सामग्री पर जाएँ

अलङ्कारमणिहारः (भागः १)/सहोक्त्यलंकारसरः (२३)

विकिस्रोतः तः
               




   

 अथ सहोक्त्यलंकारसरः--

गुणप्रधानताभाजोरर्थयोरुभयोर्यदा । वर्ण्यस्सहार्थसंबन्धस्सहोक्तिं तां तदा विदुः ॥

 गुणप्रधानभावावच्छिन्नयोरर्थयोः सहार्थसंबन्धस्सहोक्तिः । इयमपि भेदप्राधान्य एव । गुणप्रधानभावनिबन्धनमत्र भेदप्राधान्यम् । सहार्थप्रयुक्तश्च गुणप्रधानभावः ‘सहयुक्तेऽप्रधाने' इत्यनुशासनात् । उपमानोपमेयत्वं चात्र वैवक्षिकम् । द्वयोरपि प्राकरणिकत्वादप्राकरणिकत्वाद्वा । सहार्थबलाद्धि तयोस्तुल्यकक्ष्यत्वं, अतुल्यकक्ष्ययोरुपमानोपमेयभावायोगात् । तत्र च तृतीयान्तस्य नियमेन गुणत्वादुपमानत्वम् । अर्थात्परिशिष्टस्योपमेयत्वम् । गुणप्रधानभावोऽप्यत्र शाब्द एव, न त्वार्थः वस्तुतो विपर्ययस्यापि संभवात् । साहित्यं चात्र कर्त्रादिनाना भेदमिति ध्येयम् । हृद्यत्वं चालंकारसामान्यलक्षणागतं सर्वालंकारसाधारणमेव । तच्चात्र कार्यकारणपौर्वापर्यविपर्ययात्मिकया श्लेषभित्तिकाभेदाध्यवसानात्मिकया केवलाभेदाध्यवसानात्मिकया चातिशयोक्त्याऽनुप्राणने भवतीति वदन्ति ॥

 यांस्त्वं पश्यसि तेषां विकसन्ति समं मुखानि च सुखानि । अरयो निरयाश्च समं सरयं दूरीभवन्ति मुरवैरिन् ॥ ६९५ ॥

इति तुल्ययोगितादावतिप्रसङ्गवारणायावच्छिन्नयोरित्यन्तम्। तत्र हि द्वयोरपि प्रधानयोरेव सहार्थसंबन्धः । इह तु सहशब्दयोगिनोऽ प्रधानत्वनियमाद्गुणप्रधानभावावच्छिन्नयोरेवार्थयोस्सहार्थसंबन्ध इति नातिप्रसङ्गः ॥

यथा—

 दशवदनादिमकदनैर्विशकलितं सकललोकम- विविषता । भूमेर्भारेण समं भवता भगवन् जवादवातारि ॥ ६९६ ॥

अविविषता अवितुमिच्छता । अत्र भगवदवतारकार्यस्य भूभारावतरणस्य पौर्वापर्यविपर्ययानुप्राणितस्सहभावः ॥

यथावा—

 पावनतावकपदयुगसेवनसंस्फीतकौतुका लोकाः । सिंहाचलेन साकं सिंहासनमच्युताधिरोहन्ति ॥ ६९७ ॥  पूर्वं कर्तुस्सहोक्तिः । इह तु कर्मणः । सिंहाचलश्शेषाद्रिः । अत्रापि सिंहाचलारोहणकार्यस्य सिंहासनारोहणस्य पौर्वापर्यविपर्ययेणानुप्राणितस्सहभावः । कारणं हि नियतपूर्वकालवृत्ति कार्यं त्वपरकालवृत्ति तयोस्तुल्यकालत्वेनोक्तिरपि तद्विपर्यय एवेत्यवधेयम् ॥

 त्वत्पाञ्चजन्यनिनदे ननु देव विसृत्वरे यथाऽभीष्टम् । अमरीवदनाब्जैस्सममसुरीवदनाम्बुजानि विदळन्ति ॥ ६९८ ॥

