमात्रं वा न व्यतिरेकस्वरूपं, तयोरुपमेयोत्कर्षाक्षेपमन्तरेणासुन्दरत्वात् । अत एव न सादृश्याभावमात्रं तत्, उपमानादुपमेयस्यापकर्षेऽपि तत्संभवात् तस्य च हीनगुणस्योपमेयताया वास्तवत्वेनासुन्दरत्वात् । उपमेयोत्कर्षविशिष्टत्वेन सादृश्याभावस्य विशेषितत्वे च तस्योपमेयोत्कर्षस्यैवालंकारतौचित्येनाधिकस्य निष्प्रयोजनत्वात् ॥  यथा--

 अम्लानश्रीकमिदं सदाऽपि वदनं सरोजसदनायाः । म्लानश्रियोपमां क्कचिदैन्दवबिम्बेन किमवलम्बेत ॥ ६५४ ॥

 म्लाना न भवतीत्यम्लाना निर्मलेति वस्तुस्थितिः ‘अम्लानस्त्वमले झण्टीभेदे' इति हेमचन्द्रः । तादृशी श्रीर्यस्य तत्तथोक्तं ‘शेषाद्विभाषा' इति कप् । क्कचित् म्लानश्रियेत्यन्वयः' अयं चोपमेयोत्कर्षकोपमानापकर्षकयोर्वैधर्म्ययोर्द्वयोरप्युपादानानुपादानाभ्यामेकतरानुपादाने च तावच्चतुर्धा । सोप्युपमायाः श्रौतीत्वार्थीत्वाक्षिप्तात्वैर्द्वादशविधो भवन् सश्लेषनिश्श्लेषत्वाभ्यां चतुर्विंशतिप्रकार इति प्राञ्चः ॥

 यथा--

 जल्पन्तु यथाकामं जल्पाका देव तावकः पाणिः । कल्पद्रुरिव किमेषोऽनल्पां दत्ते श्रियं स तु स्वल्पाम् ॥ ६५५ ॥

 तावकः पाणिः कल्पद्रुरिव किं ? स इव न स्यादिति भावः । कुत इत्यत आह –एष इति । एषः तावकः पाणिः । अन्यत्सुगमम् । अत्रोभयोरुपादानं, उपमा च श्रौती । अत्रैव- 'कल्पद्रुम इव कथमयमल्पां दत्ते श्रियं न जात्वपि यः' इत्युत्तरार्धे रचिते ‘कल्पद्रुरिव किमेष स्वल्पां श्रियमेव यस्सदा दत्ते’ इति वा रचिते एकतरानुपादानम् । श्रौती चोपमा । 'कल्पद्रुरिवेति वचः कल्पेत बुधस्य कस्य तोषाय' इति कृते हतुसामान्यानुपादानं सा श्रौती च । हेतुद्वये हि यस्यैवानुपादानं तस्याक्षेपेणावगतिः । उभयोरप्यनुपादाने तथैव, न त्वनवगतिः व्यतिरेकस्योत्कर्षापकर्षरूपत्वात् । तयोश्च प्रयोजकज्ञानमन्तरेणानवबोधात् ॥

 एवम्--

 सततमनाविलभावां काले क्वचिदाविलत्वमुपयान्ती । बहिर्मुखस्रवन्ती साऽर्हति किं तव कृपां समां कर्तुम् ॥ ६५६ ॥

 अत्रोभयोपादानं, उपमा त्वार्थी । ‘बाले सुधापयोधेः काले क्वचिदाविलत्वमुपयान्ती’ इति पठिते पूर्वार्धे, अस्यैव ‘काले क्कचिदप्यनाविलत्वजुषम् । बहिर्मुखस्रवन्ती’ इति द्वितीयतृतीयचरणयोश्च कल्पितयोरेकतरानुपादानं, आर्थी चोपमा । ‘व्यालेशगिरीशहृदयकृतशाले’ इति, ‘बाले सुधापयोधेः' इत्यस्य द्वितीयचरणे निर्मिते उभयानुपादानं सा च ॥

 निरवधिकानन्ददुघा द्विरसनगिरिनाथसंनिधौ वसतिः । अधरयति मितानन्दां विधिमुखलोकेषु निवसतिं नॄणाम् ॥ ६५७ ॥

 अत्र इवादेस्सादृश्यमात्रशक्तस्य सदृशादेश्च तद्विशिष्टशक्तस्य शब्दस्याभावाच्छुत्यर्थपथात्यासादिनी अधरीकरणेनाक्षिप्तैवोपमा । अत्रैव ‘निरवधिकसुकृतसुलभे' इत्याद्यचरणनिर्मितौ, ‘अधरयति विधिनिधीश्वरविधुशेखरलोकनिवसतिं नॄणाम्’ इत्युत्तरार्धनिर्माणे वा एकतरानुपादानम् । आक्षिप्ता चोपमा । अस्यैव 'फणधरधराधराधिपमधुमथनपदाब्जसंनिधौ वसतिः' इति पूर्वार्धे निर्मिते उभयानुपादानं, सा च ॥  एवं निश्श्लेषव्यतिरेकदिक् प्रदर्शिता । अथ सश्लेषव्यतिरेकदिक्प्रदर्श्यते । यथा--

 ननु निश्श्रीकमलिन्याः करावमर्शेन विदधदामोदम् । भास्वानिव किं भगवानपहतपाप्मा यतो ह्येषः ॥ ६५८ ॥

 निश्श्रीकायाः अनाप्लुततया म्लानप्रभायाः ‘शेषाद्विभाषा' इतेि कप् । मलिन्याः पुष्पवत्याः ‘मलिनी पुष्पवत्यपि' इत्यमरः । पक्षे - निश्श्रियः अविकसिततया लक्ष्मीनिवासविधुरायाः कमलिन्याः पद्मिन्याः करावमर्शेन हस्तसंस्पर्शेन किरणसंपर्केण च आमोदं प्रमोदं सौरभं च विदधत् भास्वान् भानुरिव किं भगवान् स्यात् । कुतो न स्यादित्यत आह-यत इति । यतः यस्मात् एषः अपहतपाप्मा “न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्ते अपहतपाप्मा ह्येष ब्रह्मलोकः' इति श्रुतेः । अत्रोभयोपादनं, श्रौती चोपमा । श्लेषस्तु स्पष्ट एव ॥

 यथावा--

 कनकाचलमिव कथयतु कथमिव काकोदराचलं लोकः । स सुरालय इति विदितः कलुषहरं तीर्थमेष वासयति ॥ ६५९ ॥

 कलुषहरं तीर्थं पापविनाशनमिति प्रसिद्धं तीर्थम् । तच्च शेषाद्रौ स्थितम् । अत्राप्युभयोपादानं, श्रौत्येवोपमा श्लेषश्च ॥

 त्वं खलु न तटित्वानिव यन्न विहितसाधुघनरसत्यागः । संकलिततपस्फूर्तिर्वेंकटनाथासि विमलहंसगतिः ॥ ६६० ॥  हे वेंकटनाथ ! त्वं तटित्वानिव न खलु । कुत इत्यत आह- यदिति । यस्मात् साधुषु सत्सु घनस्सान्द्रः यो रसः अनुरागः तस्य त्यागः स न विहितो येन स तथोक्तः । यद्वा - साधुः श्लाघ्यः घनस्संपूर्णः यो रसः आनन्दः तस्य त्यागो न विहितो येन निरतिशयानन्द इत्यर्थः । पक्षे अविहितनिर्मलसलिलत्याग इत्यर्थः । संकलिता तपसः तपस्य ग्रीष्मस्य च स्फूर्तिर्येन स तथोक्तः । विमलानां अकलुषाणां विशदानां च । हंसानां ज्ञानिनां मराळानां च । गतिः गम्यत इति गतिः कर्मणि क्तिन् । प्राप्य इत्यर्थः । अत्रोपमानापकर्षकानुपादानं, श्रौती चोपमा श्लेषश्च ॥

 आदावेव कुवर्णं प्राप्तं मध्येऽवमानितमथान्ते । लयमुपयातं कुवलयमवयन्ति कथं तवाम्व नयनमिव ॥ ६६१ ॥

 कुवलयं आदावेव प्रथममेव कुवर्णं कुत्सितं वर्णं कु इत्याकारकमक्षरं च प्राप्तं, कर्तरि क्तः । मध्ये मध्यकाले अवमानितं अवज्ञातं त्वन्नयननेनेति भावः । पक्षे–मध्ये स्ववाचकशब्दमध्ये वमानितं वकारेण युक्तमिति यावत् । अत एव अन्ते पर्यवसाने लयं क्वापि लीनतां उपयातं, कर्तरि क्तः । पक्षे -लयेति वर्णद्वयमुपगतमित्यर्थः । अत्रोपमेयोत्कर्षकानुपादानं, उपमा श्रौती श्लेषश्च ॥

 आर्थे साम्ये यथा--

 वहदपि सुवर्णमन्तर्मुखे कुवर्णं सदा दधत्कुसुमम् । श्रीस्सुमुखि हरिण्यास्तव पश्चात्सममस्तु न तु पुरो वपुषः ॥ ६६२ ॥  हे सुमुखि ! हे श्रीः! अन्तः मध्ये प्रच्छन्नं यथा स्यात्तथेति वा । सुवर्णं कनकम् । पक्षे -अन्तः स्ववाचकशब्दमध्ये सुवर्णं सु इत्याकारकमक्षरं वहदपि दधानमपि मुखे वक्रे आदौ च कुवर्णं कुत्सितवर्णं कु इत्याकारकमक्षरं च, सदा दधत् कुसुमं प्रसूनं कुसुमपदं च । हरिण्याः सुवर्णप्रतिमायाः, अनेनास्याः अप्रच्छन्नसर्वाङ्गसुवर्णत्वं दर्शितम् । हरितवर्णायाश्च ‘हिरण्यवर्णां हरिणीम्' इति श्रुतेः। ‘हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या' इत्यमरः । तव वपुषः पश्चात् परोक्षमिति यावत् । समं समंमन्यमिति यावत् अस्तु । पुरः समक्षं तु न, नसमं स्यादित्यर्थः । परोक्षं सममिति विकत्थतां नाम प्रत्यक्षं तु कथं सममिति ब्रूयादिति भावः । यद्वा - वपुषः पश्चात् चरमाङ्गे सममस्तु पुरः अग्रभागे तु न सममेवेत्यर्थः । अथवा- पश्चात् भाविनि काले यदाकदा वा समं अस्तु सद्दशं भवेच्चेद्भवत्वित्यनादरे । पुरः प्रथममेव तु न समं स्यात् । कालत्रयेऽपि समं न भवत्येवेति हृदयम् । पक्षे –कु सु इति वर्णद्वयादनन्तरं समं मकारसहितमित्यर्थः, कुसुमशब्दस्य तथैव दर्शनात् । पुरतः आदौ तु न, मकारसहितं न भवतीत्यर्थः । उक्तशब्दस्यातथात्वादिति भावः । अत्रोभयोपादानं, उपमा चार्थी, सदृशशब्देन तत्कथनात् । श्लेषश्च ॥

 यथावा--

 श्रीमन्कनकगिरीन्द्रो व्योम सरूपं वदन्तु तव मुग्धाः । व्योकारमाश्रितं तत्सुजातरूपस्य तव कथं सदृशम् ॥ ६६३ ॥  श्रीमन्! हे कनकगिरीन्दो! मुग्धाः अतत्त्वविदः व्योम गगनं तव समानं रूपं यस्य तत् सरूपं वदन्तु कथयन्तु तत्त्वविदस्तु न वदन्तीति भावः । कुत इत्यत आह--व्योकारमिति । तत् व्योम कर्तृ व्योकारं अयस्कारं आश्रितम् । कर्तरि क्तः । ‘व्योकारो लोहकारकः' इत्यमरः । ‘व्योकारोऽयस्करोऽयस्कारो लोहकारस्स्यात्’ इति रत्नकोशः। ‘व्योकारः कर्मारो लोहकारः' इति हेमचन्द्रश्च । व्यो करोतीति विग्रहः । कर्मण्यण् 'अङ्गारीयदारुसंग्रहैर्योकारैः’ इति हर्षचरिते प्रयोगश्च । वास्तवार्थस्तु व्यो इति वर्णमाश्रितमिति । ‘वर्णात्कारे ’ इति कारप्रत्ययः । सुजातरूपस्य शोभनसुवर्णस्य । पक्षे-रमणीयरूपस्येत्यर्थः ॥ तव कथं सदृशः, तुल्यो न भवत्येव । अयस्काराश्रितसुजातरूपयोस्साम्यायोगादिति भावः । अत्रापि पूर्ववदेव सर्वम् । उपमेयोत्कर्षकोपमानापकर्षकहेतुस्त्वत्रैकःपूर्वत्र द्वाविति विशेषः ॥

 यथावा--

 मुखवर्णमिताऽतिरुचाऽग्रेसरका देवदेव पावनया । तन्वा तव किं तुल्या मिळिन्दजाभा कळिन्दजाभा वा ॥ ६६४ ॥

 हे देवदेव ! अतिरुचा सर्वतोमुखदीप्तिमत्या तव तन्वा मुखवर्णमिता मुखस्य वर्णो रूपं दीप्तिर्वा मितोऽल्पो यस्यास्सा तथोक्ता ।

वर्णो द्विजादिशुक्लादियशोगुणकथासु च ।
स्तुतौ नाना स्त्रियां भेदरूपाक्षरविलेपने ॥

 इति मेदिनी । मिळिन्दाज्जाता मिळिन्दजा भ्रमरगतेत्यर्थः । आभा प्रभा । कर्मधारयः । सदृशी किं न सदृशीत्यर्थः, अतिदीप्तिमितदीप्तिमतोस्साम्यायोगात् । पक्षे-मुखवर्णे आदिमाक्षरे मितामिवर्णत्वं यस्यास्सा तथोक्ता । मिळिन्दजाभाशब्दस्य तथात्वात्। तथा पावनया तव तन्वैव अग्रे पुरः सरकः मद्यपानं तत्पात्रं इक्षुमद्यं वा यस्यास्सा तथोक्ता अतिमात्रमपवित्रेति भावः । 'चषकोऽस्त्री पानपात्रं सरकोऽपि' इत्यमरः । ‘सरकाऽस्त्री शीधुपाने शीधुपात्रेक्षुमद्ययोः' इति मेदिनी च । अग्रे इत्येदन्तमव्ययम् । पक्षे- अग्रेसरः कः कवर्णो यस्यास्सेति तु तत्त्वम् । कळिन्दजाभाशब्दस्य तथात्वात् । शब्दार्थतादात्म्यं न विस्मर्तव्यम् । कळिन्दजायाः यमुनायाः आभा वा सदृशी किं । न सदृशीत्यर्थः । पावनापावनयोस्तौल्यायोगात् । अत्राप्युपमानापकर्षकोपमेयोत्कर्षकयोरुभयोरुपादानं आर्थी चोपमा श्लेषश्चेति सर्वं तुल्यम् । द्वे उपमाने यथासंख्यसंकीर्णे इति तु विशेषः॥

 यथावा-

 घननिर्घोषत्रस्तः किं सदृशो मानसैकजन्यस्स्यात् । हंसश्शङ्खेन हरेः पटुनिर्घोषेण पाञ्चजन्येन ॥ ६६५ ॥

 घननिर्घोशः गंभीरध्वनिः यस्यकस्यचिदति भावः । तस्मात् त्रस्तः एकमेव जन्यं युद्धं ‘युद्धमायोधनं जन्यं' इत्यमरः । तदपि मानसं मनस्संकल्पितमेव न तु क्रियया निर्वर्तितं यस्य स तथोक्तः । मानससरोजन्मेति वास्तवार्थः । पटुनिर्घोषेण पाञ्चजन्येन पञ्चजन्यानि युद्धानि सोढान्यस्य पाञ्चजन्यः । ‘तदस्य सोढम्’ इत्यर्थे प्राग्दीव्यतीयोऽण् । पञ्चसंख्याकयुद्धजेतेति यावत् । पक्षे–पाञ्चजन्यनाम्ना शङ्खेनेत्यर्थः । अत्राप्युभयोपादानं आर्थी चोपमा श्लेषश्च । अत्रोपमेयस्यापि श्लिष्टत्वं प्राथमिककोदाहरणाद्विशेषः ॥ यथावा--

 सन्तान उदारस्स्तान्नन्ता सस्स्यात्परं प्रतीपोपगमे । किं तादृशेन कैटभहन्ता तुल्योस्तु कस्यचिदनन्ताऽसौ ॥ ६६६ ॥

 सन्तानः देवतरुविशेषः उदारः अनुपाधिकनिर्देशेन सर्वमहान् स्तात् । सर्वमहान् भवतु चेद्भवतादित्यनादरे । दातेति तु वस्तुस्थितिः । ‘उदारो दातृमहतोः' इत्यमरः । परं परंतु प्रतीपानां प्रत्यर्थिनां उपगमे समीपगमने सः सन्तानः अत्रानुस्वारस्य “वा पदन्तस्य’ इति वैकल्पिकः परसवर्णो बोध्यः अर्थान्तरे शब्दानुरूप्याय । नन्ता नमनकर्ता स्यात् । साध्वसेन प्रणमेदित्यर्थः । तस्मादनुदार एवेति भावः । पक्षे-प्रतीपोपगमे वैपरीत्येन गतौ नन्तासः सन्तानशब्दो नन्तास इति स्यादित्यर्थः । प्राथमिकार्थे सस्स्यादित्यत्र द्वितीयसकारस्य ‘अनचि च' इति वा द्वित्वम् । अन्यथा तच्छब्दप्रथमैकवचनान्तस्य स इत्यस्य ‘एतत्तदोस्सुलोपः' इत्यादिना सुलोपेन सकारस्य तस्य द्वित्वायोगात् । तादृशेन प्रतीपनमनकर्ता कस्यचिदपि अनन्ता अनमनकर्ता, नमेस्तृच् । ‘नन्तव्यः परमश्शेषी' इत्युक्तरीत्या सर्वलोकनन्तव्यस्य तस्य नन्तव्यान्तरासंभवादिति भावः । अत्र ‘वृक्ष इव स्तब्धः' इति श्रुत्यर्थोऽनुसन्धेयः । असौ कैटभहन्ता तुल्योऽस्तु किं तुल्यो न भवेदेवेत्यर्थः । अत्र नन्तृत्वमुपमानापकर्षहेतुः । अनन्तृत्वमुपमेयोत्कर्षहेतुश्चेति द्वयमप्युपात्तम् । उपमा च तुल्यशब्दोपादानादार्थी । श्लेषस्तूपमानापकर्षमात्रे इति विशेषः ॥  तीव्रक्षार नदीन त्वं न समो माधवस्य सविशेषम् । अधरितशीर्षोऽपि भवन्न दीनरक्षाव्रती भवेर्यस्मात् ॥ ६५७ ॥

 तीव्रक्षार! अतिमात्रकटो! निर्दयेति यावत् । अतिमात्रलवणेति वस्तुस्थितिः । ‘तीव्रं कटूष्णात्यर्थेषु’ इति, ‘क्षारः काचे रसे गुडे । भस्मनि लवणे धूर्ते’ इति च हेमचन्द्रः । हे अतिधूर्तेति वा अर्थः । वस्तुस्थितिस्तु पूर्ववदेव । हे नदीन! सरित्पते ! त्वं माधवस्य श्रीनिवासस्य भगवतः न समः । यद्यपि नदीनस्त्वं तथाऽपि तीव्रक्षारत्वान्न तुल्य इति भावः । तत्र हेत्वन्तरं चाह- यस्मात् त्वं सविशेषं सातिशयं यथा तथा अधरितशीर्षः अधःकृतशिराः भवन्नपि दीनानां रक्षैव व्रतं तदस्यास्तीति दीनरलक्षाव्रती न भवेः । निर्घृणस्यातिधूर्तस्य वा दीनरक्षनणैकता न संभवेदिति भावः । पक्षे- नदीनशब्दः विशेष्यते भेद्यते अनेनेति विशेष, करणे घञ् । विशेषणमित्यर्थः । सविशेषं तीव्रक्षारेति विशेषणसहितं यथा स्यात्तथा अधरितशीर्षः प्रातिलोम्येन पठ्यमान इति यावत् ।नदीनरक्षाव्रतीत्यानुपूर्वीवान्भवतीत्यर्थः । अत्रोपमानापकर्षहेतुस्तीव्रक्षारत्वं नदीनरक्षाब्रतित्वं चोपात्तं, उपमेयोकर्षकत्वं तु निरवधिदयानिधित्वं सकृत्प्रपन्नजनतासंरक्षणैकव्रतित्वं च नोपात्तम् । उपमा चार्थी श्लेषश्च ॥

 यथावा--

 आदौ महितो विजितस्त्वदधरसुधया ततः करौ धून्वन् । मन्दो बभूव भार्गवि मकरन्दस्स तु समः कथं तस्याः ॥ ६५८ ॥


 हे भार्गवि ! मकरन्दः आदौ त्वदधरसुधासमभिव्याहाराभावदशायां महितः स्वादुतया पूजितः । अनन्तरं त्वदधरसुधया विजितः अत एव करौ हस्तौ धून्वन् कम्पयन्नित्यवमानानुभावकथनम् । मन्दः स्वादिमभाग्यविधुरः ‘मूढाल्पापटुनिर्भाग्या मन्दाः' इत्यमरः । पक्षे -आदौ महितः मः मकारः हितः निहितः यस्य स तथोक्तः । मकारविशिष्ट इत्यर्थः । ततः करौ ककाररेफौ धून्वन् विसृजन्निति यावत् । मकरन्दः मकरन्दशब्दः मन्दः बभूव उक्तशब्दो मध्यस्थकरवर्णविसर्जने मन्द इति निष्पद्यत इत्यर्थः । सुगममन्यत् । अत्रापि पूर्ववदुपमानापकर्षकधर्ममात्रोपादानं, आर्थी चोपमा श्लेषश्च ॥

 कल्याणकोटिनयनो वज्रसहस्रातिदीप्तिकरमूर्तिः। कथमिन्द्रेण समस्स्यात्प्रथमः पुरुषः पृदाकुगिरिनाथः ॥ ६६९ ॥

 कल्याणानि शुभानि कोटिसंख्याकानि नयनानि लोचनानि यस्य स तथोक्तः । पक्षे - कल्याणकोटीनां मङ्गळकोटीनां नयनः प्रापकः नीयते अनेनेति नयनः लोकानामिति शेषः । वज्राणाम् दम्भोळीनां सहस्रैः अतिशयिता दीप्तिर्यस्य तथाभूतः करो हस्तो यस्यां सा तथोक्ता मूर्तिः यस्य सः । अन्यत्र वज्रसहस्राणां हरिसहस्राणां दीप्तिं करोतीति दीप्तिकरी मूर्तिर्यस्य स तथोक्तः । मूर्तेः श्यामलतया वज्रसहस्राणामाभरणन्युप्तानां परभागलाभाद्दीप्तिकरत्वमिति भावः । अत्रोपमेयोत्कर्षकधर्ममात्रोपादानं, आर्थी चोपमा श्लेषश्च ॥  आक्षिप्ते औपम्ये यथा--

 विषहरणेन पिनाकिनमुज्जीवयता त्वयाऽच्युतानन्त । पीत्वा विषं विमुञ्चन् जीवनमम्भोधरः पराभूतः ॥ ६७९ ॥

 अच्युतानन्तेति संबुद्धिद्वयं विषहरणेन शिवोज्जीवयितृत्वसामर्थ्याभिप्रायगर्भम् ॥

अच्युतानन्तगोविन्दमन्त्रमानुष्टुभं परम् ।
ओं नमस्संपुटीकृत्य जपन्विषधरो हरः ॥

इति नामत्रयविधानोक्तेः । विषं पीत्वा जीवनं विमुञ्चन्निति योजना । अत्र इवादेस्सदृशादेश्च पदस्याभावात्पराभूतपदेनाक्षिप्तैवोपमा । विषहरणेनोज्जीवनमुपमेयोत्कर्षकं विषपानेन जीवनविमोचनमुपमानापकर्षकं चेत्युभयमुपात्तं श्लेषश्च स्फुटः ॥

 यथावा--

 अभियातिविपद्भुग्नः फणिराट्क्वचिदात्तभोगसंकोचः । धुतविपदा नित्योच्छ्रितभोगेन भुजेन स तव निर्धूतः ॥ ६७१ ॥

 हे भगवन्निति प्रकरणाल्लभ्यते । फणिराट् वासुकिः ‘वासुकिस्तु सर्पराजः' इत्यमरः । अभियातिनः विपक्षात् या विपत् विपत्तिः तया भुग्नः रुग्णः ‘रुग्णभुग्ने' इत्यमरः । अत एव क्वचित् आत्तः स्वीकृतः भोगस्य सुखस्य संकोचो येन स तथोक्तः । पक्षे—अभियातीति भिन्नं पदं तिङन्तम् । क्वचित् आत्तः भोगस्य फणस्य संकोचो येन स तथोक्तः । फणस्य सर्वदाऽप्यविस्तृतत्वादिति भावः । ‘भोगस्सुखे स्र्यादिभृतावहेश्च फणकाययोः' इत्यमरः । विपत् पद्भिर्विहीनः गूढपात्त्वात्तथोक्तिः 'पदङ्घ्रिः' इत्यमरः । भुग्नः कुटिलः । 'आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि' इत्यमरः । अभियाति अभितो गच्छति प्रसिद्धं हि तस्य जिंहगत्वम् । स्पष्टमन्यत् । अत्र विवद्भुग्नत्वक्वचिदात्तभोगत्वे उपमानापकर्षके । धुतविपत्त्वनित्योच्छ्रितभोगत्वे उपमेयोत्कर्षके च द्वेद्वे अभिहिते । श्लेषस्सभङ्गोऽभङ्गश्चेति विशेषः पूर्वस्मात् । आक्षिप्ता उपमा तु तुल्यैव ॥

 यथावा--

 निरवधिवैभवभूम्ना धनाधिपोऽधःकृतस्त्वया तदपि । नाधिगतं पान्तममुं नाधिपमेवाखिलेश्वर प्राहुः ॥ ६७२ ॥

 हे अखिलेश्वर! निरवधिर्वैभवभूमा प्राभवातिशयो यस्य तेन तथोक्तेन त्वया । धनाधिपः वैश्रवणः केवलधनिक इति भावः ।अधःकृतः तिरस्कृतः । धकारविधुरश्च कृतः । शब्दार्थयो स्तादात्म्यम् ! तदपि तथाऽपि आधिं मनोव्यथां गतः प्राप्ता न भवतीतेि नाधिगतः तं तथोक्तं नशब्देन समासः । अत एव पान्तं धनं रक्षन्तमित्यर्थः । नाधिपमेव अनधिपमेव अधनाधिपमेव अनीश्वरमेव वा आहुः । अवधीरितत्वेऽपि भगवता निरपत्रपतया अविगणय्य मनोव्यथामपि यथापुरमेव स्वधनाधिपताप्रख्यापनाय रक्षन्तमपि धनं जनास्तन्मर्माभिज्ञा अनधिपमेवाहुरिति भावः । पक्षे-नाधिगतं नाधी नाकारं धिकारं च गतं ‘द्वितीया श्रित' इत्यादिना समासः । पान्तं पकारः अन्ते यस्य तं तथोक्तं अमुं धनाधिपं नाधिपमेवाहुः । धनाधिपशब्दस्य धकारलोपे नाधीति वर्णद्वयसाहित्ये पकारान्तत्वे च नाधिप इत्येव निष्पत्तेः । अत्र अखिलेश्वरत्वनिरवधिवैभवभूमत्वे उपमेयोत्कर्षहेतू धनाधिपत्वनाधिपत्वे उपमानापकर्षहेतू पूर्ववदेवोपात्ते । अधःकृत इत्यनेनोपमाक्षेपः श्लेषोपि पूर्ववदेव । उपमाक्षेपके अधःकृत इति शब्देऽपि श्लेष इति तु विशेषः॥

 यथावा--

 त्वद्भुक्तशेषभोक्तुर्विशुद्धजननस्य तावकीनस्य हरे। सकलाद इति प्रथितस्सख्यायार्हः किमग्निरिन्दुर्वाऽपि ॥ ६७३ ॥

 हे हरे! त्वद्भुक्तशेषभोक्तुः त्वन्निवेदितशेषमेव भोक्तुः विशुद्धजननस्य पवित्रगोत्रस्य पवित्रजन्मन इति वा । तावकस्य त्वद्भक्तस्य सकलमत्तीति सकलादः । कर्मण्यण् । सर्वान्नीन इत्यर्थः। वस्तुतस्तु ‘यैः कृतस्सर्वभक्षोऽग्निः ’ ‘वह्नेस्सर्वभुजो यथा’ इत्याद्युक्तेस्सर्वभक्षक इत्यर्थः । अग्निः वह्निः, सः कलादः रुक्मकारक इत्यर्थः। ‘कलादो रुक्मकारकः' इत्यमरः । वास्तवार्थस्तु - कलाः आदत्ते भानोस्सकाशादिति कलादः । यद्वा- प्रथमां पिबते वह्निः' इत्याद्युक्तेः कृष्णपक्षे वह्न्यादिभ्यः कलाः दत्त इति कलादः । इन्दुश्चन्द्रो वाऽपि सख्यायार्हः किम् , नार्ह इत्यर्थः । अत्र भगवन्निवेदितैकभोजित्वस्य विशुद्धजननत्वस्य चोपमेयोत्कर्षकस्य उपमाभूतयोरग्नीन्द्वोर्यथासङ्ख्यं सर्वान्नीनत्वस्वर्णकारत्वयोरपकर्षकयोश्च श्लेषेणोपादानमिति विशेषः । उपमाक्षेपस्तु तुल्य एव ॥

 यथावा--

 योऽधश्शिराः पतन्नपि रसालपाकः कपाल- सारस्स्यात् । स तु सकलाधिकमधुरिम परिचरितुं वाऽम्ब तव वचो नेष्टे ॥ ६७४ ॥

 हे अम्ब ! रसालपाकः रसाल इक्षुविशेषः तत्पाकः गुडश्शर्करा वा । अधश्शिराः पतन्नपि त्वद्वचनसाम्यलाभायेति भावः । कपालस्य शिरोऽस्थ्नः घटशकलस्य वा सार इव सारो यस्य स तथोक्तः । तद्रसतुल्यरस एव स्यात् । अत्र सारशब्दो विपरीतलक्षणया असारपरः ।

अनर्थकमनायुष्यं गोविषाणस्य भक्षणम् ।
दन्ता अपि प्रमृज्यन्ते रसश्चापि न लभ्यते ॥

इति श्रीभारतोक्तन्यायेन नीरस एव भवेदिति भावः । 'कपालः कुष्ठरुग्भेदे घटादिशकले गणे । शिरोऽस्थानि' इति, ‘सारो मज्जास्थिरांशयोः । बले श्रेष्ठे च सारं तु द्रविणन्याय्यवारिषु' इति च हेमः । पक्षे- रसालपाकशब्दो विलोमपाठे कपालसार इति निष्पद्यत इत्यर्थः । स्पष्टमन्यत् । अत्र कपालसारत्वमुपमानापकर्षहेतुः सकलाधिकमधुरिमत्वमुपमेयोत्कर्षहेतुश्चोपात्तः । उपमाक्षेपश्च तुल्य एव । श्लेषस्तु विलोमपठितशब्दार्थतादात्म्यसंपादित इति विशेषः ॥

 उत्पलभुजो निकामं सत्पथभाजोऽपि किलमृगाङ्कस्य । मित्रं कथं नु भविता वक्त्रं भवतः पतत्रिवरकेतो ॥ ६७५ ॥

 उत्पलभुजः उद्भूतामिषभोक्तुः । पक्षे उत्पलानि कुवलयानि भुनक्ति पालयतीति तथोक्तस्य । स्पष्टमन्यत् । अत्रोत्पलभोक्तृत्वमुपमानापकर्षकारणमात्रमुपात्तं, न तु सकललोकपावनत्वमुपमेयोत्कर्षकारणम् । मित्रशब्दोपादानादाक्षिप्तैवोपमा । श्लेषस्तु व्यक्त एव ॥

 यथावा--

 अप्युल्लसन्तमन्तः पाद्यं कथितं जनेन वान्ततया । स्वजयार्थिनमब्धिसुते पल्लवमिह तव करस्तिरस्कुरुते ॥ ६७६ ॥

 हे अब्धिसुते! अन्तः उल्लसन्तं प्रकाशमानमपि न तु बहिरिति भावः । पक्षे—अन्तः मध्ये उत्कृष्टं यथा स्यात्तथा ल्लेन लकारसंयुक्तलकारेण सन्तं प्रशस्तम् । उच्छब्दतकारस्य ‘तोर्लि' इति लकारादेशे लकारत्रयश्रवणेन यद्यपि भाव्यम्, तथाऽपि 'हलो यमां यमि लोपः’ इति द्वितीयलकारस्य वैकल्पिकलोपाश्रयणेन लकारद्वयस्यैव श्रवणं, अर्थान्तरे द्विलकारकशब्दैकरूप्यायेत्यवधेयम् । पाद्यं पादार्थं पादसादृश्यार्हमेवेति यावत् । न तु करसादृश्यार्हमिति भावः । ‘पादार्घाभ्यां च' इति तादर्थ्ये यत् । पक्षे–पकारः आद्यो यस्य तं तथोक्तम् । जनेन पामरेणापि ‘जनो लोके महर्लोकात्परलोकेऽपि पामरे' इति मेदिनी । वान्ततया उद्गीर्णतया कथितं सकललोकबहिष्कृतमिति यावत् । पक्षे- वकारान्ततया कथितमित्यर्थः । पल्लवं किसलयं, पक्षे पल्लवशब्दम् । अन्यत्सुगमम् । अत्राप्युपमानापकर्षकमात्रोपादानम् । सा च श्लेषश्च । तस्य शब्दार्थतादात्म्यमूलकत्वं विशेषः ॥

 पङ्कविलोपनपटुनो वेङ्कटगिरिराजनाथनयनस्य। किङ्करतामपि कमलं संकलयितुमर्हतीति को ब्रूयात् ॥ ६७७ ॥

 अत्रोपमेयोत्कर्षकं पङ्कविलोपनपटुत्वमेवोपात्तं, उपमानापकर्षकं पङ्कदिग्धत्वं तु नोपात्तम् । किंकरतामित्यादिना उपमा आक्षिप्तैव । श्लेषश्च ॥

 यथावा--

 अत्युज्ज्वलतां विन्दसि या त्वं श्रीर्हरिकरावमर्शेन । तस्यास्तेऽम्ब हरिद्रा छात्रत्वं छाययाऽपि किं भजताम् ॥ ६७८ ॥

 हे अम्ब ! श्रीः ! या त्वं हरेः भानोः भगवतश्च कराणां किरणानां पाणीनां च अवमर्शेन अत्युज्ज्वलतां अतिदीप्तत्वं अतिमात्रशृङ्गाररसवत्त्वं च । विन्दसि ‘उज्ज्वलस्तु विकासिनि । शृङ्गारे विशदे दीप्ते’ इति हेमः । तस्याः ते हरिद्रा छाययाऽपि वर्णेनापि न तु गुणान्तरेणेति भावः । लेशतोऽपीत्यपि गम्यते । छात्रत्वं अन्तेवासित्वं भजतां किं, न भजेदेवेत्यर्थः । यद्वा-छायया छात्रत्वमपि भजतां किमिति योजना । तदपि भक्तुमनर्हं किमुत साम्यमिति भावः । अत्र हरिकरावमर्शहेतुकात्युज्ज्वलताभाक्त्वमुपमेयोत्कर्षकमात्रमुपात्तं, न तु हरिकरावमर्शहेतुकविच्छायत्वमुपमानापकर्षकम् । सा च श्लेषश्च ॥

 यथावा--

 लोकालोकातीतं नाविख्यातं न चामृतविशोषि । ब्रह्म ज्योतिस्तदिदं ब्रध्नो निध्यातुमपि किमीशीत ॥ ६७९ ॥  ज्योतिः ‘अथ यदतःपरो दिवो ज्योतिः' इति श्रुतनिरतिशयदीप्तियुक्तं ब्रह्म परं ब्रह्म लोकालोकं चक्रवाळाचलं अतीतं ‘द्वितीया श्रित’ इत्यादिना समासः सर्वव्यापीति भावः ! यद्वा- लोकानां जनानां आलोकं दर्शनं अतीतं अचक्षुर्ग्राह्यमित्यर्थः । 'न चक्षुषा गृह्यते । न तत्र चक्षुर्गच्छति । यत्तदद्रेश्यं । अदृश्येऽनात्म्ये' इत्यादिश्रुतेः। विख्यातं न भवतीत्यविख्यातं न, सकलजगत्कारणत्वादिना सर्ववेदान्तप्रथितमित्यर्थः । संभाव्यविख्यात्यभावप्रतिषेधाय नञ्द्वयम् । अमृतं निश्श्रेयसं विशोषयतीत्यमृतविशोषि च न न भवति ‘अमृतस्यैष सेतुः’ इति निश्श्रेयसप्रापकत्वश्रवणात् ‘एतदमृतम्’ इत्यादिभिरमृतत्वश्रवणाच्च । पक्षे--अविरिति ख्यातं जलविशोषि च नेत्यर्थः ‘अवयश्शैलमेषार्काः, अमृतं यज्ञशेषे स्यात्पीयूषे सलिले घृते’ इत्यमरमेदिन्यौ । तदिदं ज्योतीरूपं ब्रह्म ब्रद्नो भानुः निध्यातुं द्रष्टुमपि ईशीत किं नेशीतैवेति भावः । अत्र लोकालोकातीतत्वादिका उपमेयोत्कर्षहेतव एवोपात्ताः, न तु लोकालोकानतीतत्वाविख्यातत्वामृतविशोषित्वान्युपमानापकर्षहेतवः । श्लेषोपमाक्षेपौ च स्पष्टौ ॥

 इदमत्रावधेयं- इह श्लेषावलम्बिव्यतिरेकप्रभेदे उभयानुपादानेन उपमायाश्श्रौतीत्वार्थीत्वाक्षिप्तत्वप्रयुक्तभेदत्रितयं दुरुपपादम्। वैधर्म्यानुक्तौ किमवलम्बश्श्लेष उन्मिषेत् । न च यत्र द्विजराजरत्नाकरप्रभञ्जनमातरिश्वादिशब्दसमधिगम्येषूपमानोपमेयेषु स्वशब्दोपात्त एव श्लेषो व्यतिरेकोन्मेषकस्तत्रैव तदुदाहरणं सुपपादमिति वाच्यं, तत्र स्वशब्दवेद्यस्यैव वैधर्म्यस्य संभवात् । एवंच चतुर्विंशतिर्भेदा इति प्राचामुक्तिर्भूयिष्ठोदाहरणदर्शिभिर्यथाकथंचिदुपपादनीया । किंचात्रोपमाभेदास्सर्व एव सम्भवन्तीत्यलं चतुर्विंशतिभेदपरिगणनया ॥

 नन्वस्यालंकारस्य वैधर्म्यमूलकस्योपमाप्रतिकूलत्वमेवोचितं न तूपमागर्भत्वम्, तस्यास्साधर्म्यमूलकत्वात् । अस्य च तन्निषेधरूपेणैव प्रवृत्तेः, न चेष्टापत्तिः, सिद्धान्तभङ्गप्रसङ्गादिति चेत्- सत्यम्, यद्गुणपुरस्कारेण यस्य यत्सादृश्यनिषेध उत्कर्षपर्यवसायी तस्य तद्गुणपुरस्कारेण तत्सादृश्याप्रतिष्ठानेऽपि गुणान्तरेण सादृश्यप्रत्ययस्य दुर्वारत्वात् । यदि च तत्सादृश्यसामान्यनिषेधो विवक्षितस्स्यात्तर्हि गुणविशेषपुरस्कारो निरर्थकस्स्यात् । कुलेनायमस्मादधिक इत्युक्ते रूपेण वयसा विद्यया धनेन च सम इति सार्वलौकिकप्रत्ययात् । एवंच प्रतीयमानमपि सादृश्यं गुणान्तरकृतनिषेधोन्मिषितेनोत्कर्षेण निरस्तप्रभमिव निगळितमिव च प्रभवति न चमत्कृतिमाधातुमिति प्राचामाशयः ॥

 अत्रालंकारे क्वचिच्छाब्दसादृश्यनिषेधाक्षिप्तावुपमेयोत्कर्षोपमानापकर्षौ । क्वचिच्च शाब्देनोपमेयोत्कर्षेणाक्षिप्तावुपमानापकर्षसादृश्याभावौ । क्वचित्तादृशेनोपमापकर्षेणाक्षिप्तावुपमेयोत्कर्षतदभावौ चमत्कृतिजनकौ तथा । तत्राद्यः प्रकारः प्राचीनरीत्या सभेद उदाहृतः । द्वितीयतृतीयावपि प्रायशस्तावद्भेदावेव । तत्र दिङ्मात्रमुदाह्रियते-

 नित्यं प्रसन्नहृदयस्स त्वं श्रेयान्विधोर्मलिनहृदयात् । योगिध्येयात्त्वत्तो न्यूनस्स विधो वियोगितापकरः ॥ ६८० ॥  हे विधो ! हे विष्णो! इति संबुद्धिः । अत्र पूर्वार्धे उपमेयोत्कर्षश्शाब्दः । उपमानापकर्षसादृश्याभावावाक्षिप्तौ । द्वितीयार्धे उपमानापकर्षश्शाब्दः । उपमेयोत्कर्षसादृश्याभावावाक्षिप्तौ । एवं क्वचित् द्वयोस्त्रयाणां वा शाब्दत्वं संभवदपि नातीव रमणीयमिति नोदाह्रियत ॥

 क्वचित्त्रयमप्याक्षिप्तमेव-

 विपुलेऽस्मिन् भुवनतले व्यदधाद्रत्नाकरान्विधिस्सप्त । अवधिर्दृशोरसंख्यांस्तवाम्ब रत्नाकरान् सृजति लोकान् ॥ ६८१ ॥

 दृशोरवधिः कटाक्ष इत्यर्थः । विधेः भुवनतले सतैव रत्नाकरान् सिन्धून् व्यदधात् असृजत् । हे अम्ब ! तव कटाक्षस्तु असंख्याकान् लोकानेव रत्नाकरान् सिन्धून् सृजति उत्तमवस्तूनामाधारान् सृजतीति तु तत्त्वम् । सर्वविधसमृद्धिमतः कल्पयतीति भावः ॥

यथावा--

 गम्भीरोऽनुन्नतिभागम्बुधिरगभीर उन्नतो मेरुः। गम्भीरोन्नत एकः कुम्भीनसकुम्भिनीभृदवतंसः ॥

 भास्वान्भानुरशिशिरः प्रसन्न इन्दुस्सदाऽप्यनुष्ण इह । श्रीमान्सदा प्रसन्नस्स्वामी शिशिरोष्ण एक एव त्वम् ॥ ६८३ ॥

 शिशिरः शीतलः दयार्द्रश्च । उष्णः तीक्ष्णः दक्षश्च ‘उष्णो ग्रीष्मे पुमान्दक्षाशीतयोरन्यलिङ्गकः' इति मेदिनी । यद्वा-'तीक्ष्णश्चैव मृदुश्चैव राजा भवति सम्मतः’ इत्युक्तरीत्या नातिमृदुर्नातितीक्ष्णः । किंतु निग्रहानुग्रहशील इत्यर्थः । अन्यथा ‘तीक्ष्णादुद्विजते लोको मृदुर्हि परिभूयते’ इति केवलतैक्ष्ण्यमार्दवयोर्दोषस्मरणादिति भावः । स्पष्टमन्यत् ।

 यथावा--

 अन्तर्बहिरप्यमलस्त्वं चन्द्रोऽन्तर्मलीमसश्शौरे । त्वं ननु परमोदारस्स तु लुब्धशिरोमणिस्सरोजाक्ष ॥ ६८४ ॥

 निर्गर्जनममलीमसवदनः प्रददासि सदमृतं स्वामिन् । गर्जन्मलीमसमुखः पर्जन्यो वितरतीह विषमेव ॥ ६८५ ॥

 परिपक्वबन्धसमनःपरंपरां स्पर्शनेन पातयति । माधव एकोऽन्यस्तां प्रापयति स्वपदमेव तेनोच्चैः ॥ ६८६ ॥

 परिपक्वाः परिणताः विनाशोन्मुखाश्च बन्धाः वृन्तानि भ वबन्धाश्च यस्यास्तां तथोक्तां सुमनसां कुसुमानां विदुषां च परंपरां स्पर्शनेन मरुता अभयादिवितरणेन च ‘स्पर्शनो मारुते पुंसि दाने स्पर्शे नपुंसकम्' इति मेदिनी । एको माधवः वसन्तः पातयति अधो नयति । अन्यः माधवः भगवान् तां परिपक्वबन्धसुमनःपरंपरामित्यर्थः । तेन स्पर्शनेन उच्चैः उन्नतं पूज्यं च ‘महत्युच्चैः' इत्यमरः । स्वपदमेव स्वावस्थानतरुशाखास्थानमेव । पक्षे–परमं पदमेव प्रापयति ॥  जननि जनस्तावकजनसङ्गात्कुकुराधिनाथपदमयते । अन्योऽश्नुतेऽन्तरेणकरसंयोगात्कुक्कुराधिनाथपदम् ॥ ६८७ ॥

 हे जननि ! तावकजनसङ्गात् भागवतसंसर्गादित्यर्थः । जनः पामरोऽपीति भावः । कुकुराधिनाथस्य यदुकुलसार्वभौमस्य भगवतः पदं चरणं अयते प्रपन्नो भवतीत्यर्थः । यद्वा-भगवतस्स्थानं प्राप्नोतीत्यर्थ । अन्यः तावकजनातिरिक्तः जनः पामरः जनो लोके महर्लोकात्परलोकेऽपि पामरे’ इति मेदिनी । अन्तरे अन्तरङ्गे अणकानां गर्ह्याणां संयोगात् । ‘खेटगर्ह्याणकास्समाः' इत्यमरः । कुकुराणां शुनां ‘कुक्कुरो मृगदंशकः' इत्यमरः । अधिनाथः श्वक्रीडी कश्चिज्ज्नः यो हि—‘श्वक्रीडी श्येनजीवी च' इत्यादिस्मृतिभिर्हव्यकब्यानर्हतया निन्द्यते । तस्य पदं स्थानं चरणं वा अश्नुते प्राप्नोति गर्हितस्थानसेवी भवतीति भावः । पक्षे— अन्तरेणेति छेदः मध्ये इत्यर्थः । ‘अथान्तरेऽन्तरा । अन्तरेण च मध्ये स्युः ' इत्यमरः । कसंयोगात् कवर्णयोस्संयोगात् अज्भिरव्यवहिततयाऽवस्थानात् । कुक्कुराधिनाथपदं अश्नुते । कुकुराधिनाथपदस्यैव उक्तरीत्या मध्यगतककारस्य ककारान्तरेण संयुक्तत्वे कुक्कुराधिनाथपदतानिष्पत्तेरिति भावः । अत्र अन्तरेणेत्येतत्कुक्कुरशब्दमात्रकटाक्षेण, तथा सत्येव ककारसंयोगस्य मध्यस्थतासंभवात् । यद्वा- कुक्कुराधिनाथपदशब्दाभिप्रायेणैवास्तु, तस्मिंश्च शब्दे आद्यन्तवर्णयोर्मध्यवर्तितायाः रेफादीनामिव ककारस्यापि दुरपलपत्वादिति ध्येयम् ॥  इह कश्चिद्द्विजराजः पुरुषोत्तममन्तरे दधद्विमलः। मलिनोऽन्यो द्विजराजस्संततमप्यन्तरेणकं बिभ्रत् ॥ ६८८ ॥

 कश्चित् द्विजराजः अग्रजन्मनामग्रगण्यः । अन्तरे मनसि पुरुषोत्तमं दधत् ध्यायन्निति यावत् । विमलः निर्मलः । अन्यः द्विजराजः चन्द्रमाः अन्तरे अणकं गर्ह्यं यं कंचित् बिभ्रत् ध्यायन् मलिनः । अन्यत्र अन्तः स्वबिम्बमध्ये एणकं कुरङ्गं बिभ्रदित्यर्थः । एषूदाहरणेषूपमानतद्विशेषणोपादानसामर्थ्यादाक्षिप्त एव व्यतिरेकः, न तु व्यङ्ग्य इति जात्वपि भ्रमितव्यम् । सत्यनुपपत्तिलेशे व्यञ्जनाया अनुन्मेषात् । इह च भगवद्विशेषणानां यथाकथंचित्प्रशंसार्थत्वेऽप्युपमानतद्विशेषणोपादानस्य भगवदुत्कर्षमन्तरेणानुपपत्तेर्जागरूकत्वात् । यत्र तूपमानतद्विशेषणोपादानमन्तरेणैवोपमेयविशेषणैस्सुन्दरो देवदत्त इत्यादाविव वस्तुस्थितिप्रकाशनेन चरितार्थैरप्यभिप्रायविशेषेण स्वविलक्षणविशेषणविशिष्टधर्मन्तरापेक्षया वर्ण्यस्योत्कर्षः प्रतीयते स व्यञ्जनाविषयः ॥

 यथा--

 जगतां जीवनदाने शरदां शतकेऽपि नैषि नीरसताम् । न च पाण्डिमानमयसे कामपि धत्से श्रियं सदोपचिताम् ॥६८९॥

 शरदां शरदृतूनां वत्सराणां च । अयं वारिदाद्भगवतो व्यतिरेकध्वनिरर्थशक्तिमूलः ॥  अत्र रसगङ्गाधरकृत्--“यत्तूपमानादुपमेयस्य न्यूनत्वेऽपि व्यतिरेकः, वैलक्षण्यमात्रस्यैव व्यतिरेकत्वादित्यलंकारसर्वस्वकारोक्तमनुसरता कुवलयानन्दकृता न्यूनतायामुदाहृतं--

रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणैः
त्वामायान्ति शिलीमुखास्स्मरधनुर्मुक्तास्तथा मामपि ।
कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः
सर्वं तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥

अत्र सशोकत्वेनाशोकापेक्षयाऽपकर्षः पर्यवस्यतीति, तदपि चिन्त्यम् - रत्याद्यनुकूलतया कुतश्चिदङ्गाभूषणापसारणं यथा शोभाविशेषाय भवति, एवं प्रकृते उपमालंकाराद्दूरीकरणमात्रमेव रसानुगुणतया रमणीयम्, न व्यतिरेकः । अत एवासमालंकारं प्राञ्चो न बहुमन्वते । अन्यथा तवालंकारान्तरतया तत्स्वीकारापत्तेः । यथा--

भुवनत्रितयेऽपि भानवैः परिपूर्णे विबुधैश्च दानवैः ।
न भविष्यति नास्ति नाभवन्नृप यस्ते भजते तुलापदम् ॥

इति । अत एव ध्वनिकृता सहृदयधुरन्धरेण ‘सुकविस्तु रसानुसारेण क्वचिदलंकारसंयोगं क्वचिदलंकारवियोगं च कुर्यात् इत्युक्त्वा ‘रक्तस्त्वं’ इति पद्यं सादृश्यदूरीकरणे उदाजह्रे'। अत एव च मम्मटभट्टैः ‘ आधिक्यमात्रं व्यतिरेकः’ इत्युक्तम् , निरस्तं च न्यूनत्वं व्यतिरेके । तस्मादुपमानादुपमेयस्योत्कर्ष एव व्यतिरेकालंकारः नापकर्ष इति स्थितम् । यदि तु न्यूनत्वमपि व्यतिरेक इत्याग्रहः तदेदमुदाहार्यम्-

जगत्त्रयत्राणधृतव्रतस्य क्षमातलं केवलमेव रक्षन् ।
कथं समारोहसि हन्त राजन्सहस्रनेत्रस्य तुलां द्विनेत्रः ॥

अत्र धर्मद्वयेनैव न्यूनोऽसि धर्मान्तरेण तु सम इति प्रतीतिकृतविच्छित्तिविशेषादलंकारता । एवंच लक्षणे अपकर्षोऽप्येवं

जातीयो देयः ॥

 यदपि कुवलयानन्दकृताऽनुभवपर्यवसायिनो व्यतिरेकस्योदाहरणमुक्तम्-

दृढतरनिबद्धमुष्टेः कोशनिषण्णस्य सहजमलिनस्य ।
कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥

इति, तन्निपुणं न नीरीक्षितमायुष्मता । तथाहि-किमत्रोपमानादुत्कर्षरूपो व्यतिरेकोऽनुभवपर्यवसायी ? आहोस्वित्सर्वस्वकाराद्युक्तदिशा अपकर्षरूपः ? नाद्यः -उत्कर्षप्रयोजकधर्मस्यात्रानुपस्थितेः न च श्लेषेण दीर्घाक्षरस्योपस्थितिरस्त्येवेति वाच्यम्, तस्योपमानवृत्तित्वेनोपमेयानुत्कर्षकत्वात् । अर्थान्तरेणाकृतिरूपेण सह श्लेषमूलकाभेदाध्यवसायेन साधारणीकरणाच्च । अन्यथा श्लेषमूलकोपमोच्छेदापत्तेः । सुधांशुबिम्बमिव नगरं सकलकलमित्यादावपि कलकलसहितत्वकलासाकल्ययोर्वस्तुतो वैधर्म्यरूपत्वात् । न च सकलकलमित्यत्रोपमायामेव कवेर्निर्भरः प्रकृते तु भेदशब्दोक्त्या वैलक्षण्ये स इति भ्रमितव्यम् । यद्यत्रोपमाविघटनरूपो व्यतिरेको निर्भरसहस्स्यात् आकाशब्दश्लेषोऽनर्थकस्स्यात् । कृपणस्य कृपाणस्य च भेदो दीर्घाक्षरादेवेत्येव ब्रूयात् । न ह्यत्र व्यतिरेके श्लेषोऽनुकूलः । प्रत्युत प्रतिकूल एव । उपमायां पुनरनुकूलः । प्रतिकूलस्य दीर्घाक्षररूपवैधर्म्यस्य साधारणीकरणात् आकृतिभेदस्य चोपमानोपमेययोरपि सत्त्वात् । एवं हि कवेराशयः—'कृपणकृपाणयोस्तुल्यतैव, दृढतरेत्यादिविशेषणसाम्यात् । अक्षरभेदस्त्वाकारभेदत्वादविरुद्ध एव’ इति सहृदयैराकलनीयम् । न द्वितीयः तस्योक्तिमात्रेणाप्यसंगतेः, अहृद्यत्वाच्च । तस्मादत्र गम्योपमैव सुप्रतिष्ठितेत्यास्तां तावत्कूटकार्षापणोद्घाटनम् । प्रकृतमनुसरामः” इत्यभाणीत् । एवंचैतन्मते प्रागस्मत्प्रदर्शितान्यनुभयव्यतिरेकोदाहरणानि यथायोगमनेनैव पथा नेयानि ॥

 न्यूनव्यतिरेकोदाहरणं त्वेवम्--

 अखिलजगच्छेषित्वं तस्य तवैकोनसर्वशेषित्वम् । आरोहसि तेन तुलां जगत्सवित्रा जगत्सवित्रि कथम् ॥ ६९० ॥

 इदं तु चिन्तनीयम्-उपमेयाधिक्यपर्यवसायी तन्न्यूनत्वपर्यवसायी अनुभयपर्यवसायी चेति व्यतिरेकस्त्रेधा विभक्तः कुवलयानन्दे । तत्र अनुभवपर्यवसायीति पाठस्तु लेखकस्खलनकृतः । अनुभयताद्रूप्यरूपकादिवदनुभयपर्यवसायित्वेनैव व्यतिरेकतृतीयप्रभेदस्य कर्तुमुचितत्वात् । उदाहरणेऽपि ‘दृढतरनिबद्धमुष्टेः' इत्यत्र उपमेयाधिक्यतन्न्यूनत्वोभयपर्यवसानराहित्यस्यैव स्पष्टं दर्शनात् । रसगङ्गाधरकारस्तु अनुभवपर्यवसायीत्येव कुवलयानन्दपाठं मन्वानः व्यतिरेकस्योत्कर्षापकर्षान्यतररूपतामध्यवस्यन् कुवलयानन्दप्रदर्शितं तृतीयप्रभेदोदाहरणमदूदुषत् । उपदर्शिते अनुभयपर्यवसायीति पाठे तु सर्वमिदं तदुक्तदूषणमलग्नकमेव । किंच- व्यतिरेकस्योत्कर्षापकर्षान्यतररूपतया कुवलयानन्दकृद्विवक्षितत्वे तस्य उपमेयोत्कर्षपर्यवसायित्वेन तन्न्यूनत्वपर्यवसायित्वेन च विभजनमेव नोपपद्येत । उत्कर्षरूपस्य व्यतिरेकस्य उत्कर्षपर्यवसायित्ववाचोयुक्तेरयुक्तत्वात् । तस्माद्वैधर्म्यमात्रमेव व्यतिरेकः । स च उपमेयोत्कर्षपर्यवसायी तन्न्यूनत्वपर्यवसायी उपमेयोत्कर्षतन्न्यूनत्वोभयपर्यवसानरहितश्चेति त्रिविध इत्येव हि कुवलयानन्दकृदाशयः । एतत्सर्वमभिप्रेत्यैव चन्द्रिकायां वैद्यनाथः— ‘किंचिद्धर्मप्रयुक्तसाम्यवत्तया प्रतीयमानयोः किंचिद्धर्मप्रयुक्तवैलक्षण्यं व्यतिरेकशरीरम् । वैलक्षण्यं तु क्वचिदुपमेयस्योत्कर्षे क्वचिच्च तदपकर्षे पर्यवसन्नम् । क्वचित्तु तदन्यतरपर्यवसानविरहेऽपि स्ववैचित्र्यमात्रविश्रान्तमिति बोध्यम् । एतेन चरमभेदद्वयतदुदाहरणदूषणं कस्यचिदापातरमणीयमिव भासमानं प्रत्युक्तमिति वेदितव्यम् । अत्यन्तासारतया तु नानुवादमर्हतीत्युपरम्यते' इत्यवादीत् ॥

 अलंकारान्तरोत्तम्भितोऽप्ययं संभवति । यथा—

 वृक्षं परिष्वजेते सयुजौ सुहृदौ समं सुपर्णौ द्वौ । एकस्स्वाद्वत्त्यनयोः पिप्पलमन्योऽभिचाकशीत्यनदन् ॥ ६९१ ॥

 इदं पद्यं-

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥

इति श्रुत्यर्थानुवादि । ‘युज्यत इति युक् । युक्छब्दो गुणपरः समानगुणकस्सयुगिति व्यासार्यैर्विवृतत्वात् । सयुजौ समानगुणकौ अपहतपाप्मत्वादिगुणैः परस्परसमानौ । सखायौ सहचरौ द्वौ सुपर्णौ पक्षिसदृशौ । समानं एकं वृक्षं वृक्षवच्छेदनार्हं शरीरं समाश्रितावित्यर्थः । तयोर्मध्ये अन्यतरो जीवः स्वादु परिपक्वं पिप्पलं कर्मफलं भुङ्क्ते । अन्यस्तु परमात्मा अभुञ्जान एव प्रकाशते’ इति रङ्गरामानुजमुनयः । अयं रूपकातिशयोक्त्युत्तम्भितः । एवं यथायोगमलंकारान्तरसंकीर्णता द्रष्टव्या ॥  अस्य चालंकारस्य सादृश्यगर्भत्वात्सादृश्यस्य च त्रिविधधर्मोन्मीलितत्वादत्रापि तत्प्रकारानुगमोऽनुसन्धेयः ॥

 तत्रानुगामिनि धर्मे यथा—

 आशंसनीयमखिलैरास्वाद्यं चामृतं जडध्युदितम् । अजडध्युदितं ललितं चरितं भवतो हरे पराकुरुते ।।६९२॥

 जडधीभिः मन्दमतिभिः उदितं उक्तम् । जलधावुत्पन्नमिति वस्तुस्थितिः । अजडधीभिः सूक्ष्ममतिभिः उदितं उक्तं जलधावनुद्भूतं च । अत्राशंसनीयत्वास्वाद्यत्वललितत्वान्यनुगामिनो धर्माः । श्लेषोपात्ते जडध्यजडध्युदितत्वे अपकर्षोत्कर्षहेतू ॥

 बिम्बप्रतिबिम्बभावापन्ने यथा-

 परिचितमुक्ताहारः कण्ठः कण्ठीरवाद्रिपतिदयिते । परिगतपयःपयोनिधितरङ्गमपहसति कम्बुमम्ब तव ॥ ६९३ ॥

 अत्र मुक्ताहारदुग्धोदतरङ्गयोर्बिम्बप्रतिबिम्बभावः परिचितपरिगतयोश्शुद्धसामान्यता ॥

 एवं सादृश्यालीढो व्यतिरेको निरूपितः । अभेदालीढोऽप्येष संभवति । यथा—

 निर्धूतपलाशकुलो नाथ विशालेक्षणो विधुतकलिकः । भजसि सदानन्दनतां मन्दारस्त्वमिति कथमिव वदेम ॥ ६९४ ॥  निर्धूतं पलाशानां पत्राणां क्रव्यादानां च कुलं येन स तथोक्तः । शालानां शाखानां ईक्षणं दर्शनं तद्विगतं यस्य स विशालेक्षणः । शाखावलोकनमप्यस्य नास्ति किमुत तत्परिष्कृतत्वमिति भावः । ‘शाखाशाले' इत्यमरः । अन्यत्र विपुलनयनः । विधुताः कलिकाः कोरकाः येन । पक्षे विधुतः कलिर्येन स तथोक्तः, परास्तकलिदोष इति यावत् । ‘कलिमलसंहतिकालनोऽखिलेशः' इत्याद्युक्तेः । ‘शेषाद्विभाषा' इति कप् ! सदा अनन्दनतां नन्दनवनसंबन्धवैघुर्यं, पक्षे आनन्दयतीत्यानन्दनः सतामानन्दनः सदानन्दनः तस्य भावं भजसि। एवं सति कथं त्वां मन्दार इति वदेम ॥

इत्यलंकारमणिहारे व्यतिरेकसरो द्वाविंशः.