सामग्री पर जाएँ

अलङ्कारमणिहारः (भागः १)/विनोक्तिसरः (२४)

विकिस्रोतः तः

अथ विनोक्तिसरः

किंचिद्विना प्रस्तुतस्य रम्यताऽरम्यताऽपि वा ।
निबध्यते यदि तदा सा विनोक्तिरलंकृतिः ॥

 वर्ण्यस्य किंचिदभावप्रयुक्तं रमणीयत्वारमणीयत्वान्यतरवर्णनं विनोक्तिरलंकारः । यथा--

 फणिरमणतु शब्दनये कणचरणतु वाऽपिकोपि तर्कनये । गणनां नार्हति मनुजः फणिनाथगिरीश्वरे विना भक्तिम् ॥ ७१५ ॥

 अत्र भगवद्भक्तिविनाकृतस्यारम्यत्वम् ॥

 यथावा--

 सकलामचलामटतु त्रुटतु च शतधा तपोवि- धानाद्यैः । तव दर्शनाद्विनाऽच्युत भविता जनता कृतार्थतां न गता ॥ ७१६ ॥

 अत्र भगवद्दर्शनेन विनाकृतस्यारम्यता ॥

 यथावा--

 तालेन विना गानं शीलेन विना न शोभते ज्ञानम् । बालेन विना गृहिणी पालेन विना हरे त्वया धरणी ॥ ७१७ ॥

 अत्रापि तालादिविनाकृतस्यारम्यता--

 रम्यतायां यथा--

 मोहेन विनाऽच्युतभाग्दाहेन विना दवस्य भाति वनम् । ग्राहेण विना जलधिः स्नेहेन विना खलेषु सुजनश्च ॥ ७१८ ॥

 अच्युतं भजतीत्यच्युतभाक् भगवद्भक्त इत्यर्थः । ‘भजो ण्विः’ इति ण्विः। जलधिः सरः जलानि धीयन्तेऽस्मिन्निति विग्रहः 'अब्धी सरस्सरस्वन्तौ’ इति रत्नमाला । अत्र मोहादिना विनाकृतस्य रम्यता । आद्ये केवले, इतरे तु दीपकानुकूले ॥

 मिश्रिता यथा--

 कार्श्येन विना विभवस्तव देवि विभाति जातु न तु मध्यम् । चाञ्चल्येन विना हृद्विभासते न तु विलोचनद्वन्द्वम् ॥ ७१९ ॥  अत्र कार्श्यचाञ्चल्यविनाकृतयोर्वस्तुनोः रम्यताऽरम्यते इति भवतीयं मिश्रता । प्रतिवस्तूपमनुकूला परिसंख्यानुकूला च ॥

 फणिराजगिरीशिरोमणिगुणराजी भजति रम्यतां सम्यक् । दोषं विना मनागपि विना कलङ्कं शशाङ्करेखेव ॥ ७२० ॥

 नित्यं फणिगिरिनाथे प्रत्यङ्ङात्माऽऽत्मभरसमर्पणतः । हृल्लेखो मणिरिव भात्युल्लेखनतो विना मलीमसताम् ॥ ७२१ ॥

 प्रत्यङ् आत्मा जीवः इत्यर्थः । 'ङमो ह्रस्वादचि ङमुण्णित्यम्’ इति ङकारात्परस्याचो नित्यं ङमुडागमस्संहितायाम् । मणिः उल्लेखनात् शाणोद्धर्षणादिव प्रत्यगात्मा भगवति भरसमर्पणात् मलीमसतां मृदादिसंसर्गकृतां मलिनतां विना हृल्लेखः हृद्यः भाति । हृदयं लिखतीति हृल्लेखः हृदयशब्दोपपदकात् लिखेः कर्मण्यण् । ‘हृदयस्य हृल्लेखयदण्लासेषु’ इति हृदयशब्दस्य हृदादेशः । पक्षे–अविद्याकृतमज्ञानमालिन्यं विना ‘मणिवर इव शौरेर्नित्यहृद्यः' इत्याद्युक्तरीत्या भगवतो हृदयंगमस्सन् भाति नित्यासंकुचितज्ञानो दीप्यत इत्यर्थः । अनयोराद्या शुद्धोपमानुकूला इतरा तु श्लेषमूलोपमानुकूला ॥

 मूलं विनाऽपि वीरुद्विलसेत्कूलं विनाऽपि शैवलिनी । नालं व्यालेन्द्राचलपालं देवं विना क्वचित्कमला ॥ ७२२ ॥  इयं दीपकपरिसंख्यानुकूला ॥

 रागं विना यथा स्त्री वेगं पयसो विना यथा तटिनी । त्यागं विना यथा श्रीर्योगं शौरेर्विना तथैव मतिः ॥ ७२३ ॥

 पूर्वं क्रियागुणादिसंबन्ध आवश्यकः । इह तूपमामहिम्नैवावगम्यते स इति न तथा ॥

 इयं च न केवलं विनाशब्दसद्भाव एव भवति अपितु विनाशब्दार्थवाचकसद्भावेऽपि । तेन नञ्, निर, वि , अन्तरेण , ऋते , विकल, वियुक्त, रहित, दूरित, विधुर इत्यादिप्रयोगसद्भावेऽपि । यथ-

 फलमन्तरेण शाखी जलधिर्जलमन्तरेण यदि भायात् । बलमन्तरेण राजाऽप्यलमहिगिरिमन्तरेण भूर्भायात् ॥ ७२४ ॥

 बलमन्तरेण राजाऽपि यदि भायादित्यन्वयः । अत्रान्तरेणशब्दः विनार्थकः प्रयुक्तः । मिथ्याध्यवसितिदीपकानुकूलेयम् ॥

 अम्बरमभानुबिम्बं बिम्बं भानोरनम्बुरुहनयनम् । अम्बुजनयनोऽनम्बुधिसुतस्सुतेजस्तया विभायात्किम् ॥ ७२५ ॥

 अत्र विनार्थको नञ् प्रयुक्तः । अनम्बुरुहनयनं ‘तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी ’ इति श्रुतिप्रथितपुण्डरीकाक्षरहित- मित्यर्थः। अनम्बुधिसुतः श्रीविश्लिष्ट इत्यर्थः । सुतेजस्तया सुवर्णवर्णतयेति भावः । विभायात्किम् । श्रीविश्लिष्टत्वे ताद्विध्यस्य दुर्लभत्वादिति भावः । अत एव ह्यधिकरणसारावळ्यां “नित्यश्रीर्ब्रध्नबिम्बे' इति विशेषितमाचार्यैः ‘आप्रणखात्सर्व एव सुवर्णः’ इति श्रुतिरत्रानुसन्धेया । इयं वक्ष्यमाणमालादपिकानुकूला ॥

 शेषाचलाभिमुखता येषां प्रोदञ्चिता न किंचिदपि । शेष्यचलाभिमुखत्वं नैष्यन्त्येते जनुस्सहस्रेऽपि ॥ ७२६ ॥

 शेषिणः सर्वेश्वरस्य भगवतः अचलं निश्चलं यत् अभिमुखत्वं तत्कटाक्षगोचरत्वमिति यावत् । नैष्यन्ति न प्राप्नुवन्ति शेषाचलाभिमुख्यरूपोपायाभावे भगवदाभिमुख्यरूपफलं दुर्लभमिति भाव । अत्रापि विनाशब्दार्थवाचको न प्रयुक्तः । इयमेकगुणेनान्यदोषोदयरूपोल्लासालंकारानुकूला ॥

 त्रासस्पर्शविमुक्ता मुक्ता इव दोषगन्धसंत्यक्ताः ।औज्ज्वल्यमुखास्सुगुणा जाज्वल्यन्ते फणाभृदचलमणेः ॥ ७२७ ॥

 अत्र संत्यक्तशब्दः । उपमानुकूला चेयम् ॥

 ज्ञानानन्दत्वाद्याः श्रीनाथगुणास्सुदूरितावद्याः । सूरकरा इव हृद्या वारिततमसश्शुभास्सदास्वाद्याः ॥ ७२८ ॥

 अत्र सुदूरितशब्दः । इयमप्युपमानुकूलैव ॥

 अलंकारभाष्यकारस्तु ‘नित्यसंबन्धानामसंबन्धवचनं विनोक्तिः' इत्याह । तस्य मते तु नैतान्युदाहरणानि ॥  इदं तूदाहरणम्--

 निवहेन सुररिपूणां भवप्रतापोष्णिमानमनुभवताम् । मधुमथन चित्रभानुद्वितयं दृष्टं विनोष्णतया ॥ ७२९ ॥

 चित्रभान्वोस्सूर्यवह्न्योः द्वितयं 'सूर्यवह्नी चित्रभानू' इत्यमरः । अत्र सूर्यवह्न्योरौष्ण्यस्याविनाभावेऽपि विनाभावो दर्शितः ॥

 यथावा--

 निरतिशयविशदिमाढ्ये परितस्स्फुरतीह जगतेि तव यशसि । माधव विना धवलतां विधुविधिवनितादयो विलोक्यन्ते ॥ ७३०॥

 विधिवनिता सरस्वनी । अत्र धावळ्याविनाभावेऽपि तद्विनाभावो दर्शितः । अलंकारान्तरपरिरम्भसंभूतमेवास्या रमणीयत्वम्, न तु स्वतः । तेनालंकारान्तरत्वमपि शिथिलमेवेति वद्न्ति । परे तु-किंचिद्व्यतिरेकप्रयुक्तरम्यत्वारम्यत्वज्ञानादेव चमत्कारोदयस्य निष्प्रत्यूहत्वेनालंकारान्तरानालिङ्गितस्यास्य रमणीयतायास्सहृदयहृदयैकसाक्षिकत्वात्स्वतोऽस्यालंकारान्तरत्वमक्षतमेवेत्याहुः ॥

 अथास्या ध्वनिः--

 किं तेन जन्मना स्यात्स्वान्ते यस्मिन्न चिन्तितोऽनन्तः । किं तेन कर्मणा वाऽनन्ते यन्नार्पितं भवत्यन्ते ॥ ७३१ ॥  अत्र भगवच्चिन्तनं विना स्वान्तस्य भगवदर्पणं विना कर्मणश्चारमणीयत्वं किमिति क्षेपेण फलप्रश्नेन वा व्यज्यते । तस्य च भगवद्विषयकभावध्वन्यनुग्राहकत्वेऽप्यप्रतिहतैव ध्वनिव्यपदेश्यता । अन्यथाऽनुग्राहकत्वलक्षणसंकरोच्छेदापत्तिरिति ॥

इत्यलंकारमणिहारे विनोक्तिसरश्चतुर्विंशः