अलङ्कारमणिहारः (भागः १)/समासोक्तिसरः (२५)

विकिस्रोतः तः
               




   

अथ समासोक्तिसरः


 साम्याद्भेदकमात्रस्य गम्यमप्रस्तुतं यदि । समासोक्तिमिमां प्राहुः प्राञ्चोऽलंकारवेदिनः ॥

 भेदकं विशेषणम् । विशेषणमात्रसाम्यगम्याप्रस्तुतवृत्तान्ता समासोक्तिः समासेन संक्षेपेण प्रक्ष्तुताप्रस्तुत वृत्तान्तयोर्वचनात् ।

असावुदयमारूढः कान्तिमान्रक्तमण्डलः ।
राजा हरति लोकानां हृदयं मृदुभिः करैः ॥

 इति प्रकृताप्रकृतश्लेषे चाप्रकृतनृपवृत्तान्तस्य विशेष्यवाचिना श्लिष्टेन राजपदेनाप्यवगमान्न तत्रातिव्याप्तिः ॥

 यथा--

 सामोदबाष्पगद्गदरोमोद्गमवेपथुप्रळयललितम्। आलिङ्गति फणधरगिरिमौलिं भक्त्युन्मुखा मदीयमतिः ॥ ७३२ ॥

 अत्र भक्त्युन्मुखस्वमतिवृत्तान्ते वर्ण्यमाने सामोदेत्यादिक्रियाविशेषणसाम्याद्वल्लभस्वयंग्रहाश्लेषप्रसक्तनायिकावृत्तान्तः प्रतीयते ॥

 स्फुटकुचमुखवर्णैषा वृत्तातुलनाभितोऽतिगम्भीरा। कविवाणी ललितपदाश्लेषेण हरेर्मुदं ददातेि पराम् ॥ ७३३ ॥

 कुः कुवर्णः कवर्गो वा चः चवर्णश्च मुखं येषां तानि वर्णानि अक्षराणि स्फुटानि यस्यास्सा तथोक्ता । अन्यत्र स्फुटाः कुचमुखवर्णाः स्तनवदनवर्णाः यस्यास्सा तथोक्ता । अविद्यमाना तुलना साम्यं यस्यास्सा तथोक्ता । वृत्तैः मात्रावर्णभेदभिदुरघ्छन्दोनिष्पन्नैः श्लोकैः वृत्तेन भगवच्चरित्रेण वा अतुलना असदृगित्यर्थः । लोकोत्तरवृत्तघटिततयाऽतिश्लाघ्येति भावः ।‘वृतं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले' इत्यमरः । अभितः समन्ततः अतिगम्भीरा ‘ध्वानिमत्ता तु गाम्भीर्यम्’ इत्युक्तगाम्भीर्यगुणशालिनीत्यर्थः । पक्षे-वृत्ता आवर्तवद्वर्तुला अतुला असदृशी या नाभिः तया नाभितः सार्वबिभक्तिकस्तसिः । अतिगम्भीरा अतिगम्भीरवर्तुलासदृशनाभिरित्यर्थः । ललितानि पदानि सुप्तिङन्तात्मकानि यस्यां सा, ललिते पदे चरणे यस्यास्सा तथोक्ता च कविवाणी श्लेषेण पक्षे- आश्लेषेणेति छेदः । आलिङ्गनेनेत्यर्थः। अत्र कविभारतीवृत्तान्ते प्रस्तुते स्फुटकुचमुखेत्यादिविशेषणसाम्यात् वाणीशब्दगतस्त्रीलिङ्गमहिम्ना चाप्रस्तुतोत्कण्ठितनायिकावृत्तान्तः प्रतीयते । पूर्वत्र विशेषणानि साधारणानि । इह तु श्लिष्टानीति विशेषः । साधारणत्वं च श्लेषेण विनैव प्रकृताप्रकृतवृत्तान्तानुगतत्वम् ॥  यथावा--

 आदौ मदमलिनोऽच्युत जला (डा)शयानुप्रवेशितपदोऽथ । विषमतमासद्ग्राहग्रस्तोऽद्य विरौम्युदस्तहस्तोऽहम् ॥ ७३४ ॥

 हे अच्युत ! आदौ मदेन गर्वेण दानोदकेन च मलिनः, अथ जलाशयेषु जडधीषु जलाधारेषु च अनुप्रवेशितं पदं व्यवसायः चरणं च येन स तथोक्तः । अत एव विषमतमेन असता ग्राहेण दुराग्रहेण । पक्षे-जलजन्तुविशेषेण अवहारापरपर्यायेण ग्रस्तस्सन् ‘ग्राहो ग्रहेऽवहारे च' इति मेदिनी । उदस्तः उत्क्षिप्तः हस्तः करः शुण्डा च येन स तथोक्तस्सन् अद्य कर्मपरिपाकदशयां, विरौमि रोदिमि । अत्र संसारनिर्विण्णजनवृत्तान्ते प्रस्तुते श्लिष्टविशेषणसाम्यात् ग्राहग्रस्तजरद्गजवृत्तान्तः प्रतीयते ॥

 सारूप्यादपीयं दृश्यते यथा--

 जन्म सरस्वति फणिपतिगिरिपतिलसदुरसि भवति तव वसतिः । कौस्तुभ विभासि धन्यो निस्तुलविभवो भवादृशः कोऽन्यः ॥ ७३५ ॥

 सरस्वति सागरे । अत्र श्रीनिवासकौस्तुभवर्णने प्रस्तुते यत्र क्वा जन्म लब्ध्वाऽतिमात्रविदेशे श्लाघनीयतमेऽधिगतसाम्राज्यसंपदो भाग्यशालिनः पुरुषस्य वा महाविदुषो वा वृत्तान्तः प्रतीयत इत सारूप्यनिबन्धनेयम् ॥

 यथावा--

 फणिगिरिपतिहृदि कौस्तुभमणिवरसंदर्शनेन नयनयुगम् । हृष्यति हृदयं विकसति गळति तमो मिळति मञ्जुलच्छाया ॥ ७३६ ॥

 अत्र प्रस्तुतेन कौस्तुभदर्शनवृत्तान्तेनाप्रस्तुतोदयमानभानुदर्शनवृत्तान्तः प्रतीयते । अत्र नयनयुगं हृष्यति, हृदयं विकसतीत्यत्र सरूप्याच्चक्रवाकमिथुनहर्षकमलविकासौ प्रतीयेते । गळति तमः, मिळति मञ्जुलच्छायेत्यत्र श्लेषेणान्धकारनिरासकान्तिलाभाविति पूर्वोदाहरणाद्वैलक्षण्यम् ॥

 अत्र कुवलयानन्दकृतः- "प्रस्तुताप्रस्तुतसाधारणविशेषणबलात्सारूप्याद्वा यदप्रस्तुतवृत्तान्तस्य प्रत्यायनं तत् प्रस्तुते विशेष्ये समारोपार्थं, सर्वथैव प्रस्तुतानन्वयिनः कविसंरम्भगोचरत्वायोगात् । ततश्च समासोक्तावप्रस्तुतव्यवहारसमारोपश्चारुतोहतुः । न तु रूपक इव प्रस्तुते अप्रस्तुतरूपसमारोपोऽस्ति । मुखचन्द्र इत्यत्र मुखे चन्द्रत्वारोपहेतुचन्द्रपदसमभिव्याहारवत् 'रक्तश्चुम्बति चन्द्रमाः' इत्यादिसमासोक्त्युदाहरणे चन्द्रादौ जारत्वाद्यारोपहेतोस्तद्वाचकपदसमभिव्याहारस्याभावात् ‘निरीक्ष्य विद्युन्नयनैः' इत्याद्येकदेशविवर्तिरूपकोदाहरण इव प्रस्तुते अप्रस्तुतरूपसमारोपगमकस्याप्यभावात् । तत्र हि विद्युन्नयनैरित्यत्र निरीक्षणानुगुण्यादुत्तरपदार्थप्रधानरूपमयूरव्यंसकादिसमासव्यवस्थितादुत्त्तरपदार्थभूतनयनान्वयानुरोधात्पयोदेऽनुक्तमपि द्रष्टृपुरुषत्वरूपणं गम्यमवगम्यते । न चेह तथा निरीक्षणवत् ‘त्वय्यागते किमिति वेपत एष सिन्धुः’ इति श्लोके सेतुकृत्त्वादिवच्चाप्रस्तुतासाधारणवृत्तान्त उपात्तोस्ति । नापि श्लिष्टसाधारणादिविशेषणसमर्पितयोः प्रस्तुताप्रस्तुतवृत्तान्तयोरप्रस्तुतवृत्तान्तस्य विद्युन्नयनवत्प्राधान्यमस्ति । येन तदनुरोधात् ‘त्वं सेतुमन्थकृत्' इत्यत्रेव प्रस्तुतेऽनुक्तमप्यप्रस्तुतरूपसमारोपमभ्युपगच्छेम । तस्माद्विशेषणसमर्पिताप्रस्तुतव्यवहारसमारोपमात्रमिह चारताहेतुः । यद्यपि प्रस्तुताप्रस्तुतवृत्तान्तयोरिह श्लिष्टसाधारणविशेषणसमर्पितयोर्भिन्नपदोपात्तविशेषणयोरिव विशेष्येणैव साक्षादन्वयादस्ति समप्राधान्यम् । तथाऽप्यप्रस्तुतवृत्तान्तान्वयानुरोधान्न प्रस्तुते अप्रस्तुतरूपसमारोपोऽङ्गीकार्यः । तथाहि यथा प्रस्तुतविशेष्ये नस्त्यप्रस्तुतवृत्तान्तस्यान्वययोग्यता, तथैवाप्रस्तुतेऽपि नास्ति प्रस्तुतवृत्तान्तस्यान्वययेग्यता । एवं च समप्रधानयोः प्रस्तुताप्रस्तुतवृत्तान्तयोरन्यतरस्यारोपेऽवश्यमभ्युपगन्तव्ये श्रुत एव प्रस्तुते अप्रस्तुतस्यारोपश्चारुताहेतुरिति युक्तम्” इत्याहुः ॥

 रसगङ्गाधरकारस्तु समसोक्तेरेवं लक्षणादिकमभाणीत् । तथाहि- ‘यत्र प्रस्तुतधर्मिको व्यवहारस्साधारणविशेषणमात्रोप स्थापिताप्रस्तुतधर्मिकव्यवहाराभेदेन भासते सा समासोक्तिः । साधारणविशेषणमात्रश्रुत्युपस्थापिताप्रस्तुतधर्मिकव्यवहाराभिन्नत्वेन भासमानप्रकृतधर्मिकव्यवहारत्वमिति चैकोक्तिः । शब्दशक्तिमूलध्वनिवारणाय मात्रेति, विशेष्यस्यापि श्लिष्टतया प्रकृतेतरधर्म्युपस्थापनद्धारा तादृशधर्मिकव्यवहारोपस्थापकत्वात् ।

एवमपि-

आबध्नास्यलकान्निरस्यसि तमां चोलं रसाकांक्षया-
लङ्क्ताया वशतां तनोषि कुरुषे जङ्घाललाटक्षतम् ।
प्रत्यङ्गं परिमर्दनिर्दयमहो चेतस्समालम्बसे
वामानां विषये नृपेन्द्र भवतः प्रागल्भ्यमत्यद्भुतम् ॥

इत्यत्र प्रकृतधर्मिकप्रकृताप्रकृतव्यवहारविषयके श्लेषेऽतिव्याप्तेर्वारणाय प्रस्तुताप्रस्तुतत्वे धर्मिविशेषेणतयोपात्ते । व्यवहारविशेषणत्वेन तयोरुपादाने तु साधारणविशेषणमात्रश्रुत्युपस्थापिताप्रकृतश्रृङ्गारवृत्तन्ताभिन्नत्वेन स्थित एवात्र प्रकृतो वीरवृत्तन्त इति स्यादेवातिप्रसङ्गः । न चात्र राज्ञो वर्णनस्य प्रस्तुतत्वात्तद्गतयोर्द्वयोरपि वृत्तान्तयोः प्रस्तुतत्वमिति कथमतिप्रसङ्ग इति वाच्यं, न स्यादतिप्रसङ्गः यदि वर्णनमात्रं प्रस्तुतं स्यात् , तत्संग्रामादौ धीरतामात्रवर्णनप्रस्तावे तु स्यादेवातिप्रसङ्गः ॥

मलिनेऽपि रागपूर्णां विकसितवदनामनल्पजल्पेऽपि ।
त्वयि चपलेऽपिच सरसां भ्रमर कथं वा सरोजिनीं त्यजसि ॥

इत्याद्यप्रस्तुतप्रशंसायामप्रकृतव्यवहारस्साक्षादुपात्तत्वाद्विशेष्येणाप्युपस्थापित एवेति न तत्रातिव्याप्तिः । यदि तु जलक्रीडादौ भ्रमरवृत्तान्त एव प्रस्तुतस्तदा भवत्येवेयं समासोक्तिः ॥

तत्र तावत्--

विबोधयन् करस्पर्शैः पद्मिनीं मुद्रिताननाम् ।
परिपूर्णोऽनुरागेण प्रातर्जयति भास्करः ॥

इत्यत्र किरणस्पर्शकरणकमुकुळितपद्मिनीकर्मकविकासानुकूलव्यापारवदभिन्नो भास्करो जयतीति वाक्यार्थश्शक्त्यैव तावत्प्रतीयते । हस्तस्पर्शकरणकनायिकाविशेषकर्मकानुनयनानुकूलव्यापारवदभिन्न इत्यादिश्चापरोऽर्थ उभयत्रानुषक्ततया तयैव शक्त्या शक्त्यन्तरेण व्यक्त्या वा सर्वथैव प्रतीयत इत्यत्र सहृदय एव प्रमाणम् । एवं च द्वाविमौ वाक्यार्थौ सव्येतरगोविषाणवदत्यन्तासंस्पृष्टौ यदि स्यातां तदा भगवतो भास्करस्य कामुकत्वं कमलिन्या नायिकात्वं च सकलप्रतीतिसिद्धं विरुद्धं स्यात् । द्विप्रधानत्वेन वाक्यभेदश्चापद्येत । यदि चापरोऽर्थः प्रकृतकर्तर्यारोप्यते तदा कमलिनीविकासकर्ता नायिकानुनयकर्ता च सूर्य इत्येकत्र द्वयमिति विषयताशाली बोधस्स्यात् । न तु पूर्वोक्तानुपपत्तिपरिहारः । यदि च श्लेषमूलाभेदाध्यवसानेन कमलिन्यादीनां नायिकात्वादिप्रत्यय उपपाद्यते तदाऽप्यश्लिष्टपदोपस्थितो भगवान्नायकत्वानाघ्रात एव । पद्मिनीशब्दस्थाने नलिनीशब्दोपादाने साSपि नायिकात्वेन कथं नाम प्रतीतिविषयत्वमियात् । तस्माद्विशेषणसाम्यमहिम्ना प्रतीतिऽप्रकृतवाक्यार्थस्स्वानुगुणं नायिकादिमर्थमाक्षिप्य तेन परिपूर्णविशिष्टशरीरः प्रकृतवाक्यार्थे स्वावयवतादात्म्यापन्नतदवयवोऽभेदेनावतिष्ठते । स च परिणाम इव प्रकृतात्मनैव कार्योपयोगी । स्वात्मना च रसाद्युपयोगी । अत्र चाप्रकृतार्थस्य पृथक्छब्दानुपादानाद्रूपकाद्वाक्यार्थसंबन्धिनो वैलक्षण्यम् । पदार्थरूपकात्तु स्फुटमेव । आक्षिप्तार्थघटितत्वाच्च वाक्यार्थश्लेषात् । एवं चात्र शक्त्याक्षेपाभ्यां सर्वार्थनिर्वाह इति भामहोद्भटप्रभृतीनां चिरन्तनानामाशयः । ‘निशामुखं चुम्बति चन्द्र एषः' इत्यादौ निशाचन्द्रशब्दयोरश्लिष्टत्वान्मुखचुम्बनमात्रस्य च पुत्रादिसाधारण्येन कथं तावन्नियतनायकाक्षेपकत्वम्, कथं वा आक्षिप्तस्यापि नायकादेर्निशाचन्द्रयोरेवाभेदेनान्वयः, न भेदेन चुम्बनादौ । तथात्वेच तयोर्नायकताताटस्थ्ये रसानुद्बोधापत्तेः । तस्मात् ‘निशामुखं चुम्बति चन्द्रिकैषा, अहर्मुखं चुम्बति चण्डभानुः' इत्यादावप्रतीयमानं नायकत्वं प्रकृते टाप्प्रथमाभ्यां प्रतिपादितेन प्रकृत्यर्थगतेन स्त्रीत्वेन पुंस्त्वेन च स्वाधिकरण एवाभिव्यज्यते । एवं च निशाशशिनोर्नायकत्वसिद्धिश्श्लिष्टविशेषणैः । व्यञ्जनव्यापारेणैवाप्रकृतार्थबोधनम्, शक्तेः प्रकरणादिना नियन्त्रणात् । तदित्थं व्यञ्जनमाहात्म्यादेवाप्रकृतवाक्यार्थतादात्म्येन प्रकृतवाक्यार्थोऽवतिष्ठते । गुणीभूतव्यङ्ग्यभेदश्चायमिति तु रमणीयः पन्थाः” इति । अन्यत्सर्वं तत्रैव द्रष्टव्यं विस्तराभिलाषिभिरि त्यलमतिभूमिस्वैरविसर्पणेन ॥

 अथास्याः केवलभेदाः प्रतिपाद्यन्ते । विशेषणसाम्यं श्लेषेण भवति शुद्धसाधारण्येन वा । तदपि धर्मान्तरपुरस्कारेण कार्यपुरस्कारेण वेति प्रत्येकं द्विविधम् । तत्र श्लिष्टधर्मान्तरपुरस्कारेण विशेषणसाम्यं यथा--

 विलिखितविचित्रपत्रा सुच्छाया भास्वदतनुतापहरा । उरगगिरितटवनी परिचरणाच्छ्रीवल्लभस्य सोल्लासा ॥ ७३७ ॥

 विलिखितानि विशेषेण रचितानि, विभिः पक्षिभिः लिखितानि चञ्चुपुटैर्दळितानि च । चित्राणि मकरिकाद्याकारवत्तथा नानारूपाणि पत्राणि पत्राकाररेखान्यसनानि । पक्षे–नानावर्णानि पलाशानि यस्यास्सा तथोक्ता । सुच्छाया शोभनानातपामनोहरकान्तिश्च । भास्वतः भानोः अतनुः अकृशः यस्तापः तस्य हरा । अन्यत्र-भास्वान् उदीर्णः अतनोर्मदनस्य तापस्संज्वरः तस्य हरा । श्रीवल्लभस्य परिचरणात् परितस्संचारात् शुश्रूषणाच्च सोल्लासा सप्रकाशा सहर्षा च । अत्र दक्षिणनायकलब्धोपचारोत्तममहिळावृत्तान्ताभेदेन स्थितः प्रकृतवृत्तान्तः सुच्छायत्वसोल्लासत्वादिधर्मपुरस्कारेण श्लेषेण विशेषणसाम्यम्। एवं ‘स्फुटकुचमुख’ इति प्रागुदाहृते पद्येऽपि द्रष्टव्यम् ॥

 श्लिष्टकार्यपुरस्कारेण विशेषणसाम्यं यथा--

 पूर्वं निपात्य विग्रहकाले शौरे समानमध्यमवीरान्। पश्चादनिपात्यैकं पदमपि लोके सुशब्दतां प्रकटयसे ॥ ७३८ ॥  हे शौरे ! विग्रहकाले आयोधनसमये एकं पदमपि पश्चादनिपात्य एकचरणापसर्पणमप्यकृत्वेत्यर्थः । समानाः तुल्याः उत्तमा इति यावत् । मध्यमाः स्वापेक्षयाऽपकृष्टाः ये वीराश्शूराः तान् । यद्वा- असमानिति छेदः । असमान् शौर्यवीर्यादिभिरसदृशान् । अत एव अमध्यमान् उत्कृष्टान् वीरान् पूर्वं आदावेव न तु विलम्बेन निपात्य पातयित्वा निहत्येत्यर्थः । अनेनास्य परनिरास ईषत्कर इति द्योतितम् । शोभनः शब्दः यशः यस्य तस्य भावं सुशब्दतां यशस्वितामित्यर्थः । प्रकटयसे । ‘शब्दोऽक्षरयशोगीतव्योमवाक्यध्वनिष्वपि' इति रत्नमाला । पक्षे–विग्रहकाले समासार्थं विग्रहप्रदर्शनावसरे समानमध्यमवीरान् उक्तविधान् शब्दान् पूर्वं निपात्य तेषां शब्दानां ‘पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च' इति सूत्रेण पूर्वनिपातस्य नियमितत्वात् पूर्वमेव प्रयुज्येत्यर्थः । एकं पदमपि एकमित्याकारकं शब्दमपि । पश्चादनिपात्य पूर्वमेव प्रयुज्येत्यर्थः । तस्य ‘पूर्वकालैक' इति सूत्रेण पूर्वनिपातनियमात् । सुशब्दतां शब्दशास्त्रप्रावीण्यं प्रकटयसे प्रथयसे इत्यर्थः । अत्र वैयाकरणवृत्तान्ताभेदेन स्थितः प्रस्तुतवृत्तान्तः। निपात्येत्यादिश्लिष्टकार्यपुरस्कारेण विशेषणसाम्यम् ॥

 एवं कार्यातिरिक्तधर्मप्रतिपादकश्लिष्टविशेषणसाम्येन कार्यरूपधर्मप्रतिपादकतत्साम्येन च समासोक्तिद्वैधी दर्शिता ॥

 शुद्धसाधारण्येन धर्मान्तरपुरस्कारेण यथा--

 स्खलितमिमं संसारे ललिततमा दृक्तवात्र कंसारे । निरवधिवात्सल्या मां सरभसमुद्धर्तुमुत्सुकाऽऽपतति ॥ ७३९ ॥  उत्सुका आपततीति छेदः । आपतति आयातीत्यर्थः । अत्र बालकजननीवृत्तान्ताभेदेन स्थितः प्रकृतवृत्तान्तः । निरवधिवात्सल्येत्यादिशुद्धसाधारण्येन धर्मान्तरपुरस्कारः ॥

 शुद्धसाधारण्येन कार्यपुरस्कारेण यथा--

 स्तोतुं त्रपामहे त्वां यस्य तवोच्छृङ्खलो वृषाद्रिमणे । विष्फारो ननु समितावम्बरमाधूय दश दिशो भुङ्क्ते ॥ ७४० ॥

 समितौ सभायाम् । अम्बरं वसनम् । त्वद्विष्फारस्य निर्ल्लजतया सभायामेवाम्बरव्याधूननपूर्वकं दशदिगुपभोगकारित्वात्त्वां स्तोतुं वयमेव लज्जामह इति भावः । वस्तुस्थितिस्तु - युधि तावकधनुर्विष्फारस्सकलगगनदशदिग्व्यापी ईदृशं महाविक्रान्तचूडामणिं त्वां स्तोतुं मितंपचवचसो वयं लज्जामह इति । अत्र प्रस्तुतभगवद्धनुर्ज्यानिर्घोषवृत्तान्तोऽप्रस्तुतनिर्लज्जकामुकवृत्तान्ताभेदेनावतिष्ठते । भुङ्क्ते इति कार्यपुरस्कारेण विशेषणसाम्यम् । भोगश्च प्रकृते औपचारिकः । एवं प्रागुदाहृते ‘सामोदबाष्पगद्गद’ इति पद्येऽपि द्रष्टव्यम् ॥

 कार्यधर्मान्तरयोस्संकरेण साधारण्यं यथा--

 शुभविभवसंप्रसारणमाकलयन्पूर्वरूपमपि भगवन्। रचयसि मघोनि गुणमपि सुभेऽत्र दृढपाणिनिहितशास्त्रस्त्वम् ॥ ७४१ ॥

 हे भगवन् ! दृढं पाणौ निहितं शास्त्रं सुदर्शनादिशस्त्रसमुदयो यस्य स तथोक्तः । आश्रितानिष्टनिवारणेष्टप्रापणार्थमात्तपञ्चायुध इति भावः । त्वं मघोनि इन्द्रे शुभविभवसंप्र सारणं शुभस्य मङ्गळकरस्य विभवस्य त्रैलोक्यसाम्राज्यस्य संप्रसारणं संप्रदानमिति यावत् । आकलयन् सन् अत एव पूर्वरूपं दुर्वासश्शापात्पूर्वमवस्थितमूर्जितत्वादिरूपं च । आकलयन्निति संबध्यते । प्रवर्तयन्नित्यर्थः । अत एव सुभे शोभना भा दीप्तिर्यस्य तस्मिंस्तथोक्ते उज्ज्वलतेजसीत्यर्थः । अत्र अस्मिन्निन्द्रे गुणमपि नयविनयसमृद्ध्यादिसुगुणमपि रचयसि । परिपूर्णज्ञानशक्तिबलैश्वर्यवीर्यतेजसस्तवानुग्रहादेवेन्द्रस्येदृशसमृद्ध्यादिलाभ इति भावः । अनेनैवाभिप्रायेण भगवन्निति संबोधनम् । पक्षे दृढं स्वभ्यस्तं पाणिनये हितं यच्छास्त्रं व्याकरणं यस्य स तथोक्तस्त्वम् । अस्मिन् पक्षे शुभविभवसंप्रसारणमित्यत्र शुभविभेतिच्छेदः । शुभा विभा प्रभा यस्य तथोक्तः । तस्य संबुद्धिः हे शुभविभ ! हे भगवन्! सुभे सुष्ठुभे ‘यचि भम्’ इत्युक्ताजादिविभक्तिपरकत्वलक्षणां भसंज्ञां प्राप्ते मघोनि मघवशब्दे । वसंप्रसारणं वस्य वकारस्य संप्रसारणं ‘इग्यणस्संप्रसारणम्’ इत्युक्तलक्षणं यण्स्थानिकमिकं उकारमित्यर्थः । 'श्वयुवमघोनामतद्धिते’ इति भसंज्ञकमघवशब्दस्थचकारस्य संप्रसारणविधानादिति भावः । पूर्वरूपमपि 'संप्रसारणाच्च' इति सूत्रेण संप्रसारणादचि परे पूर्वरूपमेकादेशं च आकलयन् निष्पादयन् अत्र अस्मिन्मघवशब्दे गुणमपि ‘आद्गुणः' इत्यनेन गुणसंज्ञिकमेकादेशं च रचयसि । तथाच मघवशब्दे भसंज्ञायां वकारस्य संप्रसारणं पूर्वरूपं गुणं च विधाय मघोनीत्यादिरूपं निष्पादयसीति निर्गळितोऽर्थः । अत्र प्रस्तुते महेन्द्रवैभवादिप्रदातृभगवद्वृत्तान्ते अप्रस्तुतवैयाकरणवृत्तान्तोऽभेदेन स्थितः । अत्र दृढपाणिनिहितशास्त्रत्वेन धर्मेण शुभविभवसंप्रसारणाकलनादिकं कार्यं संकीर्णम् ॥  समासोक्तौ व्यज्यमानस्याप्रकृतव्यवहारस्योपस्कारकत्वमेव, न प्राधान्यम् । तदुपस्कृतवाच्यस्यैव प्राधान्यमित्युक्तम् । तत्र यदि व्यङ्ग्यस्यैव प्राधान्यं स्यात् न वाच्यस्य, तदा 'स्तोतुं त्रपामहे त्वां' इति प्रागुदाहृते पद्ये निन्दाव्याजेन स्तुतौ पर्यवसानं न स्यात् । स्तुतिनिन्दयोः प्रकृताप्रकृतव्यवहाराश्रयत्वादिति ध्येयम् ॥