 अमरीवदनाब्जनि विदळन्ति विकसन्ति । असुरीवदनाम्बुजानि तु विदळन्ति विगतानि दळानि येषां तानीवाचरन्ति निर्दळकमलानीव शोभाविकलानीति भावः । अत्र विदळन्तीति श्लेषेणाभेदाध्यवसितिः ॥

 यथावा—

 कृतिनां तव चरितानि श्रुतिसृतिजङ्गालतां प्रपन्नानि । दुरितैस्सह हृदयान्यपि परितश्श्रीनाथ धावयन्ति तराम् ॥६९९ ॥

 अत्र द्रावणशोधनयोर्धावयन्तीति शब्दगतश्लेषेणाभेदाध्यवसितिः । पूर्वा कर्तृसहोक्तिः । इयं तु कर्मसहोक्तिः ॥

 यथावा—

 आर्तेभरवश्रवणे नक्रेण समं त्वयोद्धृतं चक्रम्। तेनैव सह स मुक्तस्त्वत्तः प्रकृतौ हि न च भिदाऽस्त्यनयोः ॥७०० ॥  उद्धृतं उत्क्षिप्तं उन्मूलितश्चेति लिङ्गविपरिणामेन योज्यम्। तेनैव चक्रेणैव सह नक्रः त्वत्तः त्वत्सकाशात् मुक्तः त्यक्तः 'अपेतापोढमुक्त’ इति समासविधानात् ज्ञापकात्पञ्चमी । पक्षे- देवलशापान्मुक्त इत्यर्थः । ‘मुक्तो देवलशापेन हूहूर्गन्धर्वसत्तमः' इति श्रीभागवतोक्तेः । नक्रचक्रयोस्तुल्यतयोद्धरणमोचने कथमित्यत आह- प्रकृतावित्यादि । हि यस्मात् अनयोः नक्रचक्रयोः प्रकृतौ स्वभवे न च भिदा नैव भेदोऽस्ति तस्मादुद्धरणमोचनतौल्यमनयोर्युक्तमिति भावः । पक्षे –अनयोः नक्रचक्रशब्दयोः प्रकृतौ नक्रचक्रेत्याकारके प्रत्ययविधावुद्देश्यभूते शब्दरूपे नचभिदा नकारचकाराभ्यामेव भेदः क्रेत्याकारकवर्णस्योभयत्र तुल्यत्वात् । स्वादौ प्रत्यये पुंनपुंसकलिङ्गयोरनयोश्शब्दयोः विसर्गानुस्वारादिकृतचैलक्षण्यसद्भावेऽपि प्रकृतिमात्रे नकारचकारमात्रकृतं वैलक्षण्यमिति भावः । इयमपि कर्मसहोक्तिः श्लेषभित्तिकाभेदाध्यवसायमूला । अत्र कार्यकारणपौर्वापर्यविपर्ययलक्षणातिशयोक्तिसद्भावेऽपि श्लेषमूलकाभेदाध्यवसितेरेव चमत्कारातिशयाधायकत्वम् । अत्र पूर्वार्धे नक्रचक्रयोर्गुणप्रधानभावः । उत्तरार्धे चक्रनक्रयोस्स इति वैपरीत्यं च विशेषः ॥

 शुद्धश्लेषभित्तिकाभेदाध्यवसायमूला यथा—

 निरवधिकरुणानिधिना भवता भवतापतो नतानवता । इष्टेन सहानिष्टं निरस्तमारचि समस्तमपि भगवन् ॥ ७०१ ॥

 इष्टेन अभीप्सितार्थेन सह अनिष्टमशुभं निरस्तमारचि । इष्टपक्षे निर्गतं अस्तं अदर्शनं यस्य तत् निरस्तम् । अस्तमिति मान्तमव्ययं, तेन सह बहुव्रीहिः। ‘अस्तमदर्शने' इत्य व्ययेष्वमर । अनस्तंगतं प्रकाशमानमेवाकारीत्यर्थः । अनिष्टपक्षे निरस्तं प्रक्षिप्तं नाशितमित्यर्थः । अत्र निरस्तमिति श्लेषेणैव भेदाध्यवसायः, न त्वन्यप्रकारेण । अत्रापि कर्मसाहित्यमेव ॥

 न्यपतन् शिरांस्यरीणां मुरारिबाणैस्सहारिनारीणाम् । अश्रुझरैस्सातङ्कैस्ताटङ्कैस्सुरसुमैश्च विजयाङ्कैः ॥ ७०२ ॥

 विजयाङ्कैः विजयचिह्नभूतैरित्यर्थः । अत्र निपतनस्य बाणाद्याश्रयभेदेन भिदुरस्यापि च्युतत्वरूपैकोपाध्यवच्छिन्नतया अभिदुरीकृतस्योपादानमित्यस्यैकक्रियासंबन्धः । अत एव न श्लेषः तस्य प्रतिपाद्यतावच्छेदकभेद एवाभ्युपगमात् । एषूदाहरणेषु सहयोगतृतीयाप्रयुक्तो गुणप्रधानभावः । प्राधान्येन क्रियान्वये तु यथायथं तुल्ययोगिता दीपकं वा भवति । सहादिशब्दप्रयोगेण विनाऽपीयं संभवति ‘वृद्धो यूना’ इति निर्देशेन तृतीयाया निष्प्रत्यूहप्रसरत्वात् । परंत्विवादिशब्दप्रयोगविधुरोत्प्रेक्षावद्गम्या । अप्रधानभावस्तु शाब्द एव । यद्यपि प्रकृतत्वाप्रकृतत्वे प्रायेणोपमेयोपमानतयोर्निर्णायके । तथाऽपीह न ताभ्यां तयोर्निर्णयः, प्रकृतयोरपि साहित्यसंभवात् । किंतु प्राधान्याप्राधान्याभ्यामेव । हृद्यत्वं चास्या अतिशयोक्तिकृतमित्यवोचाम । यत्र तु सा नास्ति तत्र ‘पुत्रेण सहागतः पिता'--

 नाकं परेण भान्तं लोकं परमं विहाय दिव्यं तम् । लोकंपृणस्स भगवान् साकं लक्ष्म्यैव विहरति वृषाद्रौ ॥ ७०३ ॥  इत्यादौ न सहोक्तिरलंकारः । लोकं पृणति प्रीणयतीति लोकंपृणः । पृणतिः प्रीणनार्थकः । अस्मान्मूलविभुजादित्वात्कः । ‘लोकस्य पृणे’ इति मुमागमः ॥

 अत्र विचार्यते –‘दशवदनादिमकदनैः’ इत्यादौ पौर्वापर्यविपर्ययानुप्राणिता सहोक्तिरलंकार इति न युक्तम् । अतिशयोक्तेरेवात्र चमत्कारावहत्वेन सहोक्तेस्संज्ञामात्रत्वात् । 'तव कोपोऽरिनाशश्च जायते युगपन्नृप' इत्यस्मादतिशयोक्त्यलंकारात् ‘तव कोपोऽरिनाशेन सहैव नृप जयते' इत्यत्र गुणभावमात्रप्रयुक्ते सत्यपि वैजात्ये विच्छित्तिविशेषस्यादर्शनात्तस्यैव चालंकारविभाजकत्वात् । न च सादृश्यानुप्राणितस्य रूपकादेरप्यपार्थक्यापत्तिः, ‘नवनीरदसदृशोऽसौ, एष नवीनाम्बुदस्साक्षात्’ इत्यादौ विच्छित्तिवैलक्षण्यस्य जागरूकत्वात् । अन्यथा सादृश्यप्रयुक्तस्य व्यतिरेकस्यानुत्थानापत्तेः । अपिच सादृश्यप्रयुक्तरूपकादिषु सादृश्यस्य गुणभावाच्चमत्कारविश्रान्तिभूमिभ्यो रूपकादिभ्यो यथा न पृथग्व्यपदेश्यत्वं तथा सहभावोक्त्युन्मीलितायाः कार्यकारणपौर्वापर्यविपर्ययात्मिकाया अतिशयोक्तेस्सकाशादस्यास्सहोक्तेरपार्थक्यमेवोचितम् । नन्वेवं सति निर्विषयतैव स्यात्सहोक्तेः, सहोक्त्यन्तरस्याप्यभेदाध्यवसानरूपातिशयेन कबळीकारादिति चेन्न-अभेदाध्यवसानमूलायां हि सहोक्तौ अभेदाध्यवसानेनोपस्क्रियते सहोक्तिरिति 'न गुणेन तिरस्कारः प्रधानस्य अपितु प्रधानेन गुणस्य' इत्युक्तदिशा लब्धावकाशैव सहोक्तिः । गुणप्रधानभावश्चानाग्रहैस्सूक्ष्मया दृशाऽवधातव्यः । किंच परस्पराभेदाध्यवसानमात्रमतिशय एव । नातिशयोक्तिः, तस्य श्लेषादावपि सत्त्वात् । सा तूपमानेन विषयस्य निगरणम् । एवंच ‘विदळन्ति, न्यपतन्' इत्यादवेकेनापरस्य निगरणाभावान्नातिशयोक्तिगन्धोऽपि। अतिशयमात्रं तु प्रायेण साधारणधर्मांशे भूयसामुपस्करोत्यलंकाराणाम् । न हि 'शोभते पद्मवन्मुखम्’ इत्यादौ पद्ममुखशोभयोर्वस्तुतो भिन्नयोरभेदाध्यवसानमन्तरेणोपमा प्रकाशते । तस्मात्कार्यकारणपौर्वापर्यविपर्ययमूलस्सहोक्तेरेकः प्रकार इति सर्वस्वकारादीनामुक्तिराग्रहमूलैव । अभेदाध्यवसानमूलस्तु प्रकारो भवतु नाम सहोक्तेर्विषयः । यदि तु दीपके तुल्ययोगितायां चोपमानोपमेययोः प्राधान्येन क्रियादिरूपधर्मान्वयः, इह तु गुणप्रधानभावेनैवेति विशेषस्सन्नपि विच्छित्तिविशेषानाधायकतया नालंकारान्तरत्वप्रयोजकः अपितु तदवान्तरभेदताया इति विभाव्यते, अपास्यते च जरदालंकारिकवदनावलोकनदाक्षिण्यं, तदा निविशतामियमपि क्लृप्तालंकारेष्वेव । किंचिद्वैलक्षण्यमात्रेणैवालंकारभेदे वचनभङ्गीनामानन्त्यादलंकारानन्त्यप्रसङ्गादिति । सत्यं,-गुणप्रधानभावालिङ्गितस्य सहभावस्यालंकारान्तराद्विच्छित्तिविशेषमनुभवन्तः प्राचीना एव सहोक्तेः पृथगलंकारतायां प्रमाणं, अन्यथा एवंजातीयोपप्लवेन भूयसी स्याद्वैयाकुली । नैव प्रमाणीकुर्महे वयं मृषानिमीलितलोचनान्प्राचीनान्, निवेश्यतां चेयमलंकारान्तरान्तःपुरकारागृहं वराकीति तु प्रभुतैव, न तु सहृदयतेत्यलं दूरधावनेन ॥

 एवं क्रियायास्साधारणधर्मतायामुदाहरणानि दर्शितानि । गुणस्य तथात्वे यथा-

 भुवनाधिप तव नाभ्या सह मानसमप्युपैति गाम्भीर्यम् । अंसैस्सह महिमाऽपि च कंसरिपो मांसलैर्महौन्नत्यम् ॥ ७०४ ॥  अत्र यद्यपि क्रियाऽपि गुणेन सह समानधर्मतामश्नुते । तथाऽपि तस्याः नान्तरीयकत्वेनासुन्दरत्वात्पर्यवसाने गुणस्यैव समग्रभारसहिष्णुत्वम् । अत्र गाम्भीर्यौन्नत्ययोराश्रयभेदभिन्नयोरभेदाध्यत्रसानेन सहभावः । एवं श्लेषेऽपि बोध्यम् । यत्र चैकमेवोपमेयं परस्परविलक्षणसहोक्त्यालम्बनं सा मालातुल्यतया मालासहोक्तिः 'न्यपतन् शिरांस्यरीणाम्' इत्यत्र मुरारिबाणैस्सह अरिनारीणामश्रुझरैस्सह ताटङ्कैस्सह सुरसुमैस्सहेत्युपमानभेदेन साहित्यस्यानेकत्वेऽपि निपतनैक्यात्सहोक्तेरभेदः । सति वा यथाकथंचिद्भेदे नास्ति वैलक्षण्यम्, धर्मैक्यात् । धर्मोपमानोभयकृतवैलक्षण्यस्य चात्र विवक्षितत्वात् ।

 मथनोच्चलकलशाम्बुधिकणैस्सहामरसुमैश्च विसरन्तः । पद्माक्षे निपतन्तः पान्तु कटाक्षाः पयोधिकन्यायाः ॥ ७०५ ॥

 इत्यत्र धर्मवैलक्षण्यसद्भावेऽपि विसरणधर्मोन्मीलितसहोक्तिघटकोपमानभूतानां कलशाम्बुधिकणामरसुमानामेव निपतनधर्मोत्तम्भितायामपि सहोक्तौ घटकत्वान्न मालारूपता । अत्र पयोधिकन्याया इति विशेष्यं कटाक्षाणां क्षीरोदन्वदवतारकालिकत्वं ध्वनयितुम् ॥

 इदं तूदाहरणम्-

 भाग्यैस्सममुन्मिषितं जगतां सार्धं विजृम्भितं विभवैः । सह विस्मयैरमान्तं धन्याः फणिगिरिपतेर्महं यान्ति ॥ ७०६ ॥

 अत्रोन्मिषितत्वादिधर्माणां भाग्याद्युपमानानां च वैलक्षण्याढु पमेयस्य श्रीनिवासोत्सवस्यैकत्वाच्च सहोक्तेर्मालारूपतेति ध्येयम्॥  शोणोरुषा व्यरचि दृक्कोणेन समं दशास्यकायश्च । बाणेन सहामुष्य प्राणोऽप्युदधारि रघुपते भवता ॥ ७०७ ॥

 हे रघुपते ! भवता दृक्कोणेन समं दशास्यकायश्च रुषा शोणो व्यरचि । पक्षे- अरुषेति छेदः । दृक्कोणः रुषा शोणः दशस्यकायः अरुषा व्रणेन शोणः लोहितः व्यरचीत्यर्थः । 'व्रणोऽस्त्रियामीर्ममरुः' इत्यमरः । बाणेन सह अमुष्य दशस्यस्य प्राणः पञ्चवृत्तिर्मुख्यप्राणोपि उदधारि बाण उत्क्षिप्तः प्राण उन्मूलित इत्यर्थः । उत्पूर्वकस्य धरतेरुपपादितोभयार्थशक्तत्वात् । 'स्यादुद्धरणमुन्नये । भुक्तोज्झितोन्मूलनयोः' इति हेमचन्द्रः । अत्र द्वयोरेव परस्परविलक्षणसहोक्त्योस्सद्भावेऽपि मालात्वमस्त्येव । एवमपि रसगङ्गाधरादौ मालासहोक्तेरुदाहरणात् । पूर्वार्धे गुणसाहित्यं उत्तरार्धे क्रियासाहित्यं श्लेषमूलातिशयोक्त्या पोर्वापर्यविपर्ययात्मकातिशयोक्त्या चानुप्राणितम् । पूर्वोदाहरणे तु अनु गामिधर्मोत्तम्भितं साहित्यमित्यादि वैलक्षण्यं द्रष्टव्यम् ॥

 यथावा--

 आर्तिं सार्धं मौर्व्या निशिचरततिरध्यरोपि रघुपतिना । खेदेन समं सातिर्मोदस्यातानि तेन सवनभुजाम् ॥ ७०८ ॥

 रघुपतिना मौर्व्या शिञ्जिन्या सार्धं निशिचराणां ततिः आर्तिं अध्यरोपि । मौर्वी धनुष्कोटिं निशिचरतातिः पीडां च अध्यरोपीत्यर्थः । ‘आर्तिः पीडाधनुष्कोट्योः' इत्यमरः । तेन आर्त्यध्यारोपणेन । रघुपतिना वा सवनभुजां देवानां खेदेन समं मोदस्य सातिः अतानि । खेदस्यावसानं मोदस्य दानं च कृतमित्यर्थः । ‘सातिर्दानावसानयोः' इत्यमरः । अत्रापि पूर्वोदाहरणवन्मालारूपतादिकं यथायोगमनुसन्धेयम् ॥

 यथावा--

 गुरुभिस्सह शुश्रूषा चरिते तव लसति तावकीनानाम् । कीर्तिर्दानोन्मिषिता गृहाङ्गणेऽच्युत दिशांगणेन समम् ॥ ७०९ ॥

 हे अच्युत ! तावकीनानां त्वद्भक्तानां गुरुभिः आचार्यैस्सह तव चरिते शुश्रूषा लसति गुरुषु विषये शुश्रूषा परिचर्या त्वच्चरिते विषये श्रवणेच्छा प्रकाशत इत्यर्थः । ‘अथ शुश्रूषोपासनाश्रवणेच्छयोः' इति हेमचन्द्रः । दिशां ककुभां गणेन समम् । यद्वा-दिशाशब्दष्टाबन्तः दिशानामङ्गणेन सममित्यर्थः । गृहाङ्गणे तेषामेव भवनाजिरे दानोन्मिषिता कीर्तिः लसतीत्यनुषज्यते । दिशाङ्गणे दानेन वितरणेन उन्मिषिता उदञ्चिता कीर्तिः यशः लसति गृहाङ्गणे दानेन द्विरदमदसलिलेन उन्मिषिता जनिता कीर्तिः कर्दमः विस्तृतिर्वा लसतीत्यर्थः । 'दानं गजमदे त्यागे, कीर्तिः प्रसादे यशसि, कर्दमे विस्तृतावपि' इति च रत्नमाला । अत्रापि यथासंभवं मालारूपतादिकं द्रष्टव्यम् । अधिकरणसाहित्यं तु विशेषः । पूर्वार्धे चरिते इति वैषयिकमधिकरणं, उत्तरार्धे गृहाङ्गणे इति तु औपश्लेषिकमभिव्यापकं वा तदितिभिदा। अभिव्याप्तिश्चात्रापेक्षिकी बोध्या ॥

 बिम्बप्रतिबिम्बभावाद्यापन्नधर्मताऽप्यत्र संभवति । यथा--

 फणमणिघृणिपरिवीतं ज्वालामालावृतेन चक्रेण । सह मुञ्चन्नहिमञ्चं सहसा स हरिः पुनातु करिवरदः ॥ ७१० ॥  अत्र फणमणिघृणिज्वालामालयोर्बिम्बप्रतिबिम्बभावः । परिवीतत्वावृतत्वयोस्तु वस्तुप्रतिवस्तुभावः । चक्रमञ्चमोचनयोः पौर्वापर्यविपर्ययः तन्मूलातिशयोक्त्याऽनुप्राणिता सहोक्तिः ॥

 अलंकारान्तरसंकीर्णाऽपीयं संभवति । यथा-

 मनसा समं विलीनं घनसारस्येव शकलमनलज्वालात् । द्विरसनगिरिशेखरतः दुरितं मम विततमेकपद एव बत ॥ ७११ ॥

अनलज्वालात् घनसारस्थ कर्पूरस्य शकलमिव जात्यभिप्रायकमेकवचनम् । द्विरसनगिरिशेखरतः शेषाचलोत्त्तंसाच्छ्रीनिवासात् विततं विस्तृतं मम दुरितं, पूर्ववदेकवचनम् । एकपद एव एकचरणन्यासमात्र एव अतिक्षिप्रमेवेत्यर्थः। अथवा-एकपदे इत्येदन्तमव्ययमेकस्मादित्यर्थे चादिषु पठ्यते । अतर्कितमेवेत्यर्थः । अतिसत्वरमेवेति यावत् । मनसा समं विलीनम् । कर्पूरपक्षे - विलीनं विद्रुतमित्यर्थः । ‘विलोने विद्रुतद्रुतौ' इत्यमरः । दुरितपक्षे – दर्शनाविषयमासीदित्यर्थः । मनःपक्षे तु - द्विरसनगिरिशेखरतः श्रीनिवासात् पञ्चम्यास्सार्वविभक्तिकस्तसि । मम मनः एकपद एव एकस्मिन्व्यवसाय एव तत्प्राप्त्येकव्यवसाय एव लीनं लग्नमित्यर्थः। ‘ददामि बुद्धियोगं तं येन मामुपयान्ति ते’ इत्युक्तरीत्या तत्प्राप्त्येकव्यवसायस्य तदधीनत्वादिति भावः । यद्वा - सप्तम्यास्तसि । श्रीनिवासे एकस्मिन्पदे वस्तुन्येव लीनमित्यर्थः । अथवा षष्ठ्यास्तसिः। श्रीनिवासस्य एकस्मिन्पदे चरणे लग्नमित्यर्थः । ‘पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । अत्रोपमाश्लेषमूलातिशयोक्तिभ्यामुज्जीविता सहोक्तिः ॥  यथावा--

 विबुधाभयदः कथमस्यसुरकदम्बेन सह सुरकदम्बम् । भवता वृषशैलमणे सुसाध्वसं यद्व्यतान्यतिप्रसभम् ॥ ७१२ ॥

 हे वृषशैलमणे ? त्वं कथं विबुधाभयदः असि । कुतो नास्मीत्यत आह-असुरेत्यादि । भवता असुरकदम्बेन सह सुरकदम्बं अतिप्रसभं सुसाध्वसं व्यतानि असुरकदम्बं अतिप्रसह्य अतेत्रस्तमतानीत्यर्थः । सुष्ठु साध्वसं यस्य तत्सुसाध्वसमीति समासः । सुरकदम्बपक्षे–सुसाधु असं इतिच्छेदः। सुसाधु असं अतिप्रसभमतानीति वैपरीत्येन योजना । सुसाधु अतिसम्यक् असं अविद्यमानसकारं अतिप्रसभं अतिप्रभमित्यर्थः । शब्दार्थयोस्तादात्म्यं न विस्मर्तव्यम् । अतानि अतितेजस्वि विरचितमित्यभिप्रायः । इयं हिताहितवृत्तितौल्यलक्षणतुल्ययोगितया श्लेषेण निन्दया स्तुत्यभिव्यक्तिलक्षणव्याजस्तुत्या चानुप्राणिता सहोक्तिरिति ध्येयम् ॥

 यथावा--

 औदार्यमद्भुतं तव साकं विद्वेषिभिः प्रियेभ्योपि। प्रददासि सत्वरं त्वं नारकमतिदुःखमहिगिरिसुरद्रो ॥ ७१३ ॥

 हे अहिगिरिसुरद्रो? एतच्च महोदारताभिप्रायगर्भम् । तव औदार्यं अद्भुतं लोकविलक्षणम् । तदेवोपपादयति -साकमिति । विद्वेषिभिस्साकं प्रियेभ्योपि ‘स च मम प्रियः’ इत्युक्तदिशा प्रीतिपात्रेभ्यो ज्ञानिभ्योपि सत्वरं हिताहितविवेचनव्यवधानविधुरमेव अतिदुःखं नारकं प्रददासीत्युपालभ्मः । विद्वेषिभ्यः अतिमात्रव्यथा करं नारकं नरकं 'स्यान्नारकस्तु नरकः' इत्यमरः । प्रददासि 'ये मां द्विषन्ति संमूढा नारके पातयामि तान्' इत्युक्तरीत्या दुर्गतिं वितरसीत्यर्थ । प्रियेभ्यस्तु सत्वरमित्यत्र सः तु अरं इति छेदः । सः त्वमिति योजना । अतिक्रान्तो दुःखमतिदुःखः तं तथोक्तम् । अत्यादयः क्रान्ताद्यर्थे द्वितीयया’ इति समासः । ‘यन्न दुःखेन संभिन्नं’ इत्युक्तदिशा दुःखासंभिन्नमित्यर्थः । अरं रेफविधुरं नारकं नाकमित्यर्थः ‘ते ह नाकं महिमानः' इत्यादाविव नाकशब्दोत्र परमव्योमपरः । प्रददासि 'नयामि परमां गतिम्’ इत्यादिना स्वेनैवोक्तत्वादिति भावः । अत्रापि पूर्वोदाहरणवदेव तुल्ययोगिताश्लेषव्याजस्तुत्यनुप्राणितत्वम् । वैलक्षण्यं तु अहिगिरिसुरद्रो इति रूपकातिशयोक्तिसंकिर्णसाभिप्रायविशेष्यलक्षणपरिकराङ्कुरानुप्राणितत्वं संप्रदानससाहित्यं चेत्यवधेयम् ॥

 एवं ‘गुरुभिस्सह शुश्रूषा’ इति पूर्वदर्शितमालासहोक्त्युदाहरणेऽपि शुश्रूषादेर्लसनरूपैकधर्मान्वयलक्षणतुल्ययोगितानुप्राणितत्वमनुसन्धेयम् ।

 सर्वाण्येतान्युदाहरणानि सहार्थकशब्दघटितान्येव सहोक्तेः प्रदर्शितानि । तदघटितत्वेन गम्या यथा--

 पुरविमथनोत्तमाङ्गं धरणितलेन त्रिविक्रम श्रीमन्। अस्ति स्तिमितं त्वत्पदकमलेन कृतं पुरा बलेस्सवने ॥ ७१४ ॥

 हे त्रिविक्रम ! इदं विवक्षितार्थस्य तदवतारासाधारणतां द्योतयितुम् । बलैः वैरोचनेः सवने यागे । धरणितलेन भूतलेन सहेत्यर्थः । विनाऽपि सहशब्दयोगं तृतीया भवतीत्यवोचाम । पुरविमथनस्य शिवस्य उत्तमाङ्गं मस्तकं त्वत्पदस्य त्वच्चरणस्य कमलेन सलिलेन गङ्गारूपेणेत्यर्थः । स्तिमितं क्लिन्नं कृतं रचितं पुरा अस्ति आसीदेत्यर्थः । ‘पुरि लुञ्चास्मे’ इति भूतानद्यतने लट् । धरणितलपक्षे तु-त्वत्पदकमलेन त्वच्चरणारविन्देन ‘कमलं सलिले ताम्रे जलजे' इति मेदिनी । अविद्यमानः स्तिः स्तीति वर्णसमुदायो यस्मिंस्तत्तथाभूतं स्तिमितं मितं मानकर्मीकृतमित्यर्थः॥

 एवं प्रागुपदर्शितोदाहरणेषु सर्वेष्वपि सहार्थकशब्दापनयने तान्यपि गम्यसहोक्त्युदाहरणानि भवन्तीति ध्येयम् ॥

॥ इत्यलंकारमणिहारे सहोक्तिसरस्त्रयोविंशः ॥