 अलंकारसर्वस्वकारेण तु “औपम्यगर्भत्वेनापि विशेषणसाम्यं संभवति । यथा-

दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी ।
केशपाशालिबृन्देन सुवेषा हरिणेक्षणा ॥

अत्र हारिणेक्षणामात्रवृत्तेस्सुवेषत्वस्य विशेषणस्य महिम्ना दन्तप्रभासदृशानि पुष्पाणीत्यादियोजनां विहाय दन्तप्रभाः पुष्पाणीवेत्याद्युपमितसमासाश्रयेण कृते योजने प्रकृतार्थसिद्धौ सत्यां वृत्त्यन्तरेण त्यक्ताया एव योजनायाः पुनरुज्जीवने पुष्पपल्लवालिबृन्दैरुपमेयैः आक्षिप्ताया लतायाः प्रत्ययात्तद्व्यवहारारोपः। एवं सुवेषेत्यपहाय परीतेति कृते उपमारूपकसाधकबाधकप्रमाणाभावात्तदुभयसंशयरूपसंकराश्रयेण कृते योजने पश्चात्पूर्वोक्तरीत्या लताप्रतीतेस्समासोक्तिरेव । समासभेदेनार्थभेदेऽपि शब्दैकमादाय श्लिष्टमूलायामिव विशेषणसाम्यं बोध्यम् । आदावन्ते वा रूपकाश्रयेण दन्तप्रभा एव पुष्पाणीति योजने कृते तु हरिणेक्षणांशे आक्षिप्तलतातादात्म्यकेन एकदेशविवर्तिरूपकेणैवाप्रकृतार्थप्रत्ययोपपत्तेर्नार्थस्समासोक्तेरत्र" इत्यभिहितम् ।

 तन्न विचारसहं-दन्तप्रभाः पुष्पाणीवेत्युपमागर्भत्वेनाप्यादौ योजने कृते हरिणेक्षणांशे आक्षिप्तलतोपमानिकया एकदेशविवर्तिन्या उपमयैव गतार्थत्वात्समासोक्तेरानर्थक्यादत्राप्रसक्तेः । न चोद्भटमते एकदेशविवर्तिनोरुपमासंकरयोरस्वीकारात्तथोक्तमिति वाच्यम् । अनुपदमेव स्वयं तत्स्वीकारात् ॥

हालाहलसमो मन्युरनुकम्पा सुधोपमा ।
कीर्तिस्ते चन्द्रसदृशी भटास्तु मकरोद्भटाः ॥

इत्यादौ गत्यन्तराभावात्तेनाप्येकदेशविवर्त्युपमाया एव स्वीकृतत्वाच्च । अवश्यक्लृप्तेनोपपत्तौ भेदान्तरकल्पनानौचित्यात् । तस्मादौपम्यगर्भविशेषणोत्थापितस्समासोक्तिप्रकारो न संगच्छते । यत्र श्लिष्टविशेषणेन शुद्धसाधारणविशेषणेन वा सहचरितमौपम्यगर्भविशेषणं तत्र यद्यप्यस्ति समासोक्तिः । तथाऽपि नासावौपम्यगर्भविशेषणोत्थापितस्तृतीयः प्रभेदो भवितुमीष्टे । स्वतन्त्रविषयत्वाभावात् । यथा--

निर्मलाम्बररम्यश्रीः किंचिद्दर्शिततारका ।
हंसावलीहारयुता शरद्विजयते तराम् ॥

 अत्र पूर्वार्धगतश्लिष्टविशेषणोत्थापितैव समासोक्तिः उत्तरार्धगतेनौपम्यगर्भविशेषणेन विद्वदुत्थापिता युक्तिस्तदनुगामिना मूर्खेणेवानुमोद्यते । एवं ‘दत्तानन्दा समस्तानां प्रफुल्लोत्पलमालिनी’ इति पूर्वार्धे कृते । शुद्धसाधारणविशेषणोत्थापितैव ॥

परिफुल्लाब्जनयना चन्द्रिकाचारुहासिनी ।
हंसावलीहारयुता शरद्विजयते तराम् ॥

इत्यत्रोपमारूपकयोस्साधकस्य बाधकस्य चाभावात्संकरालंकारस्वीकर्तृनये तदुभयसंशयात्मक एकदेशविवर्ती संकरालंकार एव । तदस्वीकर्तृनये च यदोपमितसमासस्फूर्तिस्तदैकदेशविवर्तिन्युपमा । विशेषणसमासस्फूर्तौ तथाविधमेव रूपकमिति प्रथमयोजनयैवाप्रकृतार्थावगतेः द्वितीययोजनायाः परिफुल्लाब्जानीव नयनानीत्युपमागर्भाया वैयर्थ्यादनुत्थानमेव । यदा तु–‘शरद्वर्षासखी बभौ’ इति चतुर्थचरणं निर्मीयते तदा तु शरन्मात्रवृत्तेर्वर्षासखीत्वस्योपादानादब्जचन्द्रिकाहंसप्रधानस्योपमितसमासस्यावश्यकत्वात्प्रथमप्रादुर्भूतया नयनहसहाराक्षिप्तकामिनीरूपोपमानिकया अत एवैकदेशविवर्तिन्या उपमयैव निर्वाह इति वेदितमपि सहृदयप्रीतये पुननिवेदितमिति हि रसगङ्गाधरे स्थितम् । सेयं लौकिके व्यवहारे लैकिकस्य व्यवहारस्य शास्त्रीये शास्त्रीयस्य लौकिके शास्त्रीयस्य शास्त्रीये लौकिकस्य वा समारोप इति चतुर्धा भवति । तत्राद्या प्रागुदाहृताऽपि पुनरुदाह्रियते बालबुद्धिवैशद्याय ॥

 यथा--

 प्रदरक्षोभादस्रं प्रमुञ्चमाना तव द्विषां सेना । दूनाऽभूद्बीभत्सा म्लाना च रघूद्वहातिविचिकित्सा ॥

 हे रघूद्वह ! तव द्विषां सेना प्रदरेण विदारणेन बाणेन भङ्गेन वा यः क्षोभः तस्मात् । पक्षे- प्रदरेण शोणितस्राविणा स्त्रीरोगविशेषेण यः क्षोभः तस्मात् ‘प्रदरा भङ्गनारीरुग्बाणाः' इत्यमरः । ‘प्रदरो रोगभेदे स्याद्विदारे शरभङ्गयोः' इति मेदिनी च । अस्रं अश्रु केशं वा जात्येकवचनम् । अन्यत्र रुधिरं ‘अस्रः कोणे कचे पुंसि क्लीबमश्रुणि शोणिते' इति मेदिनी । प्रमुञ्चमाना विसृजन्ती । मुञ्चतिः स्वरितेत् ततश्शानच् । एकत्र विदारणबाणभङ्गान्यतमजनितवैकल्येन बाष्पायमाणा विकीर्णकेशावेत्यर्थः। अन्यत्र व्याधिविशेषेण रुधिरस्राविणीत्यर्थः । दूना परितप्ता बीभत्सा विकृता बीभत्सरसालम्बनभूता च 'बीभत्सं विकृतं त्रिष्विदं द्वयम्' इत्यमरः । अतिविचिकित्सा अतिमात्रसंश यग्रस्ता प्राणसंशयमापन्नेत्यर्थः । पक्षे- विगता चिकित्सा रुक्प्रतिक्रिया यस्यास्सा तथोक्ता अतिमात्रं विचिकित्सा अतिविचिकित्सा अतिवेलरोगप्रतीकारविधुरेत्यर्थः । म्लाना क्षीणहर्षा च अभूत् । अत्र प्रस्तुते लौकेके भगवत्पराहतरिपुसेनाव्यवहारे लौकिकव्याधितवनिताव्यवहारारोपः ॥

 शास्त्रीये व्यवहारे शास्त्रीयव्यवहारारोपेण यथा--

 श्रुतविधिना मन्त्राऽऽप्त्रा नानामूलार्थवादसंधात्रा । स भवानवेदि निश्चितमच्युत विदुषा सनातनो धर्मः ॥ ७४३ ॥

 हे अच्युत! श्रुतविधिना श्रुतः निशमितः विधिः ‘द्रष्टव्यो निदिध्यासितव्यः' इत्याम्नातो विधिः येन तथोक्तेन । अत एव मन्त्रा मननशीलेन । मननं नाम श्रुतस्यार्थस्य प्रतिष्ठापनाय युक्तिभिरेवमेवेति चिन्तनम् । नानमूलार्थवादसंधात्रा नाना वक्ष्यमाणरीत्या बहुप्रकाराः मूलार्थः 'कारणं तु ध्येयः' इति ध्येयतयोक्तजगत्कारणरूपवस्तु मूलं चासावर्थश्चेति विग्रहः तद्विषये ये वादाः तेषां संधात्रा शेषषष्ठ्या समासः ‘मूलमाद्ये शिफाभयोः, अर्थोऽभिधेयरैवस्तुप्रयोजनविवृत्तिषु’ इति चामरः । "सन्मूलास्सोम्येमाः, अदोमूलाः क्रियास्सर्वाः, मूलमूलेति खिन्ने" इत्यादौ मूलशब्दः कारणवाचितया प्रयुक्तः । अयं भावः-'सदेव सोम्येदमग्र असीत्, ब्रह्म वा इदमेकमेवाग्र आसीत्, आत्मा वा इदमेक एवाग्र आसीत्, हिरण्यगर्भस्समवर्तताग्रे, न सन्न चासच्छिव एव केवलः' इत्यादीनां नानाविधानां करणवाक्यानामेकविषयत्वावश्यंभावे 'छागो वा मन्त्रवर्णात्’ इत्युक्तन्यायेन सद्ब्रह्मात्महिरण्यगर्भशिवादिसामान्यशब्दान् ‘एको ह वै नारायण आसीत्' इति श्रुते नारायणरूपविशेषे पर्यवसाययतेति । आप्त्रा प्राप्त्रा । अनेन ‘ब्रह्मविदाप्नोप्ति’ इत्यत्रोक्तं परप्राप्तृत्वं प्रकटीकृतम् । विदुषा ‘द्वे विद्ये वेदितव्ये परा चैवापरा च ’ ॥

तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक्तं महामुने ।
आगमोत्थं विवेकाच्च द्विधा ज्ञानं तथोच्यते ।
शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् ॥

इत्यत्रोक्तागमोत्थज्ञानवतेत्यर्थः, विवेकादिसाधनसप्तकानुगृहीतोपा सनात्मकज्ञानस्यावेदीति पृथग्वक्ष्यमाणत्वात् । सनातनः नित्यः धर्मः सिद्धधर्मरूपः । अलौकिकश्रेयस्साधनं हि धर्मः । स च सिद्धसाध्यभेदेन द्विविधः सिद्धरूपे वस्तुनि धर्मशब्दप्रयोगोऽपि महाभारते दृश्यते । यथा--

ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः ।
ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम् ॥

इति सिद्धोपायभूत इत्यर्थः । स भवान् प्राप्यरूपस्त्वम् । निश्चितं युक्त्यन्तरैरचाल्यं यथा स्यात्तथा अवेदि उपास्यत । आवृत्त्यधिकरणे विद्युपास्योरैकार्थ्यस्य भाषितत्वात् । उपासनं नाम विजातीयप्रत्ययानन्तरितं अहरहरभ्यासाधेयातिशयं प्रीतिरूपापन्नं दर्शनसमानाकारं ध्यानम् । अनेन ‘द्रष्टव्यो निदिध्यासितव्यः' इत्यसावर्थोऽनुसृतः ॥

 पक्षे –श्रुताः विधयः अपूर्वनियमपरिसंख्याभेदभिदुराः विधयः येन स तथोक्तः । तेन ईदृशविधिस्वरूपपरिज्ञात्रोत यावत् । तत्र यो विधिरत्यन्ताप्राप्तमर्थं प्रापयति सोऽपूर्वविधिः। यथोक्तं ‘विधिरत्यन्तमप्राप्तौ’ इति । यथा दर्शपौर्णमासप्रकरणे “व्रीहीन् प्रोक्षति’ इति एतद्विध्यभावे दर्शपौर्णमासीयव्रीहिषु प्रोक्षणं कथमपि न प्राप्नोति । एतद्विधिसद्भावे तु तदीयव्रीहिषु प्रोक्षणं प्राप्नोत्येवेत्यत्यन्ताप्राप्तप्रोक्षणप्रापकत्वादयमपूर्वविधिः । यो विधिः पक्षे प्राप्तमर्थं नियमयति स नियमविधिः। यथोच्यते— ‘नियमः पाक्षिके सति’ इति । यथा तत्रैव ‘व्रीहोनवहन्ति' इति । एतद्विध्यभावे दार्शपौर्णमासिकेषु व्रीहिषूत्पत्तिवाक्यावगतपुरोडाशोपयोगितण्डुलनिष्पत्त्यनुकूलवैतुष्यरूपकार्यायावहननवत्कदाचिन्नखविदलनमपि प्राप्नुयादिति । तस्मिन्पक्षेऽवहननस्य प्राप्त्यभावात्कार्यान्यथानुपपत्तेरवहननस्य पाक्षिकी प्राप्तिस्स्यात् । सति चास्मिन्विधौ अवहननेनैव वैतुष्यं संपादनीयमिति नियमे सति विदलनमर्थान्निवर्तत इति नियमविधिरयम् । द्वयोस्समुच्चित्य प्राप्तावितरनिवृत्तिफलको विधिः परिसंख्याविधिः । यथोच्यते- ‘तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते' इति । यथा चयनप्रकरणे– इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीमादत्ते' इत्यश्वरशनाग्रहणाङ्गत्वेन मन्त्रविधिः । एतद्विध्यभावे हि रशनाग्रहणप्रकाशको मन्त्रो रशनादानप्रकाशनसामर्थ्यरूपाल्लिङ्गादश्वरशनादान इव गर्दभरशनादानेऽपि नियमेन प्राप्नुयात् । सति चास्मिन्विधौ अनेन मन्त्रेणाश्वरशनमेवाददीत । न तु गर्दभरशनां, सा तु तूष्णीमेव ग्राह्येति गर्दभरशनातो मन्त्रनिवृत्तिर्भवतीति द्वयोस्समुच्चित्य प्राप्तावितरनिवृत्तिफलकत्वादयं । परिसंख्याविधिरिति संक्षेपः । प्रकृतमनुसरामः—मन्त्राप्त्रा । मन्त्रा णामाप्ता प्राप्ता तेन अधिगतमन्त्रेणेत्यर्थः । पूर्ववदेव समासः । प्रयोगसमवेतार्थस्मारका मन्त्राः । तेषां च तादृशार्थस्मारकत्वेनैवार्थवत्त्वम्, न तु तदुच्चारणमदृष्टार्थं, संभवति दृष्टफलकत्वे अदृष्टफलकल्पनाया अन्याय्यत्वात् । नच दृष्टस्यार्थस्मरणस्य प्रकारान्तरेणापि संभवान्मन्त्राम्नानं व्यर्थमिति वाच्यम् । मन्त्रैरेव स्मर्तव्यमिति नियमविध्याश्रयणात् । नानामूलार्थवादसंधात्रा नानामूलानां बहुकारणकानां अर्थवादानां अर्थवादवाक्यानां संधात्रा अर्थवादवाक्यानि विधिवाक्यैकवाक्यतया संयोज्य प्रमाणीकुर्वतेति यावत् ।अर्थवादो नाम प्राशस्त्यनिन्दान्यतरपरं वाक्यम् । तस्य च लक्षणया प्रयोजनवदर्थपर्यवसानम् । तथाहि- अर्थवादवाक्यं हि स्वार्थप्रतिपादने प्रयोजनाभावाद्विधेयनिषेध्ययोः प्राशस्त्यनिन्दितत्वे लक्षणया प्रतिपादयति । स्वार्थमात्रपरत्वे आनर्थक्यप्रसङ्गात् । आम्नायस्य च क्रियार्थत्वात् । न चेष्टापत्तिः ‘स्वाध्यायोऽध्येतव्यः’ इत्यध्ययनविधिना सकलवेदाध्ययनस्य कर्तव्यतां प्रतिपादयता सर्वस्यापि वेदस्य प्रयोजनवदर्थपर्यवसानं सूचयतोपात्तत्वेनानर्थक्यानुपपत्तेः । स च द्विविधः-विधिशेषो निषेधशेषश्च । तत्र ‘वायव्यं श्वेतमालभेत भूतिकामः’ इत्यादिविधिशेषस्य ‘वायुर्वै क्षेपिष्ठा देवता’ इस्यादेर्विधेयार्थप्राशस्त्यबोधकतयाऽर्थवत्त्वम् । 'बार्हिषि रजतं न देयम्' इत्यादिनिषेधशेषस्य ‘सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम्’ इत्यादेर्निषेध्यस्य निन्दितत्वबोधकतयाऽर्थवत्त्वम् । नच प्राशस्त्यादिबोधनस्य निष्प्रयोजनत्वेन नार्थवादस्यार्थवत्त्वमिति वाच्यम् । आलस्यादिवशादप्रवर्तमानस्य पुंसः प्रवृत्त्यादिजनकत्वेन तद्बोधस्योपयोगात् । स पुनस्त्रेधा । तदुक्तम्-

विरोधे गुणवादस्स्यादनुवादोऽवधारिते ।
भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः ॥ इति ॥

अयमर्थः- प्रमाणान्तरविरोधे सत्यर्थवादो गुणवादः । यथा 'आदित्यो यूपः' इत्यादि । यूपे आदित्याभेदस्य प्रत्यक्षबाधिततयाऽऽदित्यवदुज्ज्वलत्वगुणोऽनेन लक्षणया प्रतिपाद्यते । प्रमाणान्तरा वगतार्थबोधकोऽनुवादः । यथा-‘अग्निर्हिमस्य भेषजम्' इति । अत्र हिमविरोधित्वस्याग्नौ प्रत्यक्षावगतत्वात् । प्रमाणान्तरविरोधतत्प्राप्तिरहितार्थबोधको वादो भूतार्थवादः । यथा —‘इन्द्रो वृत्राय वज्रमुदयच्छत्' इत्यादिः । इत्यलं प्रसक्तानुप्रसक्तिकाचापलेन । विदुषा उक्तरीत्या विधिमन्त्रार्थवादवेत्त्रा पुरुषेण विपश्चिता । सनातनः ‘एष धर्मस्सनातनः’ इत्युक्तरीत्या श्रुतिस्मृत्यादिपरंपरागतः । धर्मः साध्यरूपो धर्मः निश्चितं मीमांसान्यायैर्निस्संदिग्धं यथा स्यात्तथा स भवानवेदि ज्ञातः । धर्मो नाम वेदप्रतिपाद्यः प्रयोजनवदर्थः । स च यागादिरेव । प्रयोजनेऽतिव्याप्तिवारणाय प्रयोजनवदिति । भोजनादावतिव्याप्तिवारणाय वेदप्रतिपाद्य इति । अनर्थफलकत्वादनर्थभूते श्येनादावतिव्याप्तिवारणायार्थ इति । नच ‘चोदनालक्षणोऽर्थो धर्मः’ इति सौत्रतल्लक्षणविरोधः । चोदनापदस्य विधिरूपवेदैकदेशपरत्वादिति वाच्यम् । तत्रापि चोदनाशब्दस्य वेदमात्रपरत्वात् । वेदस्य सर्वस्य धर्मतात्पर्यवत्त्वेन धर्मप्रतिपादकत्वादित्यलं विस्तरेण । अत्र ब्रह्ममीमांसाशास्त्रीये प्रस्तुते व्यवहारे अप्रस्तुतकर्ममीमांसाशास्त्रीयव्यवहारारोपः ॥

 यथा वा--

 अप्प्राप्ते पूर्वं त्वयि बहवोऽपि गुणाः परं विधीयन्ते । अन्यत्र तु न विधातुं शक्योऽनेको गुणो भगवन् ॥ ७४४ ॥

 हे भगवन् ! इदं वक्ष्यमाणगुणपौष्कल्यवत्ताभिप्रायगर्भम् । पूर्वं सृष्टेः प्राक् । अपः प्राप्तः अप्प्राप्तः । तस्मिंस्तथोक्ते ‘द्वितीयाश्रित’ इत्यादिना समासः । महार्णवजले शयान इति यावत् । 'यमन्तस्समुद्रे क्रवयोऽवयन्ति, महार्णवे शयानोऽप्सु' इत्यादिप्रमाणत् । अनेन--

आपो नारा इति प्रोक्ता आपो वै नरसूनवः।
ता यदस्यायनं पूर्वं तेन नारायणस्स्मृतः ॥

इति स्मृत्युक्तनारायणशब्दनिर्वचनं दर्शितम् । तेन ‘एको ह वै नारायण आसीन्न ब्रह्मा नेशानो नेमे द्यावापृथिवी' इति श्रुतं कारणत्वमप्याक्षिप्तं भवति । त्वयि परं त्वय्येव । बहवोऽसंख्याता अपि गुणाः कारणत्वौपयिकाः सर्वज्ञत्वसर्वशक्तित्वादयः कल्याणगुणाः विधीयन्ते 'यस्सर्वज्ञस्सर्ववित्' इत्यादिश्रुतिभिरिति भावः । अन्यत्र त्वदतिरिक्ते देवे तु अनेकोगुणः विधातुं न शक्यः । एकोऽपि गुणो न शक्यो विधातुं किमुतानेकः । तवेवान्येषां दैवतानामेकयाऽपि श्रुत्या उक्तविधकल्याणकगुणस्यैकस्याप्यनुक्तेरिति भावः । एतेन कारणवाक्यघटितानां हिरण्यगर्भशिवादिशब्दानामैन्द्रीन्यायेन कयाचिदवयवशक्त्या रूढ्या अपर्यवसानवृत्त्या वा नारायणपरत्वमेवेति पूर्वश्लोकोक्त एवार्थः स्थूणानिखनन्यायेन स्थिरीकृत इत्यवधेयम् ॥

 अन्यत्र--

प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः ।
अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः ॥

इति मीमांसककारिकायाः पूर्वोत्तरार्धयोरर्थः एतत्पद्योत्तरपूर्वार्धाभ्यां वैपरीत्येन वर्णितः । तथाहि -पूर्वं गुणविधानात्पूर्वं अप्प्राप्ते शास्त्रान्तरेणाविहिते कर्मणि अत्र 'अनचि च' इति रेफघटितपकारस्य वैकल्पिकं द्वित्वम् । बहवोऽपि गुणाः अप्रधानभूता अर्थाः परं एकयत्नेनैवेति यावत्। विधीयन्ते विहिता भवन्ति । तथाच सूत्रम्- ‘तद्गृणास्तु विधीयेरन्न विभागाद्विधानार्थेन चेदन्येन शिष्टाः’ इति । अन्यत्र प्राप्ते कर्मणि तु अनेको गुणो न विधातुं शक्यः । अत एव ‘दधि मधु घृतं पयो धाना उदकं तण्डुलास्तत्संसृष्टं प्राजापत्यम्' इति प्रकृत्य ‘चित्रया यजेत पशुकामः' इति मानान्तरप्राप्तकर्मानुवादेन चित्रत्वस्त्रीत्वगुणद्वयविधाने वाक्यभेद इति चित्रापदस्य नामधेयत्वमेव 'यदाग्नेयोऽष्टाकपालो भवत्यमावास्यायां च पौर्णमास्यां चाच्युतो भवति’ इत्यत्र मानान्तराप्राप्ते कर्मणि एकदेवताष्टाकपालपुरोडाशामावास्यापौर्णमास्याद्यनेकगुणविशिष्टो द्रव्यदेवतासंबन्धेनानुमितो यागो विधीयत इति विशिष्टकर्मविधानान्न वाक्यभेद इति व्यवस्थापितमाकरे । एवमन्यत्रापि द्रष्टव्यमिति संक्षेपः। अत्रापि पूर्ववदेव शास्त्रीये व्यवहारे शास्त्रीयव्यवहारारोपः ॥

 यथा वा-

 ब्रह्म जयतादपूर्वं करणादिकमपि यदन्वयादेव । प्राप्नोति शक्तिमत्त्वं प्रभाकराद्याश्च यदनुगा विबुधाः ॥ ७४५ ॥

 अपूर्वं ‘न चास्य कश्चिज्जनिता’ इत्युक्तरीत्या कारणान्तररहितं कार्याणां कारणं पूर्वम्' इत्युक्तरीत्या सकलजत्कारणभूतमित्यर्थः । ब्रह्म भगवान् जयतात् । यस्य ब्रह्मणः अन्वयात् प्रेरणादेवेति यावत् । करणादिकं इन्द्रियादिकमपि आदिशब्देन प्राणादिकं गृह्यते । शक्तिमत्त्वं स्वस्वविषयकार्यक्षमत्वं प्राप्नोति-

केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः।
केनेषितां वाचमिमां वदन्ति चक्षुश्श्रोत्रं क उ देवो युनक्ति ॥

इति परब्रह्मलस्वरूपपश्ने--

श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणः ।
चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥

इत्युत्तररूपा श्रुतिरत्रानुसंहिता ॥ प्रभाकराद्याः सूर्यप्रमुखाः विबुधाः देवाः यदनुगाः यच्छासनानतिवर्तिन इति यावत् । 'एतस्य ना अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः, भीषास्माद्वातः पवते भीषोदेति सूर्यः’ इत्यादिश्रुतिभ्यः॥

 पक्षे- अपूर्वं मीमांसकाभ्युपगतं किंचिद्वस्तु । विहितनिषिद्धकर्मणां तत्तद्वाक्यैस्तत्तत्फलसाधनत्वेऽवगते आशुविनाशिनां कर्मणां कालान्तरभाविफलसाधनत्वस्योपपत्त्यर्थमन्तरा पुण्यपापरूपमदृष्टापरपर्यायमपूर्वं नाम किंचित्तैर्हि कल्पितम् । तच्चोत्पत्त्यपूर्वं फलापूर्वमित्याद्यनेकविधम् । करणादिकं 'साधकतमं करणम्’ इत्याद्यृक्तं कारकवाचि पदजातमपि । येन अपूर्वेण अन्वयात् अन्वितत्वादेव शक्तिमत्त्वं मुख्यार्थवत्त्वं प्राप्नोति । ते हि पदानामन्विताभिधायित्वेन कारकपदानामपूर्वकार्यान्विताभिधायिनां तदन्वित एव मुख्यार्थः, तदन्वयपरित्यागे लक्षणैवेति वदन्ति । प्रभाकराद्याः प्रभाकरो नाम तान्त्रिकाग्रणीः स एवाद्यो येषां ते विबुधाः विपश्चितः यदनुगाः यत् अपूर्वं अनुगच्छन्तीति तथोक्ताः अपूर्वप्रतिपादनपरा इत्यर्थः । अत्रापि पूर्ववदेव व्यवहारारोपः ॥

 यथा वा-

 विविधपदनामरूपव्याकरणकृता त्वयैव ननु भगवन् । मृत्युंजयस्य सुतरामुमागमश्रीर्व्यधीयतार्धाङ्गे ॥ ७४६ ॥  हे भगवन् ! विविधानां पदानां वस्तूनां नामरूपयोः देवादिनामधेयविचित्रसृष्ट्योः व्याकरणं विभागः तत्करोतीति तथोक्तः तेन । ‘अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि' इति श्रुतेः । त्वयैव मृत्युंजयस्य पिनाकिनः अर्धाङ्गे अर्धशरीरे सुतरां अतिसुष्ठ उमागमश्रीः उमायाः गौर्याः आगमश्रीः संबन्धसंपत् । व्यधीयत अक्रियत । विविधप्रपञ्चनामरूपव्याकर्तारं त्वामन्तरेण पुरारातेरर्धाङ्गनाङ्गत्वं को नु नामान्यो विदधीतेति भावः ॥

 अन्यत्र- विविधानां पदानां सुप्तिङ्ङन्तात्मकानां नाम्नां कृदन्तादिप्रातिपदिकानामपि यानि रूपाणि तेषां व्याकरणं प्रकृतिप्रत्ययाद्यन्वाख्यानं करोतीति तथोक्तेन । मृत्युंजयस्य मृत्युंजयशब्दस्य अर्धाङ्गे तस्य शब्दस्य वर्णचतुष्टयात्कतया वर्णद्वयस्यार्धाङ्गत्वं, तत्र आद्यवर्णद्वयचरमभागे इति यावत् । सुतरा अतिवेलरमणीया उच्चारणे कोमलतासंपादनादिति भावः । मुमागमस्य मुमित्याकारकागमस्य श्रीः 'संज्ञायां भृतृवृजि' इत्यादिना खचि ‘अरुद्विषदजन्तस्य मुम्’ इत्यनेन मुमागम इत्यर्थः। व्यधीयत विहिता । अत्र प्रस्तुते वेदान्तशास्त्रीयव्यवहारे अप्रस्तुतशब्दशास्त्रीयव्यवहारारोपः ॥

 यथा वा--

 साधुक्रियाप्रधानकमाख्यातं येन विश्वमनुशिष्टम् । नामानि तस्य सत्त्वप्रधानतां दधति तव विभान्ति विभो ॥ ७४७ ॥

 हे विभो! येन त्वया 'सत्त्वस्यैष प्रवर्तकः’ इति सत्त्वप्रवर्तकतया श्रुतेन भवता । विश्वं कृत्स्नं जगत् साधुक्रिया प्रशस्तकर्म प्रधानं अनुष्ठेयतया मुख्यं यस्य तत् साधुक्रियाप्रधानकं सत् अनुशिष्टं लक्षितं उज्जीवितमिति यावत् । यद्वा- साधुक्रियाप्रधानकं यथा तथा अनुशिष्टमिति योज्यम् । आख्यातं उक्तरीत्या प्रतिपादितं ‘एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषति’ इत्यादिश्रुतिभिरिति भावः । 'विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति । पतिं विश्वस्य’ इत्यादिश्रुतयोऽप्यत्रानुसन्धेयाः । तस्य उक्तरीत्या विश्वानुशासितुः तव नामानि अभिधानानि सत्त्वप्रधानतां सत्त्वगुणप्राधान्यं सत्त्वप्रवृत्तिनिमित्तकतामिति यावत् । सत्त्ववान्सात्विकः' इति नामसहस्रपाठादिति भावः । यद्वा- सतो भावस्सत्वं तत्प्राधान्यं दधातदधानानि ‘सदसत्क्षरमक्षरम्' इति तत्रैव पाठात् । 'ओं तत्सदिति निर्देशो ब्रह्मणास्त्रिविधस्स्मृतः’ इत्युक्तेश्चेति भावः । दधतीत्यत्र ‘वा नपुंसकस्य’ इति नुमो वैकल्पिकत्वात्तदभावः । विभान्ति । अथवा- उक्तरीत्या सकलभुवनानुशासितुस्तव दिव्यनामानि कर्तॄणि कीर्तयतां जनानां सात्त्विकतां पुष्णन्ति प्रकाशन्त इत्यर्थः ।

 पक्षे– येन यास्केनेति प्रतीयते । विश्वं सर्वं आख्यातं तिङ् क्रियाप्रधानकं साधु यथा स्यात्तथा अनुशिष्टं देवदत्तस्तण्डुलं पचतीत्यादौ शाब्दबोधे देवदत्तकर्तृकस्तण्डुलकर्मकः पाक इत्याख्यातस्य क्रियाप्राधान्यं ‘भावप्रधानमाख्यातम्' इति तेनानुशिष्टमिति भावः । भावः क्रिया । आहुश्च-

फलव्यापारयोर्धातुराश्रये तु तिङस्स्मृताः ।
फले प्रधानं व्यापारास्तिङर्थस्तु विशेषणम् ॥

इति । तस्य यास्कस्येति प्रतीयते । नामानि कृदन्तादिप्रातिपदिकानि सत्वप्रधानानि द्रव्यप्रधानानि सन्ति विभान्ति । पाचक इत्यादौ नाम्नि बोधे पाकाश्रय इत्यादेर्द्रव्यप्राधान्यस्य ‘सत्त्वप्रधानानि नामानि’ इति तेनानुशिष्टत्वादिति भावः । अत्रापि प्रस्तुते वेदान्तशास्त्रीयव्यवहारे अप्रस्तुतशब्दशास्त्रीयव्यवहारारोपः ॥

 यथावा-

 अपि पापकारिणमहो सुभजन्तं साधुकारिवज्जानन् । अस्वपदविग्रहमथ स्वनिभं च तनोषि नाथ सुमनास्तम् ॥ ७४८ ॥

 हे नाथ! त्वं पापकारिणमपि पापंकरोतीति पापकारी तथोक्तमपि ‘सुप्यजातौ’ इते तच्छील्ये णिनिः । सुभजन्तं आत्मानं सम्यगनन्यभाक्त्वेन भजमानं जनं साधु करोतीति सधुकारी साधुकर्मकृत् । पूर्ववदेव णिनिः । तेन तुल्यं तद्वत् जानन् साधुकारिपापकारिपदाभ्यां "साधुकारी साधुर्भवति पापकारी पापो भवति” इति श्रुतिः प्रत्यभिज्ञाप्यते । आदौ दुष्कृतकारिणमप्यात्मानं सम्यग्भजमानं पुमांसं साधुकारिवज्जानन् ।

अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यस्सम्यग्व्यवसितो हि सः ॥

इति स्वेनैव गीतत्वादिति भावः । तं पुमांसं अस्वपदविग्रहं स्वपदाभ्यां स्वचरणाभ्यां विग्रहः कलहः विवाद इति यावत् स न विद्यते यस्य तं तथोक्तं तनुषे ।

यमो वैवस्वतो राजा यस्तवैष हृदि स्थितः ।
तेन चेदविवादस्ते मा गङ्गां मा कुरून्गमः ॥

इत्युक्तरीत्या सर्वान्तर्यामिणा सर्वस्वामिना स्वेनाविवदमानं विधत्स इत्यर्थः । अत्र ‘त्वं मेऽहं मे’ इत्युक्तरीत्या भगवता सह प्रत्यगात्मनो विवादस्तत्पदयोरौपचारिकस्तद्गौरवप्रदर्शनायोक्तः, चरणानुग्रह इत्यादिवत् । उदाहृतेऽस्मिन्वचने यमवैवस्वतराजशब्दाः भगवत्पराः । अविवादशब्दस्तु तत्पदयोरात्मरक्षाभरसमर्पणपर इति ध्येयम् । यथैतद्विवृतं वरदगुरुभिः—

दक्षिणाशापतेरत्र न मुख्या हृदयस्थितिः ।
अन्तःप्रविष्टश्शास्ता यो जनानां यमयत्यपि ॥
अत्मानमन्तरस्तस्य मृत्युमृत्योर्हृदि स्थितः ।
तेन सर्वाधिराजेन विवस्वद्बिम्बवर्तिना ।
अविवादस्तु तस्यैव पदयोरात्मनोऽर्पणम् ।

इति । स्वचरणारविन्दसमर्पितात्मरक्षाभरं विदधासीति भावः । अथ एवमात्मरक्षाभरार्पणानन्तरं आर्त्याधिक्ये तत्क्षणमेव । दृप्तत्वे तच्छरीरावसाने इति भावः । तं प्रपन्नं स्वनिभं स्वेन तुल्यं च तनोषि 'निरञ्जनः परमं साम्यमुपैति' इत्याद्युक्तरीत्या परमसाम्यापन्नं विदधासीत्यर्थः । उक्तेऽर्थे हेतुमभिप्रयन्नाह-सुमना इति । दयमानमहोदारमानस इत्यर्थः ॥

 पक्षे– सुमनाः विद्वानित्यर्थः । पापकारिणं सुभजन्तं च शब्दं साधुकारिवत् साधुकारिशब्दतुल्यं जानन् अस्वपदविग्रहं स्वघटकयावत्पदविग्रहविरहिणं तनोषि । पापकारिसाधुकारिशब्दयोः ‘उपपदमतिङ्' इत्यनेन सुभजच्छब्दस्य ‘कुगतिप्रादयः' इत्यनेन च सूत्रेण समासविधानात् । तयोश्च ‘नित्यं क्रीडा' इत्यतो नित्यमित्यनुवृत्त्या तद्विहितसमासस्य नित्यत्वात् । अत- एव ह्यस्वपदविग्रहः ‘अविग्रहो नित्यसमासः अस्वपदविग्रहो वा' इत्युक्तेः । विग्रहो नाम समस्यमानानां पदानां व्यस्ततया प्रदर्शनं, ‘विभज्य गृह्यते यस्स विग्रहः परिकीर्तितः' इत्युक्तेः, ‘विग्रहस्समरे देहे विस्तरेऽपि’ इति रत्नमाला । अथ स्वनिभं स्वनिभशब्दं च अस्वपदविग्रहं तनुषे इति योजना । तस्यापि नित्यसमासत्वादिति भावः ‘स्युरुत्तरपदे त्वमी’। ‘निभसंकाशनीकाशप्रतीकाशोपमादयः’ इत्युत्तरपदभूतस्यैव निभशब्दस्य तुल्यार्थकत्वानुशासनात् । उत्तरपदशब्दश्च समासचरमावयवे रूढः । अत्रापि पूर्ववदेव व्यवहारारोपः ॥

 यथावा--

 शास्त्रप्रसिद्धिसुभगे निरन्तरं भात्यतो गुणे परतः । अपदान्तस्थितिभाजस्तस्यास्य बुधस्य भवति पररूपम् ॥ ७४९ ॥

 शास्त्रे औपनिषददहरविद्यादौ प्रसिद्धिः ख्यातिः तया सुभगे रमणीये गुणे ‘अपहतपाप्मा विजरो विमृत्युः, विज्ञानघन एव’ इत्यादिश्रुते गुणे । जात्यभिप्रायकमेकवचनम् । परतः परस्मात् अतः अकारवाच्यान्नारायणात् ‘अ इति भगवतो नारायणस्य प्रथमाभिधानम्’ इत्याद्युक्तेः । परब्रह्मणस्सकाशात् तदनुग्रहादिति यावत् । निरन्तरं निश्शेषाविद्यानिवृत्त्या निरर्गळं यथा स्यात्तथा भाति सति । यद्वा अतःपरत इति षष्ठ्यर्थे । सार्वविभक्तिकस्तसिः । परतः अतः परस्य ब्रह्मणः गुणे इति योजना । अपहतपाप्मत्वादौ ब्राह्मे गुणे इत्यर्थः । निरन्तरं भाति नित्यं प्रकाशमाने सतीत्यर्थः । अपदान्तस्थितिभाजः अस्य अकारवाच्यस्य नारायणस्य पदं ‘तद्विष्णोः परमं पदम्' इत्याम्नातं स्थानं तस्मिन् तस्य वा अन्तः मध्ये रेफान्तमधिकरणशक्तिप्रधानमव्ययम् । स्थितिभाजः तस्यास्य परब्रह्मप्रसादाविर्भूतब्राह्मगुणस्यास्य बुधस्य ब्रह्मविदः पररूपं परस्य ब्रह्मणो रूपं 'निरञ्जनः परमं साम्यमुपैति’ इति श्रुतं परमसाम्यमिति यावत् । भवति निष्पद्यते । अत्र फलाध्यायस्थब्राह्माधिकरणार्थोऽनुसन्धेयः । तत्र हि ‘स्वेन रूपेणाभिनिष्पद्यते’ इत्यत्र अभिनिष्पाद्यतथोक्तं किमपहतपाप्मत्वादिकमेव उत ज्ञानमात्रमेव आहोस्विदुभयमपीति विशये मुक्तमधिकृत्यापहतपाप्मत्वाद्युपन्यासात्तेन रूपेणैवाविर्भवतीति ‘ब्राह्मेण जैमिनिरुपन्यासादिभ्यः' इति सूत्रेण जैमिनिमतमनूद्य ‘विज्ञानघन एव’ इत्यादिषु ज्ञानमात्रमेवास्य स्वरूपमित्यवगमात्, अपहतपाप्मादिशब्दानां शोकाद्यभावपरत्वाच्च ज्ञानमात्रस्वरूपेणाविर्भवतीति ‘चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमिः’ इत्यौडुलोमिमतमुपन्यस्य पक्षद्वयेऽप्यन्यतरश्रुतिबाधात् "विज्ञानघन एव’ इत्यवधारणस्य एकदेशजडत्वशङ्काव्युदासपरत्वेन गुणान्तरप्रतिक्षेपकत्वाभावादुभयरूपेणाविर्भवति” इति ‘एवमप्युन्यासात्पूर्वभावादविरोधं बादरायणः’ इति सूत्रेण मतद्वयमपि प्रतिक्षिप्तम् ॥

 पक्षे- अतः ह्रस्वाकरात् परतः परत्र विद्यमाने शास्त्रप्रसिद्ध्या शब्दविद्याप्रसिद्ध्या सुभगे गुणे गुणसंज्ञके अकारादौ वर्णे निरन्तरं भाति संहितायां अव्यवधानेन भासमाने सति पदं सुप्तिङन्तात्मकं तस्य अन्तः चरमभागः पदान्तः स न भवतीत्यपदन्तः तस्मिन् पदान्तभिन्ने स्थितिभाजः तस्य गुणावधित्वेन पूर्वमुक्तस्य अस्य ह्रस्वाकारस्य पररूपं परस्य गुणसंज्ञकवर्णस्य रूपं तद्रूप एकादेश इत्यर्थः । भवतीति 'अतो गुणे’ इति सौत्रोक्तप्रक्रिययाऽर्थोऽनुसन्धेयः । अत्रापि पूर्ववदेवारोपः ॥

 यथा वा--

 अचिदिह योऽनड्वानिव सन्मार्गस्रदपि तव दृशो  विषयः । तं स्वपदान्ते दमितं विद्वांसमघध्वसं च विदधासि ॥ ७५० ॥

 यः पुमान् अनड्वान् वृषभ इव अचित् ज्ञानहीनः ‘चित्संवित्प्रतिपद्ज्ञप्तिचेतनाः' इत्यमरः । ‘ज्ञानेन हीनः पशुभिस्समानः’ इत्युक्ते । सन्मार्गात्स्रंसत इति सन्मार्गस्रदपि तव दृशः कटाक्षस्य विषयः यादृच्छिकादिसुकृतवशादिति भावः । भवेदिति शेषः । तं पुमांसं दमितं दान्तं ‘दमु उपशमे' णिजन्तादस्मात् क्तः ‘वा दान्त’ इति निपातनस्य वैकल्पिकतया पक्षे इट् । ‘दान्तस्तु दमिते' इत्यमरः । ‘शान्तो दान्तः’ इत्युक्तरीत्या साधनसंपन्नमित्यर्थः । अथ विद्वांसं ब्रह्मविदं अत एव अघे उत्तरपूर्वे पुण्यपापरूपे ध्वंसयत इत्यघध्वत् तथोक्तं अघध्वसं च 'तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात्’ इत्युक्तप्रक्रियया अश्लिष्टविनष्टोत्तरपूर्वाघं सन्तमिति भावः । ध्वंसेर्णिजन्तात् क्विपि ‘णेरनिटि’ इति णिलोपः । विद्वांसमघध्वसमित्याभ्यां ‘तदा विद्वान् पुण्यपापे विधूय’ इत्यस्याश्श्रुतेरर्थ उक्तः । स्वपदान्ते परमपदमध्ये स्वचरणसन्निधौ वा विदधासि स्थापयसीत्यर्थः ॥

 पक्षे- यः अचित् अचिदित्याकारकश्शब्दः ‘चिती संज्ञाने' संपदादित्वात्क्विप् । तान्तोऽयं चिच्छब्दः । ततो नञ्समासः । यः अनड्वानव अनडुच्छब्द इव विद्यमानः सन्मार्गस्रच्छब्दश्च तव दृशो ज्ञानस्य विषयो गोचरो भवति तं अचिच्छब्दं अनडुच्छब्दतुल्यं सन्मार्गस्रच्छब्दं विद्वांसं विद्वच्छब्दं अघध्वसं अघध्वच्छब्दं च स्वपदान्ते स्वस्वरूपं यत्पदं ‘स्वादिष्वसर्वनामस्थाने’ इति विहितपदसंज्ञाशालि प्रातिपदिकं तस्य अन्ते अन्तिमवर्णे तकारहकारसकाररूपे दं दकारं इतं प्राप्तं तकारादिस्थानिकदकारवन्तं विदधासि अचिच्छब्दस्य तकारान्तस्यपदान्ते ‘झलां जशोऽन्ते’ इति जश्त्वेन दकारविधानात् अनडुदादिशब्दानां वसुस्रंसुध्वंस्वनडुहां दः' इति सूत्रेण पदान्ते दत्वविधानाच्चेति भावः । अत्रापि पूर्ववदेव शास्त्रीये व्यवहारे शास्त्रीयव्यवहारारोपः ॥

 यथा वा--

 ननु सर्वनामतां हरिरयते स्वयमन्तरो बहिर्योगात् । पूर्वः परश्च विदितोऽसंज्ञायां धीमतां व्यवस्थायाम् ॥ ७५१ ॥

 अयं हरिः स्वयं अन्तरः ‘यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरः' इत्याद्युक्तरीत्या अन्तर्यामितयाऽन्तर्व्यापनशीलः बहिर्योगात् बहिर्व्याप्तेः सर्वनामतां सर्वनामधेयतां ‘अन्तर्बहिश्व तत्सर्वम्’ इत्युक्तरीत्या सर्वव्यापितया सर्वशब्दवाच्यतामित्यर्थः । अयते प्राप्नोति ‘अन्तर्बहिश्च नारायणः, नारायण एवेदँ सर्वम्, पुरुष एवेदँ सर्वम्, यद्भूतं यच्च भव्यम्, सर्वं खल्विदं ब्रह्म, सर्वत एव सर्वः' इत्यादीनि प्रमाणान्यत्र स्मर्तव्यानि । अत एव सर्वश्शर्वः' इति तन्नामसु पठ्यते । किंच असंज्ञायां संज्ञा नाम संकेतः संकेतमात्रेणानिर्वृत्तायां किंतु शास्त्रीयेणैव पथा निष्पादितायामित्यर्थः । धीमता ब्रह्मविदां व्यवस्थायां सिद्धान्तस्थित्यामिति यावत् । पूर्वः ‘एष पूर्वस्य देवस्य लोककर्तुस्सनातनः' इत्याद्युक्तरीत्या सकलजगत्कारणभूतः परः सर्वोत्तर इति च 'परः पराणां, तमीश्वराणां परमं महेश्वरम्' इत्यादिश्रवणात् । विदितः ज्ञात इत्यर्थः । यद्वा-‘ब्रदैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण । अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम्' इत्याद्युक्तरीत्या पूर्वपरादिदिग्दृश्यमानस्सर्वः पदार्थोऽप्ययमेवेति ज्ञात इत्यर्थः । अत्र मूले पूर्वपरशब्दौ श्रुतिगतदक्षिणोत्तरादिशब्दानामुपलक्षकाविति ध्येयम् ॥

 पक्षे— अयं अन्तरः अन्तरशब्दः बहिर्योगत् बाह्यरूपार्थवत्त्वात् सर्वनामतां सर्वनामसंज्ञां अयते । असंज्ञायां संज्ञाभिन्ने व्यवस्थायां स्वाभिधेयापेक्षावधिनियमरूपार्थे धीमतां विदुषां विदितः। मतिबुद्धीत्यादिना वर्तमाने क्तः ‘क्तस्य च वर्तमाने इति तद्योगे षष्ठी । पूर्वः पूर्वशब्दः परः परशब्दश्च सर्वनामतामयत इति योजना । अत्रार्थेऽपि पूर्वपरशब्दौ वक्ष्यमाणसूत्रस्थावरदक्षिणादिशब्दानामुपलक्षकाविति ध्येयम् । अन्तरशब्दस्य 'अन्तरं बहिर्योगोपसंव्यानयोः' इति बाह्यरूपार्थे पूर्वपरशब्दयोः 'पूर्वपरावर’ इति सूत्रेणासंज्ञायां व्यवस्थायां च सर्वनामतानुशासनादिति भावः । अत्रापि पूर्ववदेव समारोपः ॥

 यथा वा--

 त्वय्यच्युतान्तरङ्गे सकलं बहिरङ्गमप्यसिद्धं नः । नाजानन्तर्ये तव बहिष्ट्वक्लृप्तिः पुनः कदाऽपि भवेत् ॥ ७५२ ॥

 हे अच्युत ! त्वयि विषये नः अन्तरङ्गे मनसि सति त्वां ध्यायति सतीति यावत् । सकलं बहिरङ्गं करचरणाद्यवयवजातमपि असिद्धं बाह्यविषयकप्रत्ययवैधुर्यात्सकलावयवानामविद्यमानवद्भानादिति भावः । अनेन ध्यानस्यैकाग्र्यं दर्शितम् । तत्र हेतुमाह--नेति । न, अज, आनन्तर्ये, इतिच्छेदः । हे अज ! भगवन्! ‘अजश्शम्भौ विष्णुधात्रोः' इति रत्नमाला । तव आनन्तर्ये अनन्तरस्य भावः आनन्तर्यं तस्मिन् अविनभावे सतीत्यर्थः । अन्तरङ्गस्येत्यर्थाल्लभ्यते । पुनः बहिष्ट्वक्लूप्तिः बहिर्भावकल्पनं पुनर्विश्लेष इति यावत् । कदाऽपि न भवेत् । अतो वहिरङ्गमखिलं न ज्ञानविषयतां प्रपद्यत इत्यर्थः । यदि त्वयि लग्नं मनो बहिर्मुखं भवेत्तर्हि बहिरङ्गमसिद्धवन्न स्यादिति भावः । अनेनैवाभिप्रायेणाच्युतेति भगवत्संबोधनम् । 'यस्मात्प्राप्ता न च्यवन्ते सोऽच्युतः' इति हि निरुच्यने । भगवति लग्नस्य यस्यकस्यापि वस्तुनस्तस्माच्च्युतिर्न भवतीत्यभिप्रायः ॥

 पक्षे–पूर्वार्धेन ‘असिद्धं बहिरङ्गमन्तरङ्गे’ इति परिभाषा, उत्तरार्धेन तदपवादभूता “नाजानन्तर्ये बहिष्ट्वप्रक्लूप्तिः' इति परिभाषा च दर्शिता । अन्तरङ्गे कार्ये कर्तव्ये बहिरङ्गमसिद्धं स्यादित्यन्तरङ्गपरिभाषाया अर्थः । अचोऽन्यानन्तर्यनिमित्तकेऽन्तरङ्गं कर्तव्ये जातस्य बहिरङ्गस्य बहिष्ट्वप्रक्लूप्तिः बहिष्पदेन बहिरङ्गं गृह्यते तस्य भावो बहिष्ट्वं बहिरङ्गत्वं तत्प्रयुक्तासिद्धत्वस्य न प्रक्लूप्तिः न प्राप्तिरिति नाजानन्तर्यपरिभाषाया अर्थः । विस्तरस्त्वन्यत्र । अत्रापि पूर्ववदेवारोपः ।

 यथा वा--

 व्याप्त्या प्रथितमबाधं निष्प्रतिपक्षं च साधुपक्षस्थम् । सद्धेतुमीश जगतां त्वां प्राप्येष्टानि साधयन्ति बुधाः ॥ ७५३ ॥

 हे ईश ! भगवन् ! बुधाः सुधियः व्याप्त्या ‘अन्तर्बहिश्च तत्सर्वम्' इत्यादिश्रुत्युक्तव्यापनेन प्रथितं अविद्यमाना बाधा दुःखं यस्य तं ‘पीडा बाधा व्यथा दुःखम्' इत्यमरः । ‘न जराः न शोको न मृत्युः' इत्यादिश्रुतिरिहानुसन्धेया । निष्प्रतिपक्षं ‘तेन कोऽर्हति स्पर्धितुम्’ इति श्रुतेः । साधूनां ज्ञानिनां पक्षे तिष्ठतीति साधुपक्षस्थः तं ‘ज्ञानी त्वात्मैव मे मतं, स च मम प्रियः' इति गानात् । सद्धेतुं 'सदेव सोम्य' इत्याद्युक्तरीत्या सकलजगत्कारणमित्यर्थ । त्वां प्राप्य उपास्य इष्टानि मुक्तैश्वर्यादीनि साधयन्ति ॥

 अन्यत्र-साधु पक्षस्थमिति पदद्वयम् । जगतामीशेति संबोधनम् । व्याप्त्या यत्र धूमस्तत्राग्निरित्यादिसाहचर्यनियमेन प्रथितं बाधो नाम साध्याभाववत्पक्षः । स नास्ति यस्य तं अबाधम् । प्रतिपक्षो नाम स्वसाध्यविरुद्धसाध्याभावसाधकप्रतिहेतुमत्पक्षः स निर्गतो यस्य तं निष्प्रतिपक्षम् । पक्षे संदिग्धसाध्यवति पर्वतादौ तिष्ठतीति पक्षस्थः तम् । अत एव सद्धेतुं धूमादिं प्राप्य ज्ञात्वा इष्टानि वह्न्यादीनि साधयन्तीत्यर्थः । अत्र वेदान्तशास्त्रीयव्यवहारे प्रस्तुते अप्रस्तुतन्यायशास्त्रीयव्यवहारारोपः पूर्वेभ्यो विशेषः ॥

 यथा वा--

 यत्र त्वं तत्र श्रीरिति युवयोस्साहचर्यनियमोऽस्ति । व्याप्तिश्चैषाऽच्युत तत्साध्या सत्पक्षवर्तिनस्त्वच्छ्रीः ॥ ७५४ ॥

 हे अच्युत ! यत्र यस्मिन् देशे त्वं भवसि, तत्र श्रीर्लक्ष्मीरपि भवति । इति युवयोः तव श्रियश्च ‘त्यदादीनि सर्वैर्नित्यम्’ इति युष्मच्छब्दैकशेषः साहचर्यनियमः अस्ति-

देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी ।
विष्णोर्देहानुरूपां वै करोत्येषाऽऽत्मनस्तनुम् ॥

इत्युक्तप्रक्रियया नियतसाहचर्यमस्तीति भावः । 'नित्यैवैषा जगन्माता विष्णोश्श्रीरनपायिनी’ इत्यादिकमपि भाव्यम् । एषा व्याप्तिश्च-

यथा मया जगद्व्याप्तं स्वरूपेण स्वभावतः ।
तया व्याप्तमिदं सर्वं नियन्त्री च तथेश्वरी ।
मया व्याप्ता तथा साऽपि तया व्याप्तोऽहमीश्वरः ॥

इति लक्ष्मीतन्त्रोक्ता व्याप्तिरपि अस्तीति संबध्यते । तत् तस्मात् सत्पक्षवर्तिनः ब्रह्मवित्पक्षपातिनः--

चतुर्विधा मम जना भक्ता एव हि ते मताः ।
तेषामेकान्तिनश्श्रेष्ठास्ते चैवानन्यदैवताः ॥

इति स्वेवैवोक्तत्वादिति भावः । साधुजनपक्षपातिन इति वा ।‘ममप्राणा हि पाण्डवाः’ इति तदुक्तेरिति भावः । त्वत् नित्यानपायिलक्ष्मीकाद्भवतः । श्रीः साध्यते-

चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह ।
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥

इत्याद्युक्तरीत्या महाविभूतेस्त्वत्त एव ऐहिकामुष्मिकापवर्गिकसर्वविधसमृद्धिस्साध्यत इति भावः । जातवेदश्शब्दो भगवत्परतया व्याख्यातश्रीसूक्तभाष्ये । ‘सकलफलप्रदो हि विष्णुः । किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने' इत्यादिप्रमाणान्यत्रानुसंधेयानि ॥

 पक्षे -युवयोः यत्र त्वं तत्र श्रीरिति यत्र धूमस्तत्राग्निरित्यादिवत्साहचर्यनियमः अस्ति व्याप्तिश्च व्याप्तिरपि एषा इयमेव । सर्वं हि वाक्यं सावधारणम् । साहचर्यनियम एवेत्यर्थः । ‘साहचर्यनियमो व्याप्तिः इति हि तल्लक्षणम् । इयमिति विधेयव्याप्तिशब्दगतलिङ्गकटाक्षेण । ततः उक्तविधव्याप्तिसद्भावादेव पक्षवर्तिनः, पक्षे 'सन्दिग्धसाध्यवान्पक्षः' इत्युक्तलक्षणे पर्वतादौ वर्तत इति तथोक्तः । तस्मात् त्वत्तः सद्धेतुभूताद्भवतः श्रीः लक्ष्मीः साध्यते वह्न्यादिरिवेति भावः । अत्रापि पूर्वोदाहरण इवारोपोऽनुसन्धेयः ॥

 यथा वा-

 यस्मिन्निश्चितमच्युत साध्यं निश्श्रेयसं वसत्यन्तः । त्वद्भक्तो न्यायविदां स सपक्षस्स्यात्फणाधरगिरीन्दो ॥ ७५५ ॥

 हे फणाधरगिरीन्दो! अच्युत ! यस्मिन् पुंसि अन्तः मनसि निःश्रेयसं मुक्तिः निश्चितं यथा स्यात्तथा साध्यं साधनीयं सत् वसति । साध्यं निश्चितमिति वा योजना, साध्यत्वेन निश्चितं सद्वसतीत्यर्थः । ‘सविशेषणे हि’ इति न्यायेन साध्यत्वेन निश्श्रेयसविषयकनिश्चयो मनस्वस्तीति यावत् ।

यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्सांपराये महति ब्रूहि नस्तत् ।
योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते ॥

इत्युक्तरीत्या नचिकेतसो मनसीवेति भावः । अन्तर्निश्श्रेयसं वसतीत्ययं निर्देशः ‘कर्तुं वा कच्चिदन्तर्वसति वसुमतीदक्षिणस्सप्ततन्तुः’ इतिवदिति ध्येयम् । सः त्वद्भक्तः न्यायविदां ब्रह्ममीमांसानयविदां गौतमीयन्यायवेत्तॄणां च । सपक्षः सदृशः पक्षोऽस्य सपक्षः स्ववर्गीण इत्यर्थः । स्यात् त्वादृङ्नो भूयान्नचिकेतः प्रष्टा’ इत्युक्तरीत्या छात्रत्वेन स्वीकार्यो भवेदिति भावः। अत्रापि वेदान्तशास्त्रीये प्रस्तुते व्यवहारे ‘निश्चितसाध्यवान्सपक्षः' इति न्यायशास्त्रीयस्याप्रस्तुतव्यवहारस्यारोपः । निश्चितं यत्साध्यं वह्न्यादि तद्वान्महानसादिः सपक्षः सपक्षसंज्ञक इति तदर्थः॥

 यथा वा--

 स प्रकृतिविकृतिभावं भजते साक्षी भवान्वरद पुरुषः। अविकृतिराद्यप्रकृतिर्महतोऽप्यन्यस्य स भवितैव खलु ॥ ७५६ ॥

 हे वरद ! अविकृतिः निर्विकारा आद्यप्रकृतिः अखिलभुवनानां प्रथमोपादानकारणभूतः । प्रकृतिशब्दो नित्यस्त्रीलिङ्गः ‘वासुदेवः परा प्रकृतिः, प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्' इत्यादिकमिहानुसन्धेयम् । अविकृतिरिति विशेषणेन 'अचेतना परार्था च नित्या सततविक्रिया’ इत्युक्तरीत्या मूलप्रकृतेरिवास्याः प्रकृतेस्स्वरूपान्यथाभावराहित्यमुक्तम् । चिदचिच्छरीरकतया परस्य ब्रह्मण उपादानकारणत्वेऽपि विकाराणां शरीरगतत्वस्य श्रीभाष्यादौ निरूपितत्वात् ‘निष्कलं निष्क्रियं, अविका- राय शुद्धाय' इत्यादिप्रमाणप्रतिपादितनिर्विकारभावे तस्मिन्न तत्प्रसक्तिरिति भावः । अत एव पुरुषः ‘पूर्वमेवाहमिहासमिति । तत्पुरुषस्य पुरुषत्वम्’ इति निर्वचनविषयः परमः पुमान् साक्षी सर्वदा सर्वद्रष्टा 'साक्षी चेता केवलो निर्गुणश्च' इत्यादिश्रुतेः भवान् प्रकृतिविकृतिभावं प्रकृतेः स्वभावस्य या विकृतिः विकारः तस्याः भावं स्थितिं ज्ञानत्वानन्दत्वादिस्वभावान्यथाभावमित्यर्थः । न भजते । तस्य कर्मकृतत्वेन तव तत्संस्पर्शाभावादिति भावः । ‘प्रकृतिर्गुणसाम्ये स्यादमात्यादिस्वभावयोः । योनौ लिङ्गे च' इति मेदिनी । कोशे योनिशब्दः प्रकृतिवाची । अन्यस्य त्वदितरस्य चतुर्मुखादेः प्रत्यगात्मनस्तु महतोऽपि त्वदितरापेक्षया पूज्यस्यापि । सः प्रकृतिविकृतिभावः भवितैव । तस्य सर्वस्यापि-

आब्रह्मस्तम्बपर्यन्ता जगदन्तर्व्यवस्थिताः ।
प्राणिनः कर्मजनितसंसारवशवर्तिनः ॥

इति कर्मपरतन्त्रताप्रतिपादनेन स्वभावान्यथाभावस्यावश्यंभावादिति भावः । खल्विति शास्त्रप्रसिद्धिं द्योतयति ॥

अन्यत्र तु--

मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयस्सप्त ।
षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥

इति सांख्यतन्त्रप्रक्रिया निबद्धा । तथाहि तदर्थः—मूलप्रकृतिर्नाम सत्त्वरजस्तमसां साम्यरूपा प्रकृतिः । तथाच कापिलं सूत्रम्-सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः' इति । सेयमेका स्वयमचेतना अनेकचेतनभोगापवर्गार्था नित्या सर्वगता सततविक्रिया न कस्यचिद्विकृतिः । तथाच सूत्रम् -‘मूले मूलाभावादमूलं मूलम्’ इति । अपि तु परमकारणमेव । महदाद्याः सप्त । महानहंकारश्शब्दतन्मात्रादितन्मात्रपञ्चकं चेति सप्त । प्रकृतिविकृतयः स्वस्वकार्यनिरूपितप्रकृतित्वं स्वस्वकारणनिरूपितविकृतित्वं च तेषामस्तीति भावः । यथा महतः प्रकृतिनिरूपितविकृतित्वं अहंकारनिरूपितप्रकृतित्वं च । एवमन्यत्रापि द्रष्टव्यम् । यथाच पूर्वोदाहृतसूत्रखण्डः ‘प्रकृतेर्महान् महतोऽहंकारः अहंकारात्पञ्च तन्मात्राणि’ इति । आकाशादिभूतपञ्चकं श्रोत्रादिज्ञानेन्द्रियपञ्चकं वागादिकर्मेन्द्रियपञ्चकं मनश्चैकमिति षोढश केवलं विकाराः । न तु कस्य चित्प्रकृतयः । सूत्रखण्डश्च ‘उभयमिन्द्रियं तन्मात्रेभ्यस्स्थूलभूतानि’ इति । पुरुषः 'शरीरादिव्यतिरिक्तः पुमान्' इति सूत्रोक्तः पुमांस्तु निष्परिणामत्वेन न कस्य चित्प्रकृतिः न कस्यचिद्विकृतिरिति । उदाहरणपद्यार्थस्तु पुरुषः साक्षी केवलं साक्षिभूतः ॥

संघातपरार्थत्वात्त्रिगुणादिविपर्ययादधिष्ठानात् ।
पुरुषोऽस्ति भोक्तृभावात्कैवल्यार्थं प्रवृत्तेश्च ॥
तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य ।
कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च ॥

 इति हि तदीयप्रक्रिया । प्रकृतिविकृतिभावं उक्तरीत्या कस्यचित्प्रकृतित्वं विकृतित्वं वा न भजते । आद्यप्रकृतिः मूलप्रकृतिः अविकृतिः निर्विकारा महतः महत्तत्त्वस्य अपिशब्दो भिन्नक्रमः । अन्यस्यापि अहंकारादितन्मात्रपर्यन्तस्य तत्त्वषट्कस्यापि सः प्रकृतिविकृतिभावः उक्तरीत्या प्रकृतित्वं विकृतित्वं च भवितैव खलु । इदमुपलक्षणं, षोडशकश्च विकार इत्यस्यापीति संक्षेपः । अत्र प्रस्तुते वेदान्तशास्त्रीयव्यवहारे अप्रस्तुतकापिलतन्त्रसिद्धव्यवहारारोप इति पूर्वेभ्यो विशेषः ॥

 यथा वा--

 विदधासि वस्तुनि दैर्घ्यं विश्वस्य तथा परेऽपि पदराजि । न विकल्पमत्र तनुषे ननु रघुनन्दन समस्तपदवित्त्वम् ॥ ७५७ ॥

 ननु रघुनन्दन !

शक्तोऽपि रक्षणे लोभाद्भयाद्वा शरणागतम् ।
यस्त्यजेत्पुरुषो लोके ब्रह्महत्यां स विन्दति ॥

 इत्यादिना राक्षसं प्रति व्यतिरेकमुखेन शरणागतपरित्राणस्य धर्ममूर्धन्यत्वमुपदिशतो रघोरप्यानन्ददेत्यर्थः । अनेन च संबुद्ध्यन्तपदेन शरणागतपरित्राणादिधर्मप्रवर्तनाय तदनुगुणेऽभिजनेऽवतीर्णत्वं तादृशेषु शरण्येषु च शीर्षण्यत्वं द्योतितम् । समस्तपदवित् समस्तस्य अखिललोकस्य पदं शरणवरणविषयकं व्यवसायं वेत्तीति तथोक्तः, सर्ववस्तुवेत्ता सर्वज्ञ इति वा । सर्वेषां पदं त्राणं वेत्तीति वा । सर्वभूतानामभयप्रदानेन रक्षितेति यावत् ।

 य एवमाह--

सकृदेव प्रपन्नाय तवास्मीति च याचते ।
अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम ॥

इति । ‘पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । त्वं —

विभीषणो वा सुग्रीव यदि वा रावणस्स्वयम् ।
आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया ॥

 इति वादीति भावः । परेऽपि शत्रुपक्षीयतया सुग्रोवादिभिश्शङ्कितेऽपि विभीषण इति भावः । यद्वा-परे रावणादावपि किमुत विभीषण इति भावः । अपिशब्दोऽत्र संभावने। संभावनं नामात्र दानशौण्डताविष्करणमित्युक्तिः । पदराजि पदयोश्चरणयोः राजत इति तथोक्तः तस्मिन् । ‘त्यक्त्वा दारांश्च पुत्रांश्च राघवं शरणं गतः’ इत्युक्तरीत्या सर्वस्वपरित्यागेन चरणारविन्दशरणवरणविधातरीति भावः । अयमर्थो राजीत्यनेन ध्वन्यते । तथा विश्वस्य तथाशब्दोऽत्रानिर्वचनीयताद्योतकः । ‘तथागतां ताम्' इत्यादिवत् । अनिर्वचनीयं यथा स्यात्तथा विश्वस्य विस्रभ्येत्यर्थः । विपूर्वकात् श्वसेः क्त्वो ल्यप् । वसुनि धनोपलक्षिते ऐश्वर्यं विषये दैर्घ्यं आकल्पान्तकालावस्थायित्वं अपरिच्छिन्नत्वं वा विदधासि करोषि । अत्र ईदृशैश्वर्यविश्राणनविषये विकल्पं विविधं कल्पं देयं वा न वेत्यादिसंदेहं न तनुषे निर्विचिकित्समेव दत्से इत्यर्थः ॥

 पक्षे –समस्तपदवित् समग्रशब्दशास्त्रवेत्तेत्यर्थः । यद्वा- समस्तानि समासं प्राप्तानि यानि पदानि तानि वेत्तीति तथोक्तः । सर्वसमासाश्रयविधिज्ञ इति यावत् । त्वं वसुनि वसुशब्दे तथा एवं पदराजि पदसंज्ञाभाजि राट्छब्दे परे सति विश्वस्य विश्वशब्दस्य दैर्घ्यं दीर्घं, स्वार्थे ष्यञ् । विदधासि 'विश्वस्य वसुराटोः इति सूत्रेण विधत्से इत्यर्थः। विश्वशब्दस्य दीर्घस्स्याद्वसौ राट्छब्दे च परे इति सूत्रार्थः । ‘राडिति पदान्तोपलक्षणार्थं चर्त्वमविवक्षितम्' इत्याहुः । अनेनैवाभिप्रायेण पदराजीति राट्छब्दः पदशब्देन विशेषित इति ध्येयम् । अत्र अस्मिन् दीर्घविधौ विकल्पं विभाषां न तनुषे । तस्य नित्यतया विधानादिति भावः । अत्रैतिहासिके भगवद्वृत्तान्ते शब्दशास्त्रीयव्यवहारारोप इति पूर्वस्मादुदाहरणगणाद्विशेषः ॥

 यथा वा--

 गहनायमानमप्यहिगिरिनाथ हरे समस्तमपि दितिजम् । अस्वपदविग्रहं त्वं पुरा विरचयन् सुधां च साधयसे ॥ ७५८ ॥

 हे अहिगिरिनाथ! हरे! गहनायमानं पापं चिकीर्षन्तमपि देवविषये द्रोहं चिकीर्षन्तमपीत्यर्थः । 'न परः पापमादत्ते परेषां पापकर्मणाम्' इत्यादौ पापशब्दो द्रोहार्थको दृष्टः । ‘सत्रकक्षकष्टकृछ्रगहनेभ्यः कण्वचिकीर्षायामिति वक्तव्यम्’ इत्यनेन वृत्तिविषये पापार्थकाद्द्वितीयान्ताद्गहनशब्दाच्चिकीर्षायां क्यङ् । पापं चिकीर्षतीत्यस्वपदविग्रह इत्याहुः । समस्तं सर्वमपि दितिजं दैत्यं अस्वपदविग्रहं अस्वपन्तः अस्वप्ना देवाः तैः तेषु वा अविग्रहं त्यक्तकलहं ‘कलहविग्रहौ' इत्यमरः । रचयन् सुरासुराणां सिन्धुमन्थनविषये सन्धिं विदधान इति भावः । सुधां अमृतं च पुरा साधयसे कूर्मावतारे साधितवान् ‘पुरि लुङ्चास्मे' इत्यनेन पुराशब्दयोगे भूतानद्यतने वैकल्पिको लट् । अत्र श्रीभागवतीयं कूर्मावतारचरितमनुसन्धेयम् ॥

 अन्यत्र गहनायमानं गहनायमानशब्दं समस्तं समासं प्रातं दितिजशब्दं च अस्वपदविग्रहं स्वपदरहितवृत्त्यर्थावबोधकवाक्यमित्यर्थः । रचयन् गहनायमानशब्दस्य प्रागुपदर्शितरीत्या अस्वपदविग्रहः । दितिजशब्दस्य तु दित्यां जाता इति । 'सप्तम्यां जनेर्डः' इति डप्रत्ययः । अस्योपपदसमासत्वान्नित्यसमासत्वेनास्वपदविग्रह इति विभावनीयम् । सुधां च सुधाशब्दं च अस्वपदविग्रहं रचयन्निति संबध्यते । साधितवान् निष्पादितवान् । सुष्ठु धीयत इति सुधा । सुपूर्वकात् ‘धेट् पाने' इत्यस्माद्धातोः 'आतश्चोपसर्गे’ इति कर्मण्यङ् । ‘आतश्चोपसर्गे' इति कप्रत्यय उचित इत्यमरसुधायाम् । अयमपि प्रागुक्तरीत्या नित्यसमासवादस्वपदविग्रह एव । अत्र प्रस्तुते पौराणिकव्यवहारे अप्रस्तुतशब्दशास्त्रीयव्यहारारोप इति प्राचीनोदाहरणेभ्यो वैलक्षण्यमिति ध्येयम् ॥

 यथावा--

 भूस्त्वत्सात्कृतिभाग्यत उपेन्द्रभावे गुणादगा-  द्भव्यत्वम् । तत्कृत्यान्तनिपातोऽयुक्तः क्ष्मादानकर्तरि बलिध्वंसिन् ॥ ७५९ ॥

 हे बलिध्वंसिन्! इदं च वामनावतारासाधारणचरितमत्र विवक्षितमिति द्योतयितुम् । उपेन्द्रभावे वामनत्वे यतः यस्मिन् यज्ञियदानकृत्ये ।सार्वविभक्तिकस्तसिः । त्वत्सात्कृतिभाक् त्वत्साकृतिः देयस्य वस्तुनः त्वदधीनीकरणं, तां भजतीति तथोक्ता 'विभाषा साति कार्त्स्न्ये' इत्यतस्सातीत्यस्मिन्ननुवर्तमाने ‘देये त्रा च' इत्यनेन वैकल्पिकस्सातिप्रत्ययः कृञो योगे । बलिना तुभ्यं दत्तेति भावः । भूः भूमिः गुणात् दातृप्रतिग्रहीत्रादिगुणात् । यथोक्तं देवलेन-

दाता प्रतिग्रहीता च श्रद्धा देयं च धर्मयुक् ।
देशकालौ च दानानामङ्गान्येतानि षड्विदुः ॥
अपापरोगी धर्मात्मा दित्सुरव्याजतश्शुचिः ।
अनिन्द्यजीवकर्मा च षड्भिर्दाता प्रशस्यते ॥
त्रिशुक्लशुक्लवृत्तिश्च घृणाळुस्संयतेन्द्रियः।
विमुक्तो योनिदोषेभ्यो ब्राह्मणः पात्रमुच्यते ॥

त्रिशुक्लः

त्रिभिर्मातापित्राचार्यैश्शिक्षितत्वेन शुद्धः ।
शौचं शुद्धिर्महाप्रीतिरर्थिनां दर्शने तथा ॥
सत्कृतिश्चानसूया च दाने श्रद्धेत्युदाहृता ।
आचाराबाधमक्लेशं स्वयत्नेनार्जितं धनम् ॥
स्वल्पं वा विपुलं वाऽपि देयमित्यभिधीयते ।
यद्यत्र दुर्लभं द्रव्यं यस्मिन् कालेऽपि वा पुनः ॥
दानर्हौ देशकालौ तौ स्यातां श्रेष्ठौ न चान्यथा ।
अवस्था देशकालानां पात्रदात्रोश्च संपदा ॥

हीनं चापि भवेच्छ्रेष्ठं श्रेष्ठं वाऽप्यन्यथा भवेत् ॥

इति । भव्यत्वं शुभत्वं योग्यत्वं वा ‘भव्यं शुभे च योग्ये च सत्ये च' इति मेदिनी । श्रेयस्करत्वमिति यावत् । अगात् अलभत । क्ष्मादानकर्तरि भूवितरणविधातरि बलिदानवेन्द्र इत्यर्थः । तत्कृत्यान्तनिपातः तस्य कृत्यस्य पूर्वोक्तदानकार्यस्य अन्ते अवसान एव । न तु कालान्तरे वा । निपातः अधोभुवनपातनम् । निपातोऽयुक्त इत्यत्र अयुक्त इति छेदः । अयुक्तः अनुचितः। येन यस्य यस्मिन् दानकृत्ये दत्तं वस्तु पात्रादिगुणभूम्ना ‘युक्ताङ्गैस्सकलैष्षड्भिर्दानं स्याद्विपुलोदयम्’ इत्युक्तरीत्या महाफलं संपद्येत, तस्यैव दानकर्तुस्तत्कार्यान्त एव प्रतिग्रहीत्रा निपातनमनुचितमिति निर्गळितोऽर्थः । अयं चार्थः-

यत्पदयोरचलधीस्सलिलं प्रदाय ।
दूर्वाङ्कुरैरपि विधाय सतीं सपर्याम् ॥
अप्युत्तमां गतिमसौ लभते त्रिलोकीं ।
दाश्वानविक्लबमनाः कथमार्तिमृच्छेत् ॥

इति बलिनिग्रहावसरे भगवन्तं प्रति ब्रह्मणा लोकदृष्ट्योक्तमर्थमभिसंधाय वर्णित इति ध्येयम् ॥

 पक्षे– क्ष्मादानकर्तरीत्यत्र क्ष्मादानेति उपेन्द्रभावे इत्यत्र उपेन्द्रेति च भिन्ने पदे संबुद्ध्यन्ते न तु समस्ते । आदत्ते स्वीकरोतीत्यादानः, नन्द्यादित्वात्कर्तरि ल्युः । क्ष्मायाः आदानः क्ष्मादानः, तस्य संबुद्धिः । यद्वा क्ष्मां दत्तवान् क्ष्मादान इति ‘कृत्यल्युटो बहुळम्' इति बहुळग्रहणात् भूते कर्तरि ल्युडेव 'तत्कृतार्थेन गुणवचनेन' इत्यादौ ‘गुणमुक्तवान् गुणवचनः' इति तत्त्वबोधिन्यादौ व्याख्यानात् । अथवा- क्ष्मा दीयते अस्मिन्निति ‘करणाधिकरणयोश्च' इत्यनेन अधिकरणे ल्युडेव ‘तदस्मिन्वृद्ध्यायलाभशुल्कोपदा दीयते, सममब्राह्मणे दानम्' इत्यादाविव संप्रदानस्यैवाधिकरणत्वविवक्षया सप्तमी ।भूदानक्रियासंप्रदानभूतेत्यर्थः। हे उपेन्द्र! इन्द्रावरज! हे बलिध्वंसिन् ! त्वत्सात्कृतिः त्वदधीनता त्वद्बाग्विधेयतेति यावत् । तां भजतीति तथोक्तः । ‘तदधीनवचने च' इति सातिप्रत्ययः । भूः भूधातुरित्यर्थः । भावे भावार्थे ‘तयोरव कृत्यक्तखलर्थाः’ इत्यनुशासनात् । तयोरेव भावकर्मणोरेवेत्यर्थः । यतः ‘अचो यत्' इति विहिताद्यत्प्रत्ययात् यत्प्रत्ययं प्राप्येत्यर्थः । ल्यब्लोपे कर्मणि पञ्चमी । गुणात् ‘सार्वधातुकार्धधातुकयोः इत्यनेन विहितादार्धधातुकत्वलक्षणाद्गृणात् । भव्यत्वं भव्यमिति रूपं अगात् प्राप्नोत् । भूधातोरकर्मकतया भावे यति गुणे च भव्यमिति निष्पत्तेरिति भावः। कर्तरि कर्त्रर्थे तत्कृत्यान्तनिपातः तस्य भूधातोरेव कृत्यान्तनिपातः ‘भव्यगेय’ इत्यादिना कृत्यप्रत्ययान्तत्वेन निपातनमित्यर्थः । निपातो नाम लक्षणाभावे साधुत्वाय सूत्रकृता स्वरूपेण शब्दानामुच्चारणम् । युक्त इति छेदः । उचित इत्यर्थः । ‘कृत्याः’ इत्यधिकारे भूधातोः ‘अचो यत् ’ इति कृत्यप्रत्ययस्सिद्धः । ‘भव्यगेय' इत्यादिना कर्तरि स निपातित इति विवेकः । अत्रापि पूर्ववदेवारोपः ॥

 यथा वा--

 हन्त त्वद्गिर्युदकं जातुस्वपरैकबिन्दुसंसर्गात् । नाथोदेत्यादेशात्प्रथयति साधुं समस्तमात्मानम् ॥

 हे नाथ! त्वद्गिरिः वेंकटाद्रिः तस्य उदकं आ देशात् सर्वदेशमभिव्याप्य ‘आङ्मर्यादावचने’ इति । कर्मप्रवचनीयसंज्ञायां ‘पञ्चम्यपाङ्’ इत्यादिना पञ्चमी ‘आङ्मर्यादाभिविध्योः' इत्यस्य महाविभाषाधिकारस्थत्वात्समासाभावः । उदेत्य आकाशगङ्गाकल्यादिनदीरूपेणोद्गत्य जातु कदाचित् स्वपरैकबिन्दुसंसर्गात् स्वस्य परः श्रेष्ठः एकः यो बिन्दुः शीकरः तस्य संसर्गात् संपर्कमात्रादिति यावत् । समस्तं स्वसंसर्गिणं सर्वं आत्मानं चेतनं साधु निर्धूतपाप्मानं सन्तं प्रथयति प्रख्यापयति । वेंकटार्द्रेर्निस्सृतो निर्झरस्स्वकीयैकशीकरसंस्पर्शमात्रेणाप्यखिलचेतनजातं पावयतीति संपिण्डितोऽर्थः ॥

 यद्वा-त्वद्गिर्युदकं उदेत्य आदेशात् आत्मानं जातु स्वपरैकबिन्दुसंमर्गात् साधुं प्रथयतीति योजना । उदेत्य उदयं प्राप्य स्वामितीर्थादिनाम्ना उत्कर्षमेत्येत्यर्थः । ‘उदयस्तु पुमान् पूर्वपर्वते च समुन्नतौ इति मेदिनी । अन्यत्सर्वमुक्तार्थकमेव । अन्यत्र त्वद्गिरि त्वद्वाचि स्थितं त्वयोच्चारितमिति यावत् । उदकं उदकपदं जातु समासविवक्षायामिति यावत् । स्वपरैकबिन्दुसंसर्गात् स्वस्मात् उदकपदात् स्वस्मात् परः परत्र विद्यमानः एकः केवलः पदान्तराव्यवहित इति यावत् । यो बिन्दुः बिन्दुशब्दः तस्य संसर्गात् संबन्धात् । उदेत्यादेशात् उद इत्याकारकमादेशं प्राप्येत्यर्थः । ल्यब्लोपे कर्मणि पञ्चमी ॥

 यद्वा-जातु इत्येतदत्र संबध्यते । जातु उदेत्याकारकमादेशं प्राप्येत्यर्थः । अनेनायमुदादेशः अनन्तरोदाहरिष्यमाणसूत्रविहितो वैकल्पिक इत्युक्तं भवति । समस्तं समासं प्राप्तं आत्मानं स्वं साधुं प्रथयति । उदकशब्दः पदान्तराव्यवहितबिन्दुशब्देन समस्तस्तस्मिन्नुत्तरपदे 'मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च' इत्यनेन उदादेशं प्राप्तस्स्वस्य साधुतां प्रकाशयतीति परिनिष्पन्नोऽर्थः । अत्रापि पौराणिके व्यवहारे पूर्ववदारोपः । प्रसिद्ध्यति हि वेंकटाद्रिजन्मनां सरितां तीर्थानां च महिमा । यथाहि स्कान्दे वेंकटगिरिमाहात्म्ये

तस्मिन्वेंकटशैलेन्द्रे सुरासुरनमस्कृते ।
वियद्गङ्गेति नाम्ना वै तीर्थमस्ति महत्तरम् ॥

 इति । तत्रैवान्यत्र-

वृषभाचलसंभूता तीर्थराजिविराजिता ।
नदीनामुत्तमा कल्या कलुषौघविनाशिनी ॥

 इति । वामनपुराणे च-

तीर्थान्येतानि संभूय वर्तन्ते पर्वतोत्तमे ।
नद्यस्समस्ताः पापघ्न्यस्तासां संख्या न विद्यते ॥

 इति च ।

स्वामितीर्थं महापुण्यं सर्वपापप्रणाशनम् ।
यस्य तीरे जगन्नाथो रमते रमया सह ।
विश्रुतं त्रिषु लोकेषु विशेषेण नृपात्मज ॥

 इति ॥

स्वामित्वात्सर्वतीर्थानां स्वामितीर्थमितीरितम् ॥

इत्यदि चेत्यलं दूरधावनेन ॥

 यथा वा --

 तद्धितकृदन्तमच्युत तव नाम यदस्ति ननु समस्तमपि। प्रातिपदिकं हि तदिदं प्रभाति सत्सुप्रयोज्यमितरन्न ॥ ७६१ ॥

 ननु अच्युत ! तत् सकलपुराणादिप्रसिद्धं हितकृदन्तं हितकृत् श्रेयस्कारि अन्तः पर्यवसानं यस्य तत् अन्ततश्श्रेयः- प्रदमित्यर्थः । यद्वा-हितकृत् अन्तः स्वरूपं यस्य तत् स्वभावत एव श्रेयस्करमित्यर्थः। 'अन्तोऽस्त्री निश्चये नाशे स्वरूपेऽग्रेऽन्तिकेऽन्तरे' इति रत्नमाला । अत्र ।

यथाकथंचिद्गोविन्दे कीर्तिते वा श्रुतेऽपि वा ।
पापिनोऽपि विशुद्धास्स्युश्शुद्धा मोक्षमवाप्नुयुः ॥
सकृत्स्मृतोऽपि गोविन्दो नृणां वर्षशतैश्चितम् ।
पापराशिं दहत्याशु तूलराशिमिवानलः ॥
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ।
सकृदुच्चारितं येन हरिरित्यक्षरद्वयम् ।
अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः ।
पुमान्विमुच्यते सद्यस्सिंहत्रस्तैर्मृगैरिव ॥
हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः ।
अनिच्छयाऽपि संस्पृष्टो दहत्येव हुताशनः ॥

 इत्यादिप्रमाणसहस्रमनुन्धेयम् । समस्तं निखिलमपि तव नाम अभिधानं यदस्ति, तदिदं तदेतत्तव नाम । पदेपदे प्रतिपदं, यथार्थेऽव्ययीभावः । प्रतिपदं भवं प्रातिपदिकं, अध्यात्मादेराकृतिगणत्वाद्भवार्थे ठञ् । पौनःपुनिकं यथा स्यात्तथा । सत्सु प्रयोज्यं सद्भिः ब्रह्मविद्भिः सुष्ठु प्रयोक्तव्यं संकीर्तनीयमित्यर्थः । यद्वा- 'तन्नामकरणं चेति दास्यमेतच्चतुष्टयम्' इत्युक्तरीत्या दास्यसूचकत्वेन पुत्रशिष्यादौ सुष्ठु न्यसनीयमित्यर्थः । प्रभाति प्रकाशते । अथवा प्रातिपदिकमिति नाम्न एव विशेषणं प्रातिपदिकं तदिदं सत्सु प्रयोज्यमिति योजना । प्रतिपत् ज्ञानं ‘चित्संवित्प्रतिपद्ज्ञप्तिचेतना' इत्यमरः । प्रतिपत् ज्ञानं प्रयोजनमस्य प्रतिपदकं 'प्रयोजनम्’ इत्यनेन प्राग्वहतीयष्ठक् । ज्ञानफलकमित्यर्थः । ज्ञानं चात्र--

संज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेकरूपम् ।
संदृश्यते वाऽप्यधिगम्यते वा तज्ज्ञानम् .......॥

इत्युक्तं निश्श्रेयसोपायभूतमुपासनात्मकमिति वेद्यम् । प्रतिपच्छब्दस्य प्रतिपूर्वेकपदधातुनिष्पन्नतया दकारान्तत्वेन नात्र 'इसुसुक्तान्तात्कः' इति तान्तलक्षणकादेश इति ध्येयम् । इतरत् भगवदितरनामधेयं तु न । सत्सु प्रयोज्यं न भवति । तेषामनन्यशेषत्वादिति भावः । यथोच्यते भरद्वाजसंहितायां—

तामसान् राजसांश्चैव व्यपदेशान्विवर्जयेत् ।
ध्रुवं व्यपैति भक्तोऽपि व्यपदेशैरसात्त्विक्तैः ॥

व्यपदेशैः नामभिः ।

सात्त्विकं नाम शुद्धानामशुद्धानां तु राजसम् ।
बाह्यादितन्त्रसिद्धानां दैवतानां तु तामसम् ॥

इति । शुद्धानां अनन्ययाजिनाम् । अशुद्धानामन्ययाजिनामित्यर्थः । यद्वा पूर्वार्धेऽपि समस्तमपि तव नाम यदस्ति तत् हितकृदन्तमिति योजना । अर्थस्तूक्त एव । हितकृदन्तमित्येतत् विधेयमस्मिन्पक्षे इति विशेषः ।

 अन्यत्र-तद्धितकृदन्तं तद्धितान्तं कृदन्तं च यत् शब्दरूपम् । समस्तमपि समासरूपमपि यत् । कर्मणि भावे वा क्तः । नाम नामत्वेन संकेतितं तद्धि तदेव 'हि हेताववधारणे' इत्यमरः । प्रातिपदिकं प्रातिपदिकसंज्ञकम् । नामप्रातिपदिकशब्दयोरेकार्थत्वात् । ‘कृत्तद्धितसमासाश्च' इति नाम्नां प्रातिपदिकसंज्ञाविधानात् । इदं पूर्वोक्तं प्रातिपदिकं सुप्प्रयोज्यं सुप्प्रत्याहारघटकविभक्तिभिः प्रयोज्यं प्रयोगार्हं सुब्वैशिष्ट्येनैव हि तेषां प्रयोगोलोके दृश्यते । सत् साधु ‘सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्' इत्यमरः । प्रभाति । इतरत् असुप्प्रयोज्यं सुबविशिष्टमित्यर्थः । न साधु न प्रभाति ‘न केवला प्रकृतिः प्रयोक्तव्या’ इति भाषणादिति भावः । अत्रापि पुराणप्रसिद्धे प्रस्तुतव्यवहारे अप्रस्तुतशब्दशास्त्रीयव्यवहारारोपः ॥

 यथावा--

 परमं पदमध्यवसत्सरमं यद्ब्रह्म तत्त्वमसि भगवन् । इह फणिशिखरिणि लग्नस्तद्भागत्यागलक्षणाश्रयणात् ॥ ७६२ ॥

 हे भगवन् ! श्रीनिवास ! यद्ब्रह्म परमं पदं 'तद्विष्णोः' इत्यादिश्रुतिप्रथितं दिव्यं स्थानं सरमं सश्रीकं सत् अध्यवसत् भक्तानुग्रहार्थपरिगृहीतदिव्यमङ्गळविग्रहविशिष्टतया अध्यतिष्ठत् । इह अस्मिन् भूलोके फणिशिखरिणि लग्नः त्वं तद्ब्रह्म असीति योजना । अर्थस्तु स्फुट एव ।

 

श्रीनिवासोऽपि शेषाद्रौ ततस्स्वामिसरस्तटे ।

इत्युपक्रम्य,

पुराणपुरुषो धाता पुरुषस्तमसः परः ।
वैकुण्ठं पूर्ववसतिं त्यक्त्वेदानीं हि हे तिष्ठति ॥

इते पाद्मवेंकटाद्रिमाहात्म्योक्तिः, 'मायावी परमानन्दम्’ इत्याद्युक्तिश्चेहानुसंहिता । अत एव तद्भा तस्य परमपदस्य भा । आदन्तोऽयं शब्दः ।

ब्रह्मणस्सदनात्तस्य परं स्थानं प्रकाशते ।
देवा हि यन्न पश्यन्ति दिव्यं तेजोमयं पदम् ॥
अत्यर्कानलदीप्तं तत् स्थानं विष्णोर्महात्मनः ।
स्वयैव प्रभया राजन् दुष्प्रेक्षं देवदानवैः ॥

इति महाभारताद्युक्ता दिव्या दीप्तिः । आगत्य परमपदाद्भुवमेत्य । अगलक्षणाश्रयणात् अगलक्षणं उक्तफणिगिरिरूपं यत् आश्रयणं आधारः तं अतति सततं गच्छतीत्यगलक्षणाश्रयणात् ‘अत सातत्यगमने’ अस्मात् क्विप् । भवति । परस्मिन् ब्रह्मणि परमव्योम्नः फणिगिराववतीर्णे परमव्योमदिव्यदीप्तिरपि फणिगिरिमेव सततमाश्रितेत्यर्थः ।

 पक्षे–तत् त्वमिति पदद्वयं भागत्यागलक्षणायाः जहदजहल्लक्षणायाः आश्रयणात् अर्थबोधकं भवतीति भावः । परस्य ब्रह्मणो दिव्यमङ्गळविग्रहविशिष्टस्य यद्देशकालवैशिष्ट्यं पूर्वमासीत् तद्देशकालवैशिष्ट्यमधुना नास्तीति तत्त्वमित्यत्र तत्तांशे स्वार्थत्यागः त्वत्तांशे तु तदत्याग इतीयं भवति जहदजहल्लक्षणेति ध्येयम् ॥

अंशभेदमुपादाय जहाति न जहाति च ।
शब्दस्स्वार्थं यदि जहदजहत्स्वार्थलक्षणा ॥

इति तल्लक्षणम् । अत्र प्रस्तुते पौराणिकव्यवहारे अप्रस्तुतस्यालंकारशास्त्रीयव्यवहारस्यारोपः ।

 यद्वा-अत्र तत्त्वमसीति पदैः ‘तत्त्वमसि श्वेतकेतो’ इति श्रुतिवाक्यप्रत्यभिज्ञापनात् तत्र जीवब्रह्माभेदमुपपादयतामद्वैतिनां व्यवहारोऽप्रस्तुतः प्रतीयमानः प्रस्तुते पौराणिकव्यवहारे समारोप्यत इति । ते हि ‘तत्त्वमसि' इत्यत्र तत्त्वंपदार्थयोस्सर्वज्ञत्वकिंचिद्ज्ञत्वरूपविरुद्धांशपरित्यागेन अविरुद्धचिन्मात्रोपादानेन चोभयोपलक्षितमेकमखण्डं वस्तु भागत्यागलक्षणया प्रतिपाद्यत इति वर्णयन्ति । अनयोरियानेव भेदः । तथाहि- आलंकारिकास्तावत् 'सोऽयं देवदत्तः' इत्यादौ तत्तांशस्येदानीमसंभवात्तस्यैव हानं इदंतांशस्य त्विदानीं संभवादहानमिति जहदजहत्स्वार्थं लक्षणामाचक्षते । अद्वैतब्रह्मवादिनस्तु-दृष्टान्तदार्ष्टान्तिकयोरैकरूप्याय 'सोऽयं देवदत्तः' इत्यत्रापि तत्तेदंतांशयोः परस्परविरुद्धयोरुभयोः परित्यागेन अविरुद्धस्वरूपमात्रापरित्यागेन द्वयोपलक्षितं स्वरूपमात्रं लक्ष्यत इति जहदजहत्स्वार्थं व्युत्पाद्य ‘तत्त्वमसि इत्यादिमहावाक्येऽपि तत्त्वंपदार्थगतविरुद्धांशत्यागेन चिन्मात्रोपादानेन चोभयोपलक्षितमखण्डमेकमेव वस्तूक्तलक्षणया प्रतिपाद्यत इति । यदाहुः-

स्वार्थैकांशत्यागादंशान्तरमेव लक्ष्यते यत्र ।
सा जहदजहत्स्वार्था तत्त्वमसीत्यादिविषयद्दश्येयम् ॥

इतीत्यलमतिदूरोत्सर्पणेन ॥

 यथावा-

 सुविदितशक्तिं स्वामिन् कृतलक्षणमञ्जनाचलोल्लासम् । साहित्यमेत्यभान्तं श्रिया श्रये त्वामनन्त सुश्लोकम् ॥ ७६३ ॥

 अनन्तः देशकालवस्तुभिरपरिच्छिन्नः ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति श्रुतेः । तस्य संबुद्धिः हे अनन्त! हे स्वामिन्! सर्वशेषिन्! सुविदिता सकलश्रुतिसुप्रसिद्धा शक्तिः यस्य तम् । शक्तिर्नाम स्वेतरसर्वसामर्थ्यनिर्वाहकः 'जगत्प्रकृतिभावो मे यस्सा शक्तिरितीर्यते’ इत्यादिषूक्तस्सर्वोपादानत्वात्मको गुणविशेषः ।यदन्यैरशक्यत्वादघटितमिव भवति तद्धटनसमर्थ्यरूपो वा । अत्र ‘पराऽस्य शक्तिर्विविधैव श्रूयते’ इति श्रुतिरप्यनुसन्धेया । कृतलक्षणं ‘समस्तकल्याणगुणात्मकोऽसौ' इत्याद्युक्तरीत्या कल्याणगुणैः प्रतीतं ‘गुणैः प्रतीते तु कृतलक्षणाहितलक्षणौ' इत्यमरः । अञ्जनाचले उल्लासो हर्षः प्रकाशो वा यस्य तम् । अञ्जनाचलेन उल्लास्यत इति वा तथोक्तम् । श्रिया लक्ष्म्या साहित्यं वैशिष्टयं एत्य प्राप्य भान्तं श्रीवैशिट्यादेव हि तव भानमिति भावः । अत्र ‘स्वामिपुष्करिणीतीरे रमया सह मोदते’ इत्येत दप्यनुसन्धेयम् । अत एव सुश्लोकं शोभनकीर्तिं ‘ह्रीश्च ते लक्ष्मीश्च पत्न्यौ' इति लक्ष्मीपतित्वेन श्रुतस्यैव हि तव ‘तस्य नाम महद्यशः' इति यशस्विता श्रूयते 'स आपः प्रदुघे उभे इमे' इति ‘जगत्कारणत्वेन प्रस्तुतस्य निखलजगज्जननादिलीलत्वसर्वरक्षकत्वकीर्तिस्तस्यैव नान्यस्येत्यर्थः । नामेति प्रसिद्धौ’ इत्युपनिषद्भाष्यम् । त्वां श्रये । नारायणीये प्रथमानुवाके ‘अद्भ्यस्संभूतो हिरण्यगर्भ इत्यष्टौ’ इति पाठात् तस्मिंश्चानुवाके ह्रीश्च ते लक्ष्मीश्च पत्न्यौ' इति श्रवणात् लक्ष्मीपतेरेव ‘तस्य नाम' इति तदनुवाकोक्तं यशस्वित्वं नान्यस्येत्यवधेयम् ।

 पक्षे-शक्तिः अभिधापरपर्यायः साक्षात्संकेतविषयविषयकधीहेतुर्मुख्यश्शब्दनिष्ठो व्यापारः ‘व्यापारश्शक्यधीहेतुर्मुख्यश्शब्दगतोऽभिधा' इति लक्षणात् । सा सुष्ठुविदिता येन तम् । कृता विचारिता लक्षणा येन तं तथोक्तम् । लक्षणा नाम-

तात्पर्यविषयीभूतार्थान्वयानुपपत्तितः ।
शक्तिभिन्नार्थधीहेतुर्व्यापारो लक्षणोच्यते ॥

इत्युक्तलक्षणश्शब्दव्यापारः । कृञो व्यापारसामान्यार्थकत्वेन कृतेत्यस्य विचारणार्थकत्वमवसेयम् । अत एव कृतहस्तः कृतधीरित्यादौ कृञश्शिाद्यर्थकत्वं दृश्यते । अञ्जनं ‘वाच्यलक्ष्यविभिन्नार्थधीकृद्व्यापृतिरञ्जनम्' इत्युक्तलक्षणो व्यञ्जनापरपर्यायश्शब्दव्यापारविशेषः । तस्मिन् अचलः स्थिरः उल्लासः हर्षः यस्य तम् । एतैर्विशेषणैः अभिधालक्षणाव्यञ्जनारूपशब्दव्यापारत्रितयकूलंकषप्रतिभोन्मेष-तया वाचकलक्षकव्यञ्जकपदप्रयोगनिरङ्कुशकौशलं द्योत्यते । साहित्यं सहितानि सर्वशास्त्राण्येव साहित्यम् । स्वार्थे ष्यञ् । यथोक्तं भावप्रकाशे-

तर्कव्याकृतिमीमांसाज्योतिश्शास्त्राद्यपेक्षया ।
साहित्यात्साहिती प्रोक्ता स्वार्थे ष्यञ् कीर्त्यते बुधैः ॥ इति,
समष्टिस्सर्वशास्त्राणां साहित्यमिति कथ्यते ।

इत्येतदप्युक्तार्थेऽनुकूलम् । एत्य ज्ञात्वेत्यर्थः । श्रिया उपदर्शितोपकरणज्ञानानुरूपकाव्यग्रथनौपयिकवाग्विभवेनेत्यर्थः । ‘श्रीर्लक्ष्म्यां सरळद्रुमे । वेषोपकरणे वेषरचनायां मतौ गिरि। शोभात्रिवर्गसंपत्त्योः' इति हेमचन्द्रः । अत एव अनन्ताः अपरिच्छिन्नाः सुश्लोकाः अदोषसगुणसालंकारशब्दार्थरूपकाव्यलक्षणपरिपूर्णानि पद्यानि यस्य वश्यवाक्त्वेन भूयिष्ठसत्काव्यनिर्माणप्रवीणमिति भावः । अत्र वेदान्तपुराणप्रतिपादितेऽर्थे पूर्ववदारोपः ॥

 यथावा-

 दारिद्र्यदवं शमयत्याख्यैकाऽब्जाक्षभागधेयस्य । सारोपासाध्यवसितिरिह गौणी साधुलक्षणा शुद्धा ॥

 इह लोके सारा उपासायाः उपासनायाः अध्यवसितिः निश्चयः यस्यास्सा तथोक्ता यद्विषयक उपासनाध्यवसायः अवश्यंभाविफलतया श्रेयान् सा सारोपासाध्यवसितिरित्यर्थः । आख्याया उपासनं च ‘ओं नमो नारायणायेति मन्त्रोपासकः' इत्यादाविव जप एवेति ध्येयम् । गौणी ‘यानि नामानि गौणानि’ इत्युक्तरीत्या गुणत आगता-

शृणाति निखिलान्दोषान् श्रीणाणि च गुणैर्जगत् ।
श्रीयते चाखिलैर्नित्यं श्रयते च परं पदम् ॥
श्रयन्तीं श्रीयमाणां च शृण्वतीं शृणतीमपि ॥

इत्यादिनिरुक्तेरिति भावः । अत एव साधु लक्षणं प्रवृत्तिनिमित्तं यस्यास्सा तथोक्ता । यद्वा-लक्ष्यन्त इति लक्षणाः ‘कृत्यल्युटो बहुळम्' इति बहुळग्रहणात्कर्मणि ल्युट् । साधवो लक्षणाः यस्यास्सा यदाख्याधारणेन साधवस्सज्जना इति लक्ष्यन्ते ज्ञाप्यन्ते सा साधुलक्षणेत्यर्थः । ‘साधुर्वार्धुषिके चारौ सज्जने चाभिधेयवत्' इति मेदिनी । शुद्धा पावनी ‘शुद्धं स्यात्त्रिषु केवले । निर्दोषे च पवित्रे च' इति मेदिनी । अब्जाक्षस्य श्रीनिवासस्य भागधेयं तस्य भागधेयत्वेनाध्यवसितायाश्श्रिय इत्यर्थः । एका आख्या श्रीरित्यादिकमेकमेवाभिधेयं दारिद्र्यमेव दवं वनहुताशनं शमयति । ‘सर्वदारिद्र्यनाशिनी’ इति तन्नामसु पाठादिति भावः ।

 पक्षे-इह दारिद्र्यदवमिति पदे सारोपा गौणी लक्षणा अब्जाक्षभागधेयस्येत्यत्र तु साध्यवसितिः शुद्धा लक्षणेति पाठक्रमेण यथासंख्यमन्वयः । साधु साध्वीत्यर्थः । सामान्ये नपुंसकं 'शक्यमरविन्दसुरभिः' इत्यादिवत् । यद्वा-साधुत्वेन लक्षणैव विशेष्यते । अथवा भवतीत्यध्याहृतक्रियाविशेषणमिति बोध्यम् । अयं भावः दारिद्र्यदवमित्यत्र विषयविषयिवाचकयोर्दारिद्र्यदवपदयोस्सामानाधिकरण्यनिर्देशात्सारोपा लक्षणा । सा च दवशब्दस्य तापकारित्वादिगुणसादृश्येन वृत्तेर्गौणी ॥

सारोपा द्विविधा सेयं गौणी शुद्धेति भेदतः ।
सादृश्यात्मकसंबन्धरूपा गौणीत्युदीर्यते ॥
शुद्धा तदन्यसंबन्धरूपा सा तु निगद्यते ।

इति लक्षणात् । अब्जाक्षभागधेयस्येत्यत्र तु आरोपविषयं श्रियं निगार्य तस्य विषयिणो भागधेयस्यैव निबन्धनात्साध्यवसानालक्षणा । भागधेयश्रियोः कार्यकारणभावसंबन्धं पुरस्कृत्य विषयिपदमात्रोपादानेन शुद्धेति विवेकः । तथाच तल्लक्षणम्

निगीर्य विषयं यत्र विषय्येव निबध्यते ।
तत्र साध्यवसाना स्याद्गौणी शुद्धेति भेदतः ॥

इति । अध्यवसायो नाम एकांशे उत्कटं ज्ञानं, ज्ञानस्योत्कटत्वं च तत्तत्कोटिसहचरितानेकधर्मवद्धर्मिविषयत्वादिकम् । सादृश्यसंबन्धपुरस्कारेण प्रवृत्ता गौणी । तदन्यसंबन्धपुरस्कारेण प्रवृत्ता शुद्धेति सारोपलक्षणायामिवास्यामपि भेदो द्रष्टव्यः । अत्रापि पौराणिके श्रीलक्ष्मीनामवैभवे व्यवहारे प्रस्तुते अलंकरशास्त्रीयव्यवहारस्याप्रस्तुतस्यारोपः ॥

 यथा वा-

 तामेव यान्ति वृत्तिं धाम्नि परे गौणलक्षणाभिज्ञाः ! कव्योचिता न चान्यां गोणीं। भक्तः प्रभाकराद्येषु ॥ ७६५ ॥

 काव्या बुद्धिः उचिता समञ्जसा येषां ते काव्योचिताः 'दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः' इत्युक्तप्रकारसुक्ष्मधिय इति यावत् । ‘काव्या स्यात्पूतनाधियोः' इति विश्वमेदिनीहेमचन्द्राः। ‘उचितं स्यान्मिते योग्ये ज्ञातेऽभ्यस्ते समञ्जसे' इति रत्नमाला । परे धाम्नि औज्ज्वल्यरामणीयकतमोहारित्वादिगुणसादृश्यवत्तया तेजस्त्वेनाध्यवसिते भगवति श्रीनिवासे भक्ताः भक्तिमन्तः पुमांसः अगौणेति छेदः । अगौणं मुख्यं यत् लक्षणं शङ्खचक्रलक्ष्म तेन अभिज्ञाः भागवतत्वेन ज्ञायमानास्सन्तः अभिपूर्वकात् ज्ञाधातोः ‘आतश्चोपसर्गे’ इति कर्मण्यङ् । उपज्ञादिवत् । स्वभावतोऽयं स्त्रीलिङ्गः । पश्चायुधाङ्कनादपि शङ्खचक्राभ्यामेवाङ्कनस्य मुख्यत्वादगौणलक्षणाभिज्ञा इत्युक्तम् ।

तथाच श्रुतिः

प्र ते विष्णो अब्जचक्रे पवित्रे
जन्माम्भोधिं तर्तवे चर्षणीन्द्राः ।
मूले बाह्वोर्दधते ये पुराणाः
लिङ्गान्यन्ये तावकान्यर्पयन्ति ॥

इति । भगवच्छास्त्रे भरद्वाजश्च--

अग्नीषोमौ हि चक्राब्जौ सर्व एव तदात्मकाः ।
ऊनो वा मानयन्नेकं पूर्णो हि फलमश्नुते ॥
शङ्खचक्रप्रधानं हि सर्वमन्यद्गदादिकम् ।
अङ्कितश्शङ्खचक्राभ्यां सर्वैरङ्कित एव वा ॥

इति । यद्वा--

नारायणैकनिष्ठा ये सात्त्विकांस्तान्निबोधत ।

इत्युपक्रम्य--

मुनयस्सत्त्वनिष्ठानां लक्षणानि निबोधत ।
विष्णोर्दास्यैकफलता तदेकोपायतास्थितिः ॥
तदाज्ञाकरणे प्रीतिस्तत्कर्मगुणकीर्तनम् ।
तच्चिह्नाङ्कितदेहत्वं तदीयाराधने रतिः ॥
तदन्यस्पर्शवैराग्यमिन्द्रियार्थेष्वलोलता ।
आचार्याधीनवृत्तित्वमाचार्यार्थात्मवृत्तिता ॥
क्रोधलोभमदालस्यमानमोहविहीनता ।
सत्यशौचदयाधैर्यक्षमासंतोषयुक्तता ॥
इत्येतैर्लक्षणैर्युक्ता वैष्णवा वीतकल्मषाः।
सभाज्या दर्शनेनैव नावज्ञेयाः कदाचन ॥

इति भरद्वाजपरिशिष्टोक्ता मुख्यभागवतलक्षणज्ञा इत्यर्थः। अभिपूर्वकाज्जानातेः कर्तरि 'आतश्चोपसर्गे’ इति कप्रत्ययः । अत एव तामेव तदनुगुणां मुख्यामेव वृत्तिं अनन्यरतित्वादिवक्ष्यमाणलक्षणां वृत्तिं यान्ति श्रयन्ति । यथा हि भगवच्छास्त्रीयभरद्वाजसंहितायाम्-

यथा प्रपत्तिर्विहिता भगवच्चरणाब्जयोः ।
तथैव तत्र वृत्तिश्च कार्या गुरुनिदेशतः ॥
वृत्तिश्च विहिताचारः प्रतिषिद्धविवर्जनम् ।
दृष्टिर्भक्तिस्तथा लक्ष्म सतां सेवेति षड्विधाः ॥

इति वृत्तेष्षाड्विध्यं प्रदर्श्य–

अनन्यगतिरत्यन्तं विहितानि समाचरन् ।
वर्जयन् प्रतिषिद्धानि वेदवेदान्ततत्त्ववित् ॥
अर्चादिष्वर्चयन्विष्णुमङ्कितो हरिलाञ्चनैः।
सेवेत यद्गुरून्भक्त्या सेयं वृत्तिः परा मता ॥

इति पूर्वोक्तश्लोकार्थो विवृतः । अत्र परेति विशेषणेनास्या एव वृत्तेर्मुख्यत्वमुक्तम् । तामेवेत्यवधारणेन व्यञ्जितमितरव्यवच्छेदं कण्ठतो दर्शयति- न चान्यामित्यादिना । प्रभाकराद्येषु भास्करादिषु भक्तास्सन्तः अन्यां गौणीं वृत्तिं च न यान्ति नाश्रयन्ते । चशब्दस्त्वर्थकः।

अथ वृत्तिमिमां शश्वत्कुर्वाणो विगतव्यथः ।
विसृज्य देहं प्राप्नोति तद्विष्णोः परमं पदम् ॥

इत्यविलम्बितनिश्श्रेयसनिदानतया भरद्वाजसंहितोक्तभागवतवृत्तिमपेक्ष्य–

वर्णाश्रमाचारपरस्सप्त जन्मानि यो द्विजः ।
एकान्तसूर्यभक्तस्स्यात्स विप्रस्सप्तजन्मसु ॥
ततस्तत्पुण्यमाहात्म्याद्रुद्रभक्तो भविष्यति ।
तथैव सप्तजन्मानि शिवभक्तिपरायणः ।
महता तेन पुण्येन वैष्णवत्वं लभेत सः ॥

विष्णुभक्तिपरस्तद्वत्सप्तजन्मानि मानवः ।
एकान्तभगवद्याजी विप्रो भागवतान्वये ॥
ततस्स लभते मुक्तिं देवैरत्यन्तदुर्लभाम् ।

इति वाराहे,

त्रिभिः प्रजापतेर्भक्तः पञ्चभिश्शंकरस्य तु ।
विंशत्याऽग्नींन्द्रसूर्यादेर्जन्मभिर्वैष्णवो भवेत् ॥

इत्यादिभरद्वाजसंहितायां च बहुजन्मव्यवधानेन मुक्तिसाधनतया उक्तेषु भास्करादिष्वनन्यरतित्वादिकां जघन्यां वृत्तिं नाद्रियन्त इति भावः ।

 पक्षे-काव्योचिताः अभ्यस्तकाव्याः आलंकारिका इति यावत् । गौणी च सा लक्षणा च तस्याः अभिज्ञाः ‘अग्निर्माणवकः, अग्निरधीते' इत्यादौ ।

सादृश्यात्मकसंबन्धरूपा गौणीत्युदीर्यते ।

इत्युक्तलक्षणां गौणीं लक्षणां जानानाः, अत एव परे धाम्नि धाम्नीत्याकारके पदेऽपि तामेव वृतिं उक्तोदाहरण इव गौणलक्षणाख्यामेव शब्दव्यापृतिं यान्ति मन्यन्ते । यदाहुः-

अभिधेयाविनाभूता प्रतीतिर्लक्षणोच्यते ।
लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणता ॥

इति । अविनाभावश्चात्र संबन्धमात्रं न तु नान्तरीयकत्वं तथा सति मञ्चमञ्चस्थयोर्दैशिकस्य कालिकस्य वाऽविनाभावस्याभावात् ‘मञ्चाः क्रोशन्ति' इत्यत्र लक्षणाभावप्रसङ्गात् । वृत्तेः लक्षणाख्यव्यापृतेः गौणता गुणप्रयुक्तता लक्ष्यमाणगुणैर्योगात् इष्टा भवतीति तदर्थः । तामेवेत्यवधारणेन व्यवच्छेद्यं दर्शयति-न चान्यामित्यादिना । प्रभाकरस्तान्त्रिकाग्रणीः स आदिर्येषां ते भट्टादयः । तेषु भक्तास्तन्मतानुयायिनस्सन्तः अन्यां लक्षणापेक्षया विलक्षणां गौणीं गुणत आगतां वृत्तिं संबन्धव्यापृतिं न यान्ति न मन्यन्त इत्यर्थः । ते हि 'अग्निर्माणवकः" इत्यादौ समानाधिकरणपदप्रयोगादेव पैङ्गळ्यादिगुणविशिष्टे अग्निपदस्य तात्पर्यम् । ‘गङ्गायां घोषः' इत्यादौ लक्षणायां तु तीरपदप्रयोगेण विनैव तत्संबन्धिनि तीरे गङ्गापदस्य तात्पर्यमिति पदप्रयोगतदप्रयोगप्रयुक्तविशिष्टाविशिष्टतात्पर्याभ्यां गौणीलक्षणयोर्भेदः । यत्रापि पदप्रयोगो नस्ति ‘अग्निरधीते' इत्यादौ तत्रापि सादृश्यविशिष्ट एव पदतात्पर्यम् । पदप्रयोगसहिते स्थले तथैव तत्पर्यावधारणात् । यथा –‘ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यादौ काम्ये कामिनियोज्यान्वयबलादपूर्वे लिङ्गादेस्तात्पर्यमिति 'अहरहस्सन्ध्यामुपासीत' इत्यादिनित्यस्थलेऽपि तथेति वर्णयन्ति । अयं भावः-आलंकारिकास्तावत्-

अभिधेयेन संबन्धात्सादृश्यात्समवायतः ।
वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चधा मता ॥

इति सादृश्यस्यापि संबन्धत्वेनाभ्युपगमात् ‘अग्निर्माणवकः, अग्निरधीते' इत्यादावपि तथाविधसंबन्धस्य सामानाधिकरण्याद्यनुपपत्तेः, अभेदप्रतीतिरूपप्रयोजनस्य च लक्षणाबीजस्य जागरूकतया गौणीं वृत्तिमपि लक्षणायामेवान्तर्भावयन्ति न तु पृथग्वृत्तित्वेनाभ्युपयन्तीति । अत्रापि भगवच्छास्त्रीयव्यवहारारोपः ॥

 यथावा--

 पिप्रीषयैव तेऽच्युत कनकमुखर्यां मखैर्यजति हि त्वाम् । बुधततिरेषा कथमिह न स्यात्सल्लक्षणा जहत्स्वार्था ॥ ७६६ ॥

 हे अच्युत! बुधततिः विद्वत्संहतिः ते तव पिप्रीषयैव प्रीणनेच्छयैव न तु प्रयोजनान्तरापेक्षया । कनकमुखर्यां सुवर्णमुखर्याख्यायां तरङ्गिण्यां तत्तीरे वेङ्कटाद्राविति यावत् । मखैः क्रतुभिः त्वां ।

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।

इति सर्वयज्ञभोक्तृत्वेन च स्वेनैव गीतमिति भावः । यजति आराधयति ।

सर्वभूतान्तरात्मानमीशमाराध्यमच्युतम् ।
बुध्वा चरन्ति सुधियो धर्मांस्तत्प्रीतये परम् ॥

इति भरद्वाजपरिशिष्टोक्तप्रकारेण केवलं त्वत्प्रीणनायैव यागादिकर्माण्यनुतिष्ठतीत्यर्थः । सल्लक्षणा सतां लक्षणानि चिह्नानि तान्यस्यास्सन्तीति तथोक्ता । अर्श आदेराकृतिगणत्वान्मत्वर्थीयोऽच् । अत्र सतां सल्लक्षणानां च लक्षणं-

पत्युर्ज्ञानमयी वृत्तिर्विष्णोः प्रियमिहोच्यते ।
ये सन्ति तत्र निरतास्ते सन्त इति कीर्तिताः ॥

इति,

प्रतप्तैर्भगवद्दिव्यायुधैर्गात्रेषु लाञ्छनम् ।
सततं च हरिक्षेत्रोद्धृतमृत्स्नोर्ध्वपुण्ड्रकम् ॥

इत्युपक्रम्य,

विष्णोस्तत्संश्रयाणां वा चेतनाचेतनात्मनाम् ।
आख्यया व्यपदेशश्न लक्षणानि सतां विदुः ॥

इत्यन्तेन भरद्वाजपरिशिष्टोक्तं द्रष्टव्यम् । एषा त्वत्प्रीणनार्थमेव

त्वां यजन्ती बुधततिः इह यजनकर्मणि कथमिव जहत्स्वार्था जहात् स्वार्थो यां सा तथोक्ता न स्यात् जहत्स्वार्थैव स्यादित्यर्थः ।

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।
निराशीर्निर्ममो भूत्वा .....................॥

इति त्वद्गानानुरोधेन सर्वाणि कर्माणि केवलं त्वदाराधनरूपतया त्वत्प्रीणनानीति मत्वाऽनुतिष्ठन्त्या अस्या बुधततेरन्यदर्थाशंसा कथमपि नोदियादेवेति भावः । अनेन

अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।
यष्टव्यमेवेति मनस्समाधाय स सात्त्विकः ॥

इत्युक्तरीत्या तदनुष्ठितानां मखानां सात्त्विकत्वं द्योत्यते । अनेनैव जहत्स्वार्थेति विशेषणेन तस्याः पारमेकान्त्यं दर्शितम् । परमैकान्तिनो हि भगवद्दास्यैकरतित्वान्न तत्प्रीणनमन्तरा मनागपि स्वप्रयोजनमभिलष्यन्ति यथोच्यते भरद्वाजसंहितायाम्-

स एकान्त्यन्यविमुखो हरिं सर्वेश्वरं परम् ।
यस्समाश्रयते किंचित्फलमभ्यर्थयन्नरः ॥
न्यस्ताशेषभरश्श्रीशे यस्तु दास्यैकजीवितः ।
स एष परमैकान्ती द्वावेतौ वैष्णवौ स्मृतौ ॥

इति । पक्षे-पूर्वार्धमनतिरिक्तार्थकमेव । उत्तरार्धे तु- इह कनकमुखर्यां यजतीत्यत्र जहत्स्वार्था सती च सा लक्षणा सल्लक्षणा लक्षणाख्या शब्दव्यापृतिः कथं न स्यात् । 'गङ्गायां घोषः' इत्यत्रेवात्रापि स्वार्थत्यागेन लक्षणा स्यादेवेति भावः ॥

स्याज्जहल्लक्षणा यत्र स्वार्थं त्यक्त्वाऽन्यवृत्तिता ।

इति लक्षणात् । यत्र स्वार्थत्यागेन परार्थबृत्तिता तत्र जहल्लक्षणेति तदर्थः । अत्र च कनकमुखर्यामित्यत्र वाच्यस्य प्रवाहस्य मखकरणकयजनान्वयायोग्यत्वात्कनकमुखरीशब्दस्स्वार्थं परित्यज्य स्वार्थसंबन्धिनि तीरे वर्तत इति जहत्स्वार्था लक्षणैषेति ध्येयम् । अत्र गीताभगवच्छास्त्रादिसिद्धे प्रस्तुतव्यवहारे अप्रस्तुतन्यायादिशास्त्रीयव्यवहारारोपः ॥

 यथावा-

 परमपुरुषार्थमाप्तुं फणाधरगिरिं प्रपत्तिरध्युषिता । मध्यमवृत्तिरविजहत्स्वार्था भवतीह को नु संदिग्धाम् ॥ ७६७ ॥

 मध्यमवृत्तिः मध्यमा वृत्तिः । वक्ष्यमाणलक्षणा यस्यास्सा तथोक्ता प्रपत्तिः, प्रपत्तिविशिष्टाः पुरुषा इति यावत् । ‘कुन्ताः प्रविशन्ति’ इत्यत्र कुन्तविशिष्टाः पुरुषा इतिवत् । परमपुरुषार्थं निश्श्रेयसरूपमुत्तमपुरुषार्थं आप्तुं लब्धुं फणाधरगिरिं अध्युषिता सती अविजहत् स्वार्थः परमपुरुषार्थो यां सा तथोक्ता भवति ।

उपायापायसंत्यागी मध्यमां वृत्तिमाश्रितः।
रक्षिष्यतीति निश्चित्य निक्षिप्तस्वस्वगोचरः ।
बुध्येत देवदेवं तं गोप्तारं पुरुषोत्तमम् ॥

इति लक्ष्मीतन्त्रोक्तमार्गेण उपायापायमध्यस्थां वृत्तिमास्थितो भगवन्तं प्रपन्नो जनः--

यत्र नारायणो देवः परमात्मा सनातनः ।
तत्पुण्यं परमं ब्रह्म तत्तीर्थं तत्तपोवनम् ॥
तत्र देवर्षयस्सिद्धास्सर्वे चैव तपो धनाः।

इति भारताद्युक्तरीत्या प्रपन्ननिवासार्हे वेङ्कटमहीभृति कृतवसतिस्स्वविवक्षितं परमपुरुषार्थं साधयतीति निर्गळितोऽर्थः । इह अस्मिन्विषये को नु संदिग्धां कः पुमान् संदेग्धु, ईदृशस्य परमपुरुषार्थाधिगमे पामरोऽपि न संशयीतेति भावः । संपूर्वात् ‘दिह उपचये' इत्यस्माद्धातोः कर्तरि लोट्प्रथमपुरुषैकवचनम् । उपायापायादिस्वरूपं च तत्रैव लक्ष्मीतन्त्रे--

उपायापाययोर्मध्ये कीदृशी स्थितिरम्बिके ।
उपायापायतामेव क्रिया सर्वाऽवलम्बते ॥
स्वीकारे व्यतिरेके वा निषेधविधिशास्त्रयोः ।
दृश्यते कर्मणो व्यक्तमुपायापायरूपता ॥

इति पृच्छते शक्राय--

त्रिविधां पश्य देवेश कर्मणो गहनां गतिम् ।
निषेधविधिशास्त्रेभ्यस्तां विधां च निबोध मे ॥
अनर्थसाधकं किंचित्किंचिच्चाप्यर्थसाधकम् ।
अनर्थपरिहाराय किंचित्कर्मोपदिश्यते ॥
त्रैराश्यं कर्मणामेवं विज्ञेयं शास्त्रचक्षुषा ।
अपायोपायसंज्ञौ तु पूर्वराशी परित्यजेत् ॥
तृतीयो द्विविधो राशिरनर्थपरिहारकः ।
प्रायश्चित्तात्मकं कश्चिदुत्पन्नानर्थनाशनः ॥
तमंशं नैव कुर्वीत मनीषी पूर्वराशिवत् ।
क्रियमाणं न कस्मैचिद्यदर्थाय प्रकल्पते ॥
अक्रियावदनर्थाय तत्तु कर्म समाचरेत् ।
एषा सा वैदिकी निष्ठा ह्युपायापायमध्यमा ॥
अस्यां स्थितो जगन्नाथं प्रपद्येत जनार्दनम् ॥

इति भगवत्या श्रीलक्ष्म्या स्वयमेवोक्तम् । विवृतं चैतद्वात्स्यवरदगुरुभिः-

एतदुक्तं भवत्यत्र हिंसास्तेयादिकं च यत् ।
अनर्थसाधनं कर्म काम्यं त्वर्थस्य साधनम् ॥
चैत्यादिकं तथा कर्म सांख्ययोगादिकं तथा ।
उपायं कर्म सांख्यादि प्रायश्चित्तादिकं तथा ॥
चान्द्रायणादिकं कर्म न कुर्याच्च कदाचन ।
भाव्यनर्थस्य यत्कर्म परिहाराय कीर्तितम् ॥
सन्ध्याऽर्चापञ्चयज्ञादि तन्मुमुक्षुभिरादृतम् ।
नैमित्तिकं चाग्रयणं सीमन्तोन्नयनादिकम् ॥
अग्न्याधानादिकं कार्यमधिकारे सति द्विजैः ।
निषिद्धकाम्योपायाख्यकर्माण्यन्यानि नाचरेत् ॥
प्रायश्चित्तं प्रपन्नस्य विशेषेण यदुच्यते ।
लक्ष्मीतन्त्रे कमलया निमित्ते तत्तदाचरेत् ॥

इत्यादिना । पक्षे– इह प्रपत्तिरिति पदे अविंजहत्स्वार्था अजहत्स्वार्थाख्या मध्यमवृत्तिः अभिधा लक्षणा व्यञ्जनेति क्रमेण परिगणितासु वृत्तिषु मध्यमा लक्षणाख्या वृत्तिः शब्दव्यापृतिः भवति । प्रपत्तिरध्युषितेत्यत्र प्रपत्तिपदं स्ववाच्यायाः प्रपत्तेः फणाधरगिर्यधिकरणकनिवासनिष्पत्तये प्रपत्तिमत्पुरुषे वर्तते । अत्र प्रपत्तेरपि पुरुषसाहित्येन क्रियान्वयादजहल्लक्षणा-

स्वसिद्धये पराक्षेपे त्वजहल्लक्षणोच्यते ॥

इति लक्षणात् । यत्र स्ववाच्यस्यान्वयसिद्ध्यर्थं स्ववाच्यसंबन्धी लक्ष्यते तत्राजहल्लक्षणेति तदर्थः । अत्र भगवच्छास्त्रीयव्यवहारे शास्त्रान्तरीयव्यवहारारोपः पूर्ववदेव ॥

 अत्रेदमवधेयम्-'परमं पदमध्यवसत्’ इत्यादीनि पद्यानि 'सुविदितशक्तिं स्वामिन्' इति पद्यवर्जितानि अप्रस्तुतव्यवहा रात्मन आलंकारिकाद्यभिमततत्तत्पदगततत्तदर्थबोधौपयिकलक्षणाख्यवृत्तिविशेषस्य स्फूर्तिसद्भावमात्रमवलम्ब्य समासोक्त्युदाहरणतां नीतानि । यदा तु प्रकृताप्रकृतधर्मिद्वयसाधारणविशेषणोपादानमूलिका अप्रकृतधर्मिब्यवहारस्फूर्तिर्हि समासोक्तिमूर्तिः सा च न प्रकृतपद्येषु सुप्रसरा । तत्त्वंपदादिरूपस्याप्रकृतधर्मिणस्तदादिपदैरेवोपादानात् । प्रकृतस्य फणिशिखरिलग्नभगवदादिरूपस्य अप्रकृतस्य तत्त्वंपदादिरूपस्य च धर्मिणोस्साधारणस्य कस्यचिदपि विशेषणस्यानुपादानाच्च । यद्यपि तद्भागत्यागलक्षणाश्रयणादिति तुरीयचरणार्थौ परमपदावधिकागमनपूर्वकफणिशिखर्याश्रयणकर्तृपरमपदाधिवासिभगवत्प्रभा भागत्यागलक्षणाश्रयणहेतुकार्थबोधकतावत्तत्त्वंपदद्वयं चेत्येतौ श्लेषतोऽभेदेनाध्यवसीयेताम्, एवमन्येष्वपि पदेषु तौ तावर्थौ । तथाऽपि नैतौ कस्यचिद्विशेषणतया प्रतीयेते, न तरां च प्रकृताप्रकृतयोरिति तत्त्वं सुसूक्ष्ममोक्ष्यते, तदा पुनश्लेषस्य प्रकृताप्रकृतगोचरस्यैवैतान्युदाहरणानि भविष्यन्तीति ॥

 यद्वा-तद्भागत्यागलक्षणाश्रयणादित्यतः परमपदावधिकागमनपूर्वकफणिशिखर्याश्रयणकर्तृस्वकीयप्रभाकत्वेन प्रकृतभगवद्विशेषणतयाऽर्थात्प्रतीयमाने प्रकृतव्यवहारे अप्रकृतालंकारिकादिगतस्य स्वाभ्युपगतभागत्यागलक्षणाश्रयणहेतुकार्थबोधकतावत्तत्वं पदद्वयकत्वस्याप्रकृतव्यवहारस्य प्रतीतिरित्यभिप्रायेणेह परमं पदमिति पद्यं समासोक्त्युदाहरणतां प्रापितम् । समासोक्तिशरीरे प्रविष्टस्य विशेषणविशेष्यभावस्य शाब्दतानियमाभ्युपगमे तूक्तरीत्या श्लेषस्यैवेदमुदाहरणं भविष्यति । एवं पद्यान्तरेष्वप्यूह्यमिति ॥

 यथावा--

 जगदानन्दकृतस्तव नाम्नो ग्रहणे फणाधरगि- रीन्दो। पुंसोऽनघगतिकारकपूर्वस्यापि स्वयं भवेद्ग्रहणम् ॥ ७६८ ॥

 हे अनघगतिकारक! दिव्यगतिदायिन् ! फणाधरगिरीदो! जगदानन्दकृतः सकललोकामोददायिनः तव नाम्नः नारायणवासुदेवविष्णुहरिप्रभृतिनामधेयस्य ग्रहणे उच्चारणे सतीति यावत् । पूर्वस्य ‘पूर्वेषामपि पूर्वजः' इत्युक्तरीत्या अखिलजगत्कारणभूतस्य पुंसः पुरुषस्य तवेत्येतदत्राप्यनुषज्यते । तवापि योगिभिरपि दुर्ग्रहस्यापीति भावः । स्वयं प्रयत्नान्तरनिरपेक्षमेव ग्रहणं ‘उपयाम गृहीतोसि ब्रह्मणे त्वा महस ओमित्यात्मानं युञ्जीत’ इत्युक्तरीत्या आत्महविस्समर्पणोद्देश्यत्वेन वशीकरणं भवेत् ॥

ओमित्येकाक्षरं साक्षाद्वासुदेवस्य वाचकम् ।
ओमित्युच्चारणेनैव वाच्यमानीयते परम् ॥
द्वादशाक्षरयोगेन दूरस्थं तदिहान्तिके ।
स्मृतमात्रे महामन्त्रे सुसूक्ष्मे द्वादशाक्षरे ॥
चित्तदर्पणसंक्रान्तस्सुसुखं लक्ष्यते हरिः।
अतश्च द्वादशार्णेन स्वाध्यायेन जनार्दनः ॥
आसन्नतां व्रजत्याशु ब्रह्मण्यर्पितचेतसाम् ।

इति,

हरिरित्यवशेनापि कीर्तयेन्नाम यो नरः।
किमन्यैस्साधनैः कार्यं तस्य वश्यो भवेद्धरिः॥

इति च शाण्डिल्यपरमधर्मशास्त्रभगवच्छास्त्रोक्तेरिति भावः ।

 पक्षे– जगदानन्दकृत इत्यत्र जगदानन्देति, अनघगतीत्यत्र अनघेति च छेदः । हे जगदानन्द! लोकानन्दकारण! हे अनघ ! अपहतपाप्मन्! कुतः कृत्प्रत्ययस्य ग्रहणे गतिकारकपूर्वस्यापि ग्रहणं भवेदिति ‘कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्’ इति परिभाषार्थो दर्शितः । तेन ‘कर्तृकरणे कृता बहुळम्' इति समासविधायके शास्त्रे कृद्ग्रहणे नखैर्भिन्नो नखभिन्न इत्यत्रेव नखैः निर्भिन्नः हरिणा नखनिर्भिन्नः इत्यादौ गतिकारकपूर्वेणापि कृदन्तेन समासो भवतीति वेदितव्यम् । गतिरत्र प्रादिगणपठित उपसर्गापरपर्यायश्शब्दः “उपसर्गाः क्रियायोगे, गतिश्च' इत्यनुशासनात् । कारकाणि च कर्मकरणादीनि सुप्रसिद्धानि । अत्र भगवच्छास्त्रीये व्यवहारे शब्दशात्रीयव्यवहारारोपः ॥

 यथावा--

 शिरसः परतो न्यस्ते पदेसमस्ते विसर्जनीयोऽप्यन्ते । सत्त्वं भजते भगवन्नयोगवाहेषु हन्त गणितो मनुजः ॥ ७६९ ॥

 हे भगवन् ! योगं वहन्तीति योगवाहाः, कर्मण्यन् । तेन भवन्तीत्ययोगवाहाः त्वद्ध्यानविधुरा इत्यर्थः । तेषु गणितोपि अन्ते विसर्जनीयः साधुजनगोष्ठ्या बहिष्कार्योऽपि मनुजः पुमान् , समस्ते इत्यत्र समः ते इति छेदः । ते तव पदे चरणे शिरसः परतः शीर्षादूर्ध्वं शीर्षे इत्यर्थः । वृक्षाग्रे श्येन इत्यस्मिन्नर्थे वृक्षाग्रात्परतश्श्येन इत्यपि प्रयोगदर्शनात् । न्यस्ते निक्षिप्ते सति समः साधुस्सन् ‘सर्वसाधुसमानेषु समं स्यादभिधेयवत्' इति मेदिनी । ‘तुल्यो मित्रारिपक्षयोः' इत्युक्तदिशा सर्वसमस्सन्निति वा । यद्वा- असम इति छेदः । असदृशस्सन्नित्यर्थः । सत्वं भजते ।

महान्प्रभुर्वै पुरुषस्सत्त्वस्यैष प्रवर्तकः ।

इति श्रुत्युक्तरीत्या सत्त्वप्रवर्तकभगवच्चरणारविन्दशिरोनिधानमहिम्ना बलिदानवेन्द्र इव सात्विकतां सतो भावं वा प्रतिपद्यत इत्यर्थः । पक्षे– शिरसः शिरःपदात् परतः परत्र न्यस्ते प्रयुक्ते पदे पदशब्दे समस्ते समासं प्राप्ते सति । अन्यथा वक्ष्यमाणं सत्वं न स्यात् ‘नित्यं समासेऽनुत्तरपदस्थस्य’ इत्यधिकारात् । अयोगवाहाः अनुस्वारविसर्गजिह्वामूलीयोपध्मानीयाः तेषां भगवता पतञ्जलिना तथा संज्ञाया विधानात् । तेषु गणितः । अन्ते शिरश्शब्दन्ते विद्यमानः विसर्जनीयोपि विसर्गोपि सत्वं सकारत्वं भजते 'विसर्जनीयस्य सः’ इति खर्परकत्वलक्षणसत्वापवादतया ‘कुप्वोः कःपौ च' इति प्राप्तस्य विसर्जनीयस्य ‘अधश्शिरसी पदे' इत्यनेन सत्वविधानादिति भावः । अत्रापि--

शिरसा प्रतिगृह्णानो देवदेवस्य पादुकाम् ।
पापोपि सात्विको भूत्वा याति तद्वैष्णवं पदम् ॥

इति भगवच्छास्त्रप्रतिपादिते वस्तुनि शब्दशास्तीयव्यवहार आरोप्यते ॥

 यथावा--

 कमला वैशम्पायनकथनीयोदारभागवतगीता । भयमुपशमयति भविनां प्रियशान्त्यनुशासनाहितोद्योगा ॥ ७७० ॥

 वै इति भिन्नं पदम् । शम्पानां शतह्रदानां अयने मार्गे कथनीया 'आदित्यवर्णे, हिरण्यवर्णाम्' इत्यादिश्रुतिप्रथितवर्णतया विद्युत्तुल्येति वर्णनीयेति यावत् । यद्वा-शम्पा दम्भोळिः तस्याः अयनः प्राप्ता । शम्पया ईयत इति वा । सर्वधाऽपि वज्री इन्द्र इत्यर्थः । ‘शम्पा विद्युत्पविश्शम्पा’ इत्यनेकार्थध्वनिकोशः । तेन कथनीया,

नमस्ते सिन्धुसंभूते नमस्ते पद्मसम्भवे ।
नमस्सरोरुहावासे नारायणकुटुम्बिनि ॥

इति,

नमामि सर्वलोकानां जननीमब्धिसंभवाम् ।

इत्यादिना च लक्ष्मीतन्त्रविष्णुपुराणादौ देवराजेन स्तुतेत्यर्थः । यद्वा--शम्पायने इन्द्रे कथनीयं उपदेष्टव्यं लक्ष्मीतन्त्रादि यस्यास्सा तथोक्ता । लक्ष्मीतन्त्रस्य लक्ष्म्या इन्द्रायोपदिष्टत्वादिति भावः ।

 पक्षे–वैशम्पायनेत्येकं पदम् । वैशम्पायनेन परमर्षिणा कथ्यत इति कथनीया ‘तयोरेव' इति कर्मण्यनीयर् । जनमेजयायोपदिष्टेत्यर्थः। उदारभागवतगीता उदाराः ‘उदरास्सर्व एवैते’ इति भगवतैव प्रशस्ताः वदान्या ये भागवताः भगवद्भक्ताः ‘चतुर्विधा भजन्ते मां जनास्सुकृतिनोऽर्जुन' इत्यादिनोक्ता आर्तजिज्ञास्वर्थार्थिज्ञानिनः । ते हि भगवतो यत्किंचिदपि गृह्णन्ति तस्मै तु सर्वस्वदायिन इत्युदारता तेषाम् । तैर्गीता । पक्षे–भगवत इयं भागवती गीता भगवद्गीतोपनिषदित्यर्थः । सा उदारा यस्यां सा तथोक्ता । उदारत्वं चास्याः पठतां शृण्वतां च परमपुरुषार्थदातृत्वम् । महाभारतान्तर्विद्यमानाख्यानेषु महत्त्वं वा । ‘उदारो दातृमहतोः' इत्यमरः । प्रियस्य स्ववल्लभस्य भगवतः शान्तिः आश्रितापराधनिर्वर्णनोदीर्णक्रोधावेगप्रशमनं तस्याः यदनुशासनं वाल्लभ्यातिशयेनाज्ञापनं तस्मिन् आहितः उद्योगः यया सा तथोक्ता ।

पितेव त्वत्प्रेयान् जननि परिपूर्णागसि जने
हितस्रोतोवृत्त्या भवति च कदाचित्कलुषधीः ।
किमेवं निर्दोषः क इह जगतीति त्वमुचितैः
उपायैर्विस्मार्य स्वजनयसि माता तदसि नः ॥

इत्याद्युक्तरीत्या भगवन्मानसप्रसादनैकव्यापारेति भावः ।

अत्र-

अपराधैकसक्तानामनर्हाणां चिरं नृणाम् ।
भर्तुराश्रयणे पूर्वं स्वयं पुरुषकारताम् ॥
वाल्लभ्येनानुतिष्ठन्ती वात्सल्याद्युपबृंहणीम् ।
उपायसमये भर्तुर्ज्ञानशक्त्यादिवर्धनीम् ॥

इत्यादिकं च स्मर्तव्यम् । पक्षे—प्रिये शृण्वतां प्रीतिजनके शान्तिश्चानुशासनं चेति पर्वणी यस्यां सा तथोक्ता । हितः श्रेयःप्रदः उद्योग इति पर्व यस्यां सा तथोक्ता च । कमला श्रीः भविनां संसारिणां भवभयं शमयति । अत्र पञ्चरात्रादिशास्त्रीये व्यवहारे प्रस्तुते भारतसंहिताव्यवहारस्यारोप इति विशेषः ।

 यथावा--

 सुप्रथतेजसि जगतां प्रथमे दिव्यस्वभा वशी भावः । त्वयि भात्यच्युत सुतरामसर्वसाधारणेनित्यः ॥ ७७१ ॥

 दिव्या रमणीया स्वभाः ‘न तत्र सूर्यो भाति' इत्या दिना 'तस्य भासा सर्वमिदं विभाति’ इत्युक्तप्रकारा दीप्तिः यस्य तस्य संबुद्धिः हे दिव्यस्वभाः! हे अच्युत ! शोभना प्रथा यस्य तत्तथोक्तं तेजः यस्य तस्मिन् सुप्रथतेजसि । तेजो नाम अस्वाधीनसहकार्यनपेक्षत्वम् । तदुक्तं ‘तेजस्त्वनन्यापेक्षता' इति ।

सहकार्यनपेक्षा मे सर्वकार्याविधौ हि या ।
तेजष्षष्ठं गुणं प्राहुस्तमिमं तत्त्ववेदिनः ॥

इति च, यद्वा--

ज्योतींष्यादित्यवद्राजन्कुरून् प्रच्छादयन् श्रिया ।

इति निदर्शितं पराभिभवसामर्थ्यं,

पराभिभवसामर्थ्यं तेजः केचित्प्रचक्षते ।

इत्युक्तेः । जगतां प्रथमे कारणे इत्यर्थः । एतैर्विशेषणैः ‘महाशक्तिर्महाद्युतिः, महातेजा महोरगः, ओजस्तेजोद्युतिधरः, सिद्धिस्सर्वादिरच्युतः’ इत्यादीनि स्मारितानि । अत एव असर्वसाधारणे सकललोकविलक्षणे त्वयि नित्यः शाश्वतः वशी वशः प्रभुत्वमस्यास्तीति वशी भावस्सत्ता प्रभुत्ववैशिष्ट्येन स्थितिरित्यर्थः । भाति 'सर्वस्य वशी’ इत्येतदत्राभिसंहितम् । यद्वा- वशी प्राभववान् भावः क्रिया विभूतिर्वा । अथवा– वशो जन्म तदस्यास्तीति वशी अवशिनः वशिनस्संपद्यमानस्य भावः वशीभावः, अभूततद्भावे च्विः । अनित्य इति छेदः । अनित्यः अकर्मवश्यत्वेनेच्छापरिगृहीततया कादाचित्क इति भावः । यद्वा-भावः वशीति योजना । भावः जन्म । वशोऽस्यास्तीति वशी । वश इच्छा ऐच्छिक इत्यर्थः । अभिप्रायस्तु पूर्ववदेव । अत्र ‘इच्छागृहीताभिमतोरुदेहः' इत्यादिकमनुसंधेयम् । अत एव अनित्यः उक्तोऽर्थः । यद्वा-जगतामित्येतदत्रैव संबध्यते । जगतां वशीभावः आयत्तत्वं 'वशो जन्मस्पृहायत्तेष्वयत्तत्वप्रभुत्वयोः' इति हेमचन्द्रः। सुतरां भाति प्रकाशते । अस्मिन्पक्षे प्रथमेत्यस्यैव सर्वजगदादिकारणेत्यर्थः ॥

जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ।

इत्येतदत्र स्मर्तव्यम् ।

भावस्सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु ।
क्रियालीलापदार्थेषु विभूतिबुधजन्तुषु ॥

इति मेदिनी । उक्तप्रकारे त्वय्यधीनमखिलं जगदित्यभिप्रायः ।

 पक्षे- सुप्रथते इति दिव्यस्वभावेति च छेदः । हे दिव्यस्वभाव! हे अच्युत! भाति प्रकाशमाने प्रथमे प्रथमशब्दे असर्वसाधारणे सर्वशब्दतुल्यत्वेनाविद्यमानेऽपि ‘साधारणस्समानश्च' इति तुल्यपर्यायेष्वमरः । अपिशब्दः 'न द्वन्द्वदुःखमिह किंचित्' इत्यत्रेव सामर्थ्याल्लभ्यते ।सर्वादिगणापठितेऽपीति यावत् । जसि प्रथमाबहुवचने शीभावः शी इत्याकारकादेशः अनित्य इति छेदः । अनित्यः विकल्पितः जगतां सुतरां प्रथते सुष्ठु प्रसिद्ध्यति “प्रथमचरमतय’ इति सूत्रेणासर्वनाम्नोपि प्रथमशब्दस्य जस्येव शीभावस्य वैकल्पिकतयाऽनुशासनादिति भावः । अत्र सहस्रनामाध्यायादिप्रसिद्धव्यवहारे शब्दशास्त्रसिद्धव्यवहारारोपः ॥

 यथावा--

 बहुधामासव्रजभूर्मलिम्लुचो जातु यो निषिद्धोपि । कारयतु स मां शौरिस्स्वस्मिन्नावश्यकं शुभं कर्म ॥ ७७२ ॥

 बहुधामा अमिततेजाः यः शौरिः जातु कदाचित् व्रजभूः । नन्दव्रजजन्मा सन् निषिद्धोपि यशोदादिभिर्वारितोपि मलिम्लुचः दुग्धदधिनवनीतादिस्तेनः आस अभूत् । तिङन्तप्रतिरूपकमव्ययम् । सः शौरिः स्वस्मिन् स्वविषये आवश्यकं अवश्यकर्तव्यं शुभं कर्म--

न विष्ण्वाराधनात्पुण्यं विद्यते कर्म वैदिकम् ।

इत्याद्युक्तमाराधनादिकं मां कारयतु `हृक्रोरन्यतरस्याम्' इति द्विकर्मकत्वम् । पक्षे -बहुधा बहुवारमिति यावत्। यद्वा-बहुप्रकारेण चैत्राद्याश्विनान्तमासेष्वनियमेनेत्यर्थः । तेष्वेव मासेष्वधिकमाससंभवात् । मासानां चान्द्रमासानां व्रजो निवहः ‘गोष्ठाध्वनिवहा व्रजाः' इत्यमरः । तस्मिन् भवतीति मासव्रजभूः ।

द्वात्रिंशद्भिर्गतैर्मासैर्दिनैष्षोडशभिस्तथा ।
घटिकानां चतुष्केण भवत्यधिकमासकः ॥

इति स्मरणात् । यः मलिम्लुचः-

एष षष्टिदिनो मासः पूर्वार्धस्तु मलिम्लुचः ।

इत्युक्तलक्षणः अधिमास इत्यर्थः । मलिम्लुचत्वं चास्य-

वत्सरान्तर्गतः पापो यज्ञानां फलनाशकृत् ।
नैर्ऋतैर्यातुधानैश्च समाक्रान्तो विनाशकैः ॥
मलिम्लुचैस्समाक्रान्तस्सूर्यसंक्रान्तिवर्जितः ।
मलिम्लुचं तं जानीयाद्गर्हितं सर्वकर्मसु ।

इति शतातपोक्तरीत्या तस्करैर्यातुधानैराक्रान्तत्वादिति ध्येयम् ।

मलिम्लुचो मासभेदे चोरज्वलनयोः पुमान् ।

इति मेदिनी । सः निषिद्धोपि-

मलिम्लुचस्तुं यो मासस्स मासः पापसंज्ञितः ।
त्यक्त्वा तमुत्तरे कुर्यात्पितृदेवादिकाः क्रियाः ॥
वर्जितः पितृदेवाभ्यां स मासः पापसंज्ञितः ।

इति स्मरणात् । जातु कदाचित् सति संभव इति भावः ।

स्वस्मिन् आवश्यकं सीमन्तोन्नयनादिकं प्रतिनियतकालमवश्यकर्तव्यं शुभं मङ्गळं कर्म मां कारयतु ।

मासप्रोक्तेषु कार्येषु न मोढ्यं गुरुशुक्रयोः ।
अधिमासादिदोषाश्च न स्युः कालविधेर्बलात् ॥

इति स्मरणात् । अत्र पुराणवृत्तान्ते प्रस्तुते अप्रस्तुतधर्मशास्त्रीयव्यवहारारोप इति पूर्वेभ्यो विशेषः ॥

 यथावा--

 त्वयि सकलशुभगणास्मयमाताभानसजरालगन्तीश । त्वच्छन्दस्थितिभाजां भाति शुभं श्रीप्रभादिवृत्तं च ॥ ७७३ ॥

 अत्र श्रुतीतिहासपुराणादिशास्त्रीये व्यवहारे छन्दश्शास्त्रीयव्यवहारारोपः । तथाहि- सकलशुभगणा अस्मयेति छेदः । अविद्यमानः स्मयः गर्वः स तथोक्तः अस्मयः ‘स्मयो नाऽद्भुतगर्वयोः, स्मयो गर्वेऽद्भुते' इति मेदिनीविश्वौ । ‘न दृप्तो न च मत्सरी । अनुद्धतमना विद्वान्' इति श्रीरामायणोक्तेः । तस्य संबुद्धिः, अविद्यमानः स्मयो विस्मयो यस्येति वा ‘वीर्यबान्न च वीर्येण महता स्वेन विस्मितः' इति तत्रैवोक्तेः । यद्वा-अविद्यमानः स्मयः आश्चर्यकरः पदार्थः यस्मात्स इति अनुत्तमादिवत्पञ्मीबहुवीहिः ।

यत्राद्भुतानि सर्वाणि भूमौ वियति वा जले ।
तं त्वा नु पश्यतो ब्रह्मन्किं मे इष्टमिहाद्भुतम् ॥

इत्यक्रूरोक्तप्रकारेण सर्वाश्चर्यानिधे इत्यर्थः । स्मय इत्येव छित्वा हे स्मयेति संबोधनं वा । अर्थस्तूक्त एव ‘अनेकाद्भतदर्शनम्' इत्याद्यप्यत्रानुसंधेयम् । हे ईश! सर्वेश्वर! ‘क्षरात्मा नावीशते देव एकः, व्यक्ताव्यक्तं भरते विश्वमीशः, एष सर्वेश्वरः' इत्यादिश्रुतेः । त्वयि लगन्ती व्यतिषजन्ती शुभानां कल्याणानां गणाः निवहाः सकलास्समग्राः शुभगणा यस्यास्सा तथोक्ता । माता अस्य जगतामित्यादिः । यद्वा -अनौपाधिकनिर्देशेन शब्दशक्तेरसंकोचान्मतेत्यस्यैवाखिलजगज्जननीत्यर्थः । आभा इति छेदः। आ समन्तात् भातीत्याभाः । भातेः कर्तरि क्विप् । विश्वव्यापिनीत्यर्थः ॥

यथा मया जगद्व्याप्तं स्वरूपेण स्वभावतः।
तया व्याप्तमिदं सर्वं नियन्त्री च तथेश्वरी ॥

इति विष्वक्सेनसंहितोक्तः । यद्वा-आ समन्तात् भाः प्रभा यस्यास्सा । विश्वतोमुखद्युतिरित्यर्थः । ‘चन्द्रां प्रभासां, ज्वलन्तीं तृप्ताम्' इत्यादिश्रुतेः । जरया सह वर्तत इति सजरा सा न भवतीति नसजरा । नशब्देन सुप्सुपेति समासः ‘जरां मृत्युमत्येति, विजरो विमृत्युः’ इत्यादिश्रुत्युक्तरीत्या भगवत इवास्या अपि जरातीतत्वाद्यखिलहेयप्रत्यनीकताया अव्याहतत्वात् । अत एवोक्तं लक्ष्मीतन्त्रे-

कान्तस्य देवदेवस्य विष्णोस्सद्गुणशालिनः ।
दयिताऽहं सदा देवी ज्ञानानन्दमयी परा ॥
अनवद्याऽनवद्याङ्गी नित्यं तद्धर्मधर्मिणी ॥

इति,

नित्यनिर्दोषनिस्सीमकल्याणगुणशालिनी ।
अहं नारायणी नाम सा सत्ता वैष्णवी परा ॥

इत्यादि च । यद्वा माता अभा न सजरा इति छेदः । नेत्येतन्मध्यमणिन्यायेनोभयतोऽन्वयि । अभा निष्प्रभा न, किंतु सप्रभैव । प्रतिषेधद्वयेन कादाचित्कनिष्प्रभात्वसंभावनाऽपि व्युदस्यते । ‘संभाव्यनिषधनिवर्तने द्वौ प्रतिषेधौ' इत चामनः । सजरा च न । उक्त एवार्थः । भवतीति शेषः । अस्तेर्भवन्तिपरस्याप्रयुज्यमानस्याप्यस्तित्वभाषणात् । अव्याहतमहाविभूतिविशिष्टस्त्वमिति तात्पर्यार्थः । अत एव त्वच्छन्दस्थितिभाजां तव छन्दः अभिप्रायः 'अभिप्रायवशौ छन्दौ' इत्यमरः । तस्मिन् स्थितिभाजां ‘त्वदीयगम्भीरमनोऽनुसारिणः’ इतिवत्त्वदभिप्रायानतिलङ्घिनामित्यर्थः । यद्वा- त्वदधीनतास्थितिशालिनामित्यर्थः । त्वच्छेषभूतानां नृणामिति भावः । शुभं कल्याणं । श्रीः संपत्, प्रभा तेजः ते आदी यस्य तत् । आदिशव्देन यशआदीनां ग्रहणम् । वृत्तं तदनुरूपं चरित्रं च भाति प्रकाशते 'किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने, सकलफलप्रदो हि विष्णुः' इत्यखिलफलप्रदातृभगवच्चित्तानुवर्तिनामीदृशविशेषो न दुर्लभ इति भावः ॥

 पक्षे -सकलशुभगणाः स्म यमाताभानसजराः इति छेदः । हे ईश! त्वयि यमाताभानसजराः अत्र मादिवर्णेषु दीर्घोऽपि यादिवर्णेष्वकार इवोच्चारणसौकर्यार्थ एव । यमतभनसजराः यादिसंज्ञकाः सकलाश्शुभाश्च गणाः-

सर्वगुर्मो मुखान्तर्लौ यरावन्तगलौ सतौ ।
मध्याद्यौ ज्भौ त्रिलौ नोऽष्टौ भवन्त्यत्र गणास्त्रिकाः ॥

इति छन्दश्शास्त्रप्रसिद्धा गणाः वर्णत्रयात्मकाः लगन्ति स्म लग्ना भवन्ति स्म । त्वद्बुद्धिस्था अभवन्निति यावत् । अस्यामानुपूर्व्यां यकारादिवर्णत्रितये यथा आदिलघुर्यगणो निष्पद्यते । एवं एकैकवर्णापायेन मा इत्यादौ वर्णत्रितयत्रितये सर्वगुरुर्मगण अन्त्यलघुस्तगणः आदिगुरुर्भगणः सर्वलघुर्नगणः अन्त्यगुरुस्सगणः मध्यगुरुर्जगणः मध्यलघू रगणश्चेत्यष्टौ गणा निष्पद्यन्ते । ते चादिमवर्णैस्तत्तत्संज्ञका इति ज्ञाप्यन्ते । एवं लगन्तीत्यत्र लघुर्गुरुश्च ज्ञाप्येते इत्यवहितहृदयैर्द्रष्टव्यम् । त्वच्छन्दस्थितिभाजां तव छन्दांसि उक्तायुक्तादीनि छन्दासि तेषु स्थितिभाजां तद्विषयकज्ञानवतामित्यर्थः । शुभं स्वनाम्नैव मङ्गळं श्रीप्रभादिवृत्तं, श्रीः उक्तायां 'ग्श्रीः’ इत्युक्तलक्षणं, प्रभा जगत्यां ‘स्वरशरविरतिर्ननौ रौ प्रभा’ इत्युक्तलक्षणं च वृत्तं ते आदी यस्य तत् । वृत्तं पद्यं जात्येकवचनं भाति । चकारः पूर्वोक्तसमुच्चयार्थकः ।

 यथावा--

 सर्वगुरुचरणमाप्त्वाऽऽद्यगुरुपदाधस्सखे लघुन्यासात्त्वम् । शेषमुपरीव दर्शय गुरुमूने शश्वदखिललघु तद्भवति ॥ ७७४ ॥

 हे सखे! सर्वेषां गुरूणां स्वाचार्यप्रभृतिभगवदवधिकानामाचार्याणां चरणं जात्येकवचनम् । आप्त्वा प्रपद्य आद्यगुरुपदाधः आद्यस्य गुरोः भगवतः ‘कमप्याद्यं गुरुं वन्द’ इत्युक्तेः । पदयोः अधः ‘त्वत्पादमूलं शरणं’ इत्याद्युक्तरीत्या चरणमूले इत्यर्थः । लघु क्षिप्रं यथा स्यात्तथा न्यासात् आत्म रक्षाभरसमर्पणात् नास्मिन्नर्थे विलम्बितव्यम् ॥

महता पुण्यपण्येन क्रीतेयं कायनौस्त्वया ।
प्राप्तुं दुखाम्बुधेः पारं त्वर यावन्न भिद्यते ॥

इत्युक्तेरिति भावः । यद्वा--लघुन्यासात् भक्त्यपेक्षया लघूपायरूपात्प्रपदनात् प्रपदनं कृत्वेत्यर्थः । ल्यब्लोपे कर्मणि पञ्चमी । एवं पूर्वस्मिन्नर्थेऽपीति ध्येयम् । अत्र ‘गुरुमुखाच्छ्रीशं प्रपद्य' इत्युक्तोऽर्थोऽनुसंहितः । उपरीव आदौ प्रदर्शिते गुरुचरण इव प्रथमगुरोश्चरणेऽपीति भावः । स्वमिति शेषः । आत्मानमित्यर्थः । शेषं शेषभूतं परगतातिशयाधानेच्छया उपादेयस्वरूपं दर्शय । यद्वा-उपरि सकललोकोपरि विद्यमाने अखिलजगदीश्वरे भगवतीत्यर्थः । तस्मिन्निव सर्वगुरुचरणेऽपीति भावः । शेषं दर्शयेति योज्यम् । अथवा उपरीत्यस्य सकललोकशिरोधार्ये भगवच्चरण इवत्यर्थः । अन्यत्तुल्यम् ।

यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ॥

इत्यादिश्रुतेः । ऊने उपायानुष्ठानसमयभाव्यङ्गादिवैगुण्ये संभाविते सति । शश्वत् गुरुं स्वाचार्यं दर्शयेत्येतन्मध्यमणिन्यायेनात्रापि संबध्यते ।

पितामहं नाथमुनिं विलोक्य प्रसीद मद्वृत्तमचिन्तयित्वा ।

इत्याद्युक्तरीत्या भगवत्प्रसादनायाचार्यं दर्शयेति भावः । तत् तस्मात् उक्तप्रकारेणानुष्ठानात् अखिलं च तत् लघु च अखिललघु निश्श्रेयसपर्यन्तसकलाभिष्टं भवति सिद्ध्यति ‘त्रिष्विष्टेऽल्पे लघुः' इत्यमरः । इष्टेऽर्थे-

दर्शनेन लघुना यथा तयोः प्रीतिमापुरुभयोस्तपस्विनः ।

इति प्रयोगश्च । लघुना इष्टेनेति विवृतम् । यदा ।

कृष्णागुरुणि शीघ्रे च लघु क्लीबेगुरौ त्रिषु ।
निस्सारे च मनोज्ञे च पृक्कायां च लघु स्त्रियाम् ॥

इत्यादिरभसादिकोशैकरस्यायेष्टशब्दोऽमरकोशगतो मनोज्ञवाची त्याश्रीयते, तदा अखिललघु इत्यस्य सर्वमनोज्ञमित्यर्थः । तदिदं गुरुपरंपराशरणवरणपूर्वकभगवच्चरणारविन्दशरणागत्यादिकखिलमपि न्यासविद्यानिष्णातानां सर्वेषां मनोहरं भवतीति भावः॥

 पक्षे-छन्दश्शास्त्रीयप्रस्तारक्रमो दर्शितः । तथाहि-हे सखे! त्वं सर्वे गुरवः गुरुवर्णज्ञापकवक्ररेखाविशेषाः यस्मिंस्तत्सर्वगुरु । चरणं पद्यचतुर्थांशं आप्त्वा उक्तविधरेखाभिर्लिखित्वेति यावत् । आद्यगुरुपदाधः आद्यं प्रथमं गुरुपदं गुरुवर्णचिह्नं तज्ज्ञापकवक्ररेखाविशेष इत्यर्थः । ‘पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । तस्य अधः अधस्ता | लघोः लघुवर्णज्ञापकऋजुरेखाविशेषस्य न्यासात् तल्लेखनं कृत्वा । पूर्ववत्पञ्चमी । शेषं अवशिष्टं उपरीव उपरितनपङ्क्ताविव । दर्शय लिखेति यावत् । ऊने उपरिगुरुवर्णज्ञापकरेखाहीने लघुवर्णसूचकरेखासद्भावे इति भावः । गुरुं गुरुवर्णसूचकवक्ररेखाविशेषं दर्शयेत्यत्राप्यन्वेति । एवं शश्वत् पुनःपुनः दर्शय । एवं सति तत् चरणं अखिललघु अखिलाः लघवः लघुवर्णज्ञापकरेखाविशेषाः यस्य तत्तथोक्तं भवति इति,

पादे सर्वगुरावाद्यालघुं न्यस्य गुरोरध ।
यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम् ॥
ऊने दद्याद्गुरूनेव यावत्सर्वलघुर्भवेत् ।
प्रस्तारोऽयं समाख्यातश्छन्दोविचितिवेदिभिः ॥

इति श्लोकार्थस्सर्वोप्यनुसन्धेयः । तथाहि तदर्थः- सर्वेषां छन्दसाभाद्यं वृत्तं सर्वगुरु अन्त्यं सर्वलघु अतः पादोपि तादृश एव एवं सति सर्वगुरौ पादे छन्दोनुरूपतया अर्धचन्द्राकृतिवक्ररेखाभिर्लिखिते सतीति यावत् । आदेः गुरोः अधः आद्यवक्ररेखाया अधस्तात् द्वितीयपङ्क्तौ लघुं ऋजुरेखां न्यस्य लिखित्वा यथोपरि लघुरेखायाः परत्र स्थाने दक्षिणपार्श्वे उपरिपङ्क्तौ यद्वत् गुरुलघुज्ञापकरेखास्सन्ति तथा तेन प्रकारेणैव शेषं अवशिष्टगुरुलघुरेखाः पूर्वपङ्क्त्यवसानपर्यन्तं न्यस्य भूयः पुनरपि तदधः तृतीयपङ्क्त्यादौ अमुं विधिं आदेर्गुरोरध इत्यादिकं कुर्यात् लिखेत् द्वितीयपङ्क्तौ आदौ गुर्वभावाद्द्वितीयस्थानगत एवाद्यो गुरुर्भवति । एवं तृतीयादौ तृतीयादिस्थानगत एवाद्य इति ध्येयम् । ऊने क्रमप्राप्तलेखनहीने लघुरेखायाः पूर्वत्र स्थाने वामभागे गुरूनेव वक्ररेखा एव दद्यात् लिखेत्। एवं कियन्तमवधिं लिखेदित्यत आह - यावदिति । यावता सर्वलघुः पादो भवेत् तावदयं विधिरिति भावः । एवं एवंचास्मिन्नुदाहरणपद्ये अत्युक्ताच्छन्दःप्रस्तारस्सर्वोपि प्रदर्शित इत्यवधेयम् । तत्र हि प्रथमं वृत्तं द्विगुरु द्वितीयं लघुगुर्वात्मकं तृतीयं गुरुलघ्वात्मकं चतुर्थं सर्वलघु इति चत्वारि वृत्तानि भवन्तीति । अत्रापि पूर्ववदेवारोपः ॥

 यथावा-

 अविसर्जनीयसत्त्वं स्वान्तस्तव दर्शनेन यो विन्देत । वाचस्पतिस्स भगवंश्छन्दसि साधुः प्रयोगतो लोकेऽपि ॥ ७७५ ॥

 हे भगवन्! तव दर्शनेन अवलोकनेन यः पुमान् स्वस्य अन्तः मनसि अविसर्जनीयं अपरित्याज्यं नैसर्गिकमित्यर्थः । सत्त्वं सत्त्वगुणं विन्देत-

जायमानं हि पुरुषं यं पश्येन्मधुसूदनः ।
सात्त्विकस्स हि विज्ञेयस्स वै मोक्षार्थचिन्तकः ॥

इति मोक्षधर्मोक्तेरिति भावः । स पुमान् वाचस्पतिः वाग्मी सन् ‘वागीशो वाक्पतिस्समौ' इत्यमरः। बृहस्पतितुल्य इति वा- 'जीव आङ्गिरसो वाचस्पतिः' इत्यमरः । छन्दसि अभिलाषे साधुः साध्वभिलाष इत्यर्थः । क्षोदिष्टप्रयोजनानभिलाषुक इति भावः । यद्वा-छन्दसि वेदे साधुः अधीतसाङ्गशिरस्कवेदतया पूज्य इति भावः । ‘साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः’ इति साधुशब्दयोगे छन्दश्शब्दात्सप्तमी ॥

छन्दः पद्ये च वेदे च स्वैराचाराभिलाषयोः ।

इति मेदिनी । प्रयोगतः प्रकृष्टो विजातीयप्रत्ययासंवलिततया श्रेष्ठः योगः ध्यानं तस्मात् लोकेऽपि साधुस्सभ्यः मोक्षार्थचिन्तकतया उपासनीय इति यावत् । भवति ।

स वेदैतत्परं ब्रह्मधाम यत्र विश्वं निहितं भात शुभ्रम् ।
उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः ॥

इति ब्रह्मविदुपासकानां जन्मवैधुर्यश्रवणादिति भावः । 'साधुस्त्रिषूचिते चारौ सभ्ये वार्धुषिकेऽपि ना’ इति रत्नमाला ।

 पक्षे-तव दर्शनेन शास्त्रेण व्याकरणेनेत्यर्थः ‘दर्शनं दर्पणस्वप्नबुद्धिशास्त्राक्षिदृष्टिषु’ इति रत्नमाला । यः वाचस्पतिशब्दः स्त्रान्तः स्वमध्ये अविसर्जनीयः विसर्गशुन्यः विसर्गस्थानिक इति यावत् । सः सकारो यस्य स तथोक्तः तस्य भावं अविसर्जनीयसत्त्वं विन्देत । ‘षष्ठ्याः पतिपुत्रपारपदपयस्पोषेषु’ इति षष्ठीविसर्गस्य सकारादेशविधानादिति भावः । स वाचस्पतिः वाचस्पतिशब्दः छन्दसि वेदे साधुः प्रयोगार्हः । उदाहृतसूत्रेण सकारस्य छन्दस्येव विधानात् । लोकेऽपि प्रयोगतः 'वक्ता वाचस्पतिर्यथा’ इयादिप्रामाणिकप्रयोगभूम्ना साधुर्भवति, यथा छन्दोमात्रविषयोपि परिपन्थ्यादिशब्द इति भावः । अत्र श्रुतीतिहासादिशास्त्रीयव्यवहारे शब्दशास्त्रीयव्यवहारारोपः ॥  यथावा--

 बहुधात्वात्मा विन्देन्नाथेषद्दुरितसूपपदतां चेत् । न खलु न खलाश्रितस्स्यात्प्रत्ययितस्सोपि दर्शनेन तव ॥ ७७६ ॥

 हे नाथ ! आत्मा प्रत्यगात्मा । ईषत् अल्पं दुरितेन वृजिनेन सूपपदतां सुखेन उपपद्यत इति सूपपदः। वक्ष्यमाणः खल्प्रत्ययः । तस्य भावं इयाच्चेत् यत्किञ्चिद्दुष्कृतोपपन्नश्चेदित्यर्थः । बहुधा बहुप्रकारेण प्रायेणेति यावत् । खलाश्रितः दुर्जनसंसृष्टः न स्यादिति तु न खलु । स्यादेवेति भावः । तुशब्दोऽवधारणे, खल्विति जिज्ञासायां वाक्यालङ्कारे वा । ‘निषेधवाक्यालङ्कारजिज्ञासानुनये खलु' इत्यमरः । दुरितमूलको हि खलसंसर्गः । यथोच्यते-

अहो नु खलसंसर्गः पापानां महतां फलम् ।

इति । सोपि एवं खलसंसर्गविदूषितोपि तव दर्शनेन यादृच्छिकादिसुकृतपरिपाकसुलभेन तवावलोकनेन प्रत्ययितः संजातप्रत्ययः ज्ञानवानित्यर्थः । इतच् । स्यादित्येतदत्रापि संबध्यते ।

अज्ञानं नश्यति ज्ञानमुदेति हरिदर्शनात् ।

इत्युक्तेरिति भावः ।

 पक्षे-बहुः बहुप्रकारः धातूनां भ्वादीनां आत्मा स्वरूपं ईषद्दुर्भां शब्दाभ्यां इतः सुः सुइत्याकारकश्शब्दः उपपदं उपोच्चारितं पदं ‘तत्रोपपदं सप्तमीस्थम्’ इति संकेतितं यस्य सः तथोक्तः । तस्य भावः ईषद्दुस्सूपपदतेत्यर्थः । ताम् । यद्वा- ईषद्दुर्भां उपपदभूताभ्यामिति भावः । इतः युक्तः सुः उपपदं यस्य सः सूपपदः ईषद्दुरितश्चासौ सूपपदश्चेति विशेषणोभयपदकर्मधारयः । ततस्तल् । तत्तां इत्याच्चेत् । सोपीत्यत्र श्रुतः अपिशब्दो भिन्नक्रमः । प्रययित इत्यनेन संबध्यते । संजातप्रत्ययोपि । चेदित्येतदत्राप्यनुषज्यते । प्रत्ययान्तोऽपि भवेद्यदीत्यर्थः । खला खल्प्रत्ययेन श्रितो न स्यादिति न । यदि यः कश्चिदपि वा धातुरीषद्दुस्सूपपदतया विहितप्रत्ययस्स्यात्तर्हि 'ईषद्दुस्सुषु कृच्छ्राकृच्छ्रार्थेषु खल्' इतीषदाद्युपपदकाद्धातोः खल्विधानादीषत्करः दुष्करः सुकर इतिवत् खल्प्रत्ययान्तो भवेदेवेति भावः । उदाहरणमपि सूपपदतामित्यत्रेव दिङ्मात्रतया प्रदर्शितमिति वेदितव्यम् । अत्रापि पूर्ववदेवारोपोऽनुसन्धेयः ॥

 यथा--

 संकुचितोऽञ्जलिरयमिति न गृहाण कदाऽपि ननु फणिनगेन्दो । दृष्ट्वाऽसामर्थ्यमिह ग्राह्योऽञ्ज लिरेष हि स्फुटोहोमे ॥ ७७७ ॥

 ननु फणिनगेन्दो ! अयं मया कृतः अञ्जलिः संकुचितः संक्षिप्तः यथाशास्त्रमकृतत्वादपूर्ण इति न गृहाण । मा ज्ञासीः । मोपेक्षिष्ठा इति भावः । इह मे मम असामर्थ्यं यथावदञ्जलिकरणाशक्ततां दृष्ट्वा स्फुटः अयथावदनुष्ठिततया व्यक्तः एषः यथातथात्राऽपि कृत इति भावः । अञ्जलिः- 'अञ्जलिः परमा मुद्रा क्षिप्रं देवप्रसादिनी’ इत्युक्तस्त्वत्प्रसादनाशुकारिमुद्राविशेषः अन्योन्याभिमुखमिळितप्रसृतिद्वितयलक्षणः 'पाणिर्निकुब्जः प्रसृतिस्तौ युतावञ्जलिः पुमान्’ इत्यमरः । एकवचनेन सकृत्कृतोप्ययं त्वय्येकाञ्जलिकिंकरे ’ इत्युक्तरीत्याऽऽश्रितवशंवदेन परमकारुणिकसार्वभौमेण एतावद्व्याजलाभमपि महत्तरलाभं मन्वानेन त्वयाऽनुदासितव्य इति द्योत्यते । ग्राह्याः, हीत्यवधारणे, सादरं त्वया स्वीकार्य एव । अहो स्वाशक्तता भगवत्परमकारुणिकतानुचिन्तनजनिते हर्षे आश्चर्ये वा । अयं चाञ्जलिः प्रयोजनान्तरपरस्य तत्तत्प्रयोजननिष्पादकः । अनन्यप्रयोजनस्य तु निश्श्रेयसपर्यन्तपरमपुरुषार्थप्रद इति द्रष्टव्यम् । अत्र--

त्वदङ्घ्रिमुद्दिश्य कदाऽपि केनचित्
यथातथावाऽपि सकृत्कृतोऽञ्जलिः ।
तदैव मुष्णात्यशुभान्यशेषतः
शुभानि पुष्णाति न जातु हीयते ॥
हस्तीशदुःखविषदिग्धफलानुबन्धि-
न्याब्रह्मकीटमपराहतसंप्रयोगे ।
दुष्कर्मसंचयवशाद्दुरतिक्रमे नः
प्रत्यस्त्रमञ्जलिरसौ तव निग्रहास्त्रे ॥

इत्याद्युक्तोऽञ्जलिप्रभावोऽनुसन्धेयः ।

 पक्षे- स्फुटोहोमे इत्यत्र स्फुटः होमे इति छेदः । होमे 'अञ्जलिना जुहुयात्' इति वक्ष्यमाणाञ्जलिकरणकहोमे अयं अञ्जलिः विहितोऽञ्जलिः संकुचितः मुकुळित इति न गृहाणेति कंचिद्बुभुत्सुं प्रत्युपदेशः । किंतु इह होमे सामर्थ्यं दृष्ट्वा पर्यालोच्य एषः विहितः अञ्जलिः स्फुटः व्याकोच इति ग्राह्यः 'स्फुटो व्यक्तप्रफुल्लयोः' इति मेदिनी । अत्र पूर्वमीमांसाप्रथमाध्यायान्तिमसामर्थ्याधिकरणार्थ उदपादितः । तत्र हि-अञ्जलिना सक्तून्प्रदाव्ये जुहुयात्’ इत्यत्र किं देवताप्रसादप्रार्थनायामिव हस्तसंयोगमात्रमञ्जलिर्होमे ग्राह्यः, यथासामर्थ्यं व्याकोच एव वा । इति संशय्य, तत्र विशेषाश्रवणात् अनियम इति पूर्वपक्षं प्रापय्य, अशक्यार्थविध्यसंभवादवश्यंविधायकस्य शक्तिस्सहकारिण्यङ्गीकार्येति शक्तिसहायो विधिरेव यथासामर्थ्यं विधेयं व्यवस्थापयति । तस्माद्व्याकोचस्य सक्तुष्वर्थापत्तिवशाद्व्यवस्थेति सिद्धान्तितम् । सामर्थ्यं नाम कारणत्वम्-

सामर्थ्यं स्यात्कारणत्वं मत्तोऽयं मधुना पिकः ।

इति सोदाहरणलक्षणात् । यथा कोकिलमदकारणत्वरूपसामर्थ्ये न मकरन्दादिसाधारणस्य मधुशब्दस्य वसन्तैकदेशे चैत्रमासेऽभिधा नियम्यते, तथाऽत्रापि होमसाधनतारूपसामर्थ्येन संकुचितव्याकोचसाधारणस्याञ्जलिशब्दस्य व्याकोचाञ्जलावभिधा नियम्यत इत्यवधेयम् । अत्र पञ्चरात्रागमादिव्यवहारे कर्ममीमांसाव्यवहारारोपः ॥

 यथावा-

 सेव्यातिथिवारार्चासुभगाऽनघयोगकरणनिपुणात्मा । भक्तततिस्त्वामञ्चति पञ्चाङ्गप्रपदनेन परमात्मन् ॥ ७७८ ॥

 हे परमात्मन्! सेव्याः

सेव्याश्श्रेयोऽर्थिभिस्सन्तः पुण्यतीर्थफलोपमाः ।
क्षणोपासनयोगोपि न तेषां निष्फलो भवेत् ॥

इति च्यवननहुषसंवादोक्तप्रकारगुणवत्त्या सेवनीयाः ये अथिथयः तेषां वाराः व्यूहाः तेषां अर्चया पूजया सुभगा शोभनश्रीः शोभनकीर्तिर्वा ।

दूराध्वोपगतं श्रान्तं वैश्वदेव उपस्थितम् ।
अतिथिं तं विजानीयान्नातिथिः पूर्वमागतः ॥
एकग्रामीणमतिथिं न गृह्णीत कदाचन ।
अनित्यमागतो यस्मात्तस्मादतिथिरुच्यते ॥

अतिथिं तत्र संप्राप्तं पूजयेत्स्वागतादिना ।

इत्यादिपराशराद्युक्तलक्षणातिथिसत्कारप्राप्तसौभाग्येत्यर्थः ॥

 पक्षे- सेव्येति भिन्नं पदम् । जातकादिफलजिज्ञासुभिस्सेवनीया । तिथयः प्रतिपदाद्याः वाराः भानुचन्द्रादिवासराः । अर्चतीत्यर्चा पचाद्यच् । तिथिवाराणामर्चा पूजयित्रीत्यर्थः । इदमपि भिन्नं पदं ‘वारस्सूर्यादिदिवसे बृन्दावसरयोरपि' इति रत्नमाला । सुष्ठु भानि अश्विन्यादीन्युडूनि गच्छति जानातीति सुभगा । अनघः भगवदेकविषयतया निरवद्यः योगः ध्यानं तस्य करणे निपुणात्मा कुशलमतिः । अन्यत्र हे अनघेति भगवतो विशेषणम् । योगाः विष्कम्भादयः । करणानि बवबालवादीनि तेषु निपुणात्मा तत्स्वरूपगुणादिपरिकलनशिक्षितधीरित्यर्थः ।

योगोऽपूर्वार्थसंप्राप्तौ संगतिध्यानयुक्तिषु ।
वपुस्स्थैर्ये प्रयोगे च विष्कम्भादिषु भेषजे ॥ इति,

करणमिह बवादौ कारणे क्षेत्रमुख्ये
वपुषि च रथबन्धे कर्मगीतेन्द्रियेषु ।

इति च मेदिनीरत्नमाले । अनेन विशेषणत्रयेण तिथिवारतारयोगकरणनिरूपणलक्षणपश्चाङ्गकरणनैपुणी सूचिता । ईदृशी भक्तततिः भक्तशब्देनात्र साधनभक्तिनिष्ठाः फलभक्तिनिष्ठा वा विवक्षिताः ‘फलसाधनभक्तिभ्यां भक्तावपि च दर्शिताः' इत्युभयोरपि भक्तशब्दव्यपदेश्यत्वस्याचार्येरनुगृहीतत्वात् । पञ्च अङ्गानि ‘अनुकूल्यस्य संकल्पः’ इत्युक्तानि आनुकूल्यसंकल्पप्रातिकूव्यवर्जनमहाविश्वासगोप्तृत्ववरणकार्पण्याख्यानि यस्य तत्प्रपदने अङ्गरूपं स्वतन्त्ररूपं वा भरन्यसनं तेन उपायभूतेन त्वां अञ्चतिं आराधयति

निक्षेपापरपर्यायो न्यासः पञ्चाङ्गसंयुतः।
प्रपत्तिं तां प्रयुञ्जीत स्वाङ्गैः पञ्चभिरावृताम् ॥

इत्यादिभगवच्छास्त्रोक्तेः,

आनुकूल्यस्य संकल्पः प्रातिकूल्यस्य वर्जनम् ।
रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा ॥
आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः ।

इति प्रपत्तेष्षाड्विध्योक्तिस्तु अङ्गाङ्गिसमुच्चयाभिप्राया । ‘षडङ्गं तमुपायं च' इत्यादौ षडङ्गत्वोक्तिरष्टाङ्गयोगव्यपदेशवत् । अन्यथा ‘पञ्चाङ्गसंयुतः ' इत्यनुपदोपदर्शितप्रमाणविरोधप्रसङ्गात् । अङ्गिनश्चात्र भरन्यासरूपत्वं ‘आत्मात्मीयभरन्यासो ह्यात्मनानिक्षेप उच्यते’ इति निर्धारितमिति व्यवस्थापितमाचार्यैः । पक्षे- पञ्चाङ्गस्य तिथ्यादिस्वरूपप्रकाशकस्य तिथिपत्रापरपर्यायस्य प्रपदनेन प्राप्त्या उपलक्षितः त्वामञ्चति प्राप्नोति पूजयति वा । अत्र भगवच्छास्त्रीयादिव्यवहारे प्रकृतेऽप्रकृतज्योतिश्शास्त्रीयव्यवहारारोप इति विशेषः ॥

 यथावा--

 प्रमदां हरेः पुरस्तात्प्रपद्य विन्देत यदि च साधुतुलाम् । मन्दप्युच्चगतिस्स्यान्मनुजो न तु जातु तर्हि नीचगतिः ॥ ७७९ ॥

 मन्दोपि अल्पोपि वा । भक्त्यादावपटुर्वा ‘मूढाल्पापटुनिर्भाग्यामन्दाः' इत्यमरः । अनेन भक्त्यादौ शक्त्यभावः इत्याद्यृक्ताधिकारसंपत्तिः पुरुषकारप्रपदनावश्यंभावश्च सूचितः । पुरस्तात् भगवत्प्रपदनात्पूर्वं हरेः प्रमदां भगवद्वल्लभां श्रियं प्रपद्य शरणं प्राप्य साधूनां प्रपन्नानां तुलां समतां च यदि विन्देत तर्हि उच्चे ततो लक्ष्म्या अप्युच्चे भगवति गतिः प्रपत्तिः यस्य स तथोक्तस्स्यात् । आदौ श्रियं प्रपद्य ‘अस्तु ते तयैव सर्वं संपत्स्यते’ इति श्रियाऽनुगृंहीतो भगवन्तं प्रपद्यत इत्यर्थः । यद्वा- उच्च ऊर्ध्वलोकनेत्री गतिः अर्चिरादिसरणिगतिः यस्य स तथोक्तः स्यात् । जातु कदाचिदपि नीचगतिः अधोगतिः न तु स्यात् नैव स्यात् । अर्चिरादिना पथा परमं व्योम प्रपन्नस्य श्रीवल्लभचरणारविन्दशरणागतस्य कथं पुनस्संसृतिव्यतिकरस्संपद्येत ‘एष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते' इति श्रवणादिति भावः ।

 पक्षे- हरेः सिंहराशेः पुरस्तात् अग्रतः अनन्तरमित्यर्थः । प्रमदां कन्याराशिं प्रपद्य प्राप्य साधु अवक्रं यथा स्यात्तथा तुलां तुलाराशिं यदि विन्देत । तर्हि मन्दः शनैश्चरः 'शनिमन्दौ' इत्यमरः । उच्चगतिरपि स्यात् । तुलायास्तदुच्चस्थानत्वात् न केवलं मित्रराशिगतः अपितूच्चगतिरित्यापिशब्दाभिप्रायः । एवं तुलाराशिगश्शनिः जात्वपि नीचगतिः न तु स्यात् नैव भवेत् । मेषराशेस्तन्नीचस्थानत्वस्मरणात्तुलास्थितस्य तस्य न तत्प्रसक्तिरिति भावः । अत्रापि भगवच्छास्त्रीयादिव्यवहारे ज्योतिश्शास्त्रीयव्यवहारारोपः पूर्ववदेव ॥

 यथावा--

 संपश्येन्मधुमथनस्सौम्यो जीवं यदा तदा संजातम् । श्रेयश्चिन्तकमाहुस्तं सत्त्ववतां शिरस्पदैर्मान्यं च ॥ ७८० ॥  सौम्यः शुद्धसत्त्वमयतया नित्यप्रसन्नः । बुध इत्यपि गम्यते । ‘सौम्यो ज्ञे ना त्रिष्वनुग्रे मनोज्ञे सोमदैवते' इति मेदिनी । मधुमथनः भगवान् । अनेन तमोगुणनिरसनपटीयस्त्वं द्योत्यते । मधुर्नाम दैत्यो हि मूर्ततमोगुणरूपत्वेन भारतादौ प्रसिद्ध्यति । यदा यस्मिन् काले जीवं प्रत्यगात्मानं वाक्पतिं च । ‘जीवः प्राणिनि वृत्तौ च वृक्षभेदे वृहस्पतौ' इति मेदिनी । संपश्येत् सम्यगवलोकेत । तदा तस्मिन् काले संजातं तं जीवं श्रेयश्चिन्तकं मोक्षार्थचिन्तकम् । पक्षे - तदा बुधस्य वाक्पतिविलोकनावसरे जातं पुमांसं श्रेयश्चिन्तकं सर्वेषां कल्याणानुध्यातारां धर्मचिन्तयितारं वा 'श्रेयो मुक्तौ शुभे धर्मेऽतिप्रशस्ते च वाच्यवत्' इति मेदिनी । अत एव सत्त्ववतां सात्त्विकानाम्, अन्यत्र बलवतां व्यवसायवतां द्रव्यवतां वा राज्ञामिति यावत् ।

सत्त्वं गुणे पिशाचादौ बले द्रव्यस्वभावयोः ।
आत्मत्वे व्यवसायासुचित्तेष्वस्त्री तु जन्तुषु ॥

इति मेदिनी । शिरस्पदैः शीर्षस्थानैः मान्यं च आहुः । ‘अधऽश्शिरसी पदे’ इति शिरशब्दविसर्गस्य सत्वम् । सत्त्ववतां शिरस्पदैर्मान्यं श्रेयश्चिन्तकं चाहुरिति वा योजना । अस्यां योजनायां अनुपदोदाहरिष्यमाणवचनार्थातिमात्रानुरूप्यं भवति ।

अत्र-

जायमानं हि पुरुषं यं पश्येन्मधुसूदनः ।
सात्त्विकस्स हि विज्ञेयस्स वै मोक्षार्थचिन्तकः ॥

इति महाभारतीयव्यवहारे प्रस्तुते,

युज्यते वीक्ष्यते वाऽपि चन्द्रजेन बृहस्पतिः ।
शिरसा शासनं तस्य वहन्ति वसुधाधिपाः ॥

इति ज्योतिश्शास्त्रीयव्यवहारस्याप्रस्तुतस्यारोपः ॥

 यथावा-

 प्रास्यावैद्यान्गुरुणा दत्तं वैद्येन लोकनाथरसम् । पुरुषो निषेवमाणः पुण्यात्मा भवति विगतसर्वरुजः ॥ ७८१ ॥

 अवैद्यान् प्रकृतान् जनान् प्रास्य परित्यज्य-

अवैद्यः प्राकृतः प्रोक्तो वैद्यो वैष्णव उच्यते ।
अवैद्येन न केनापि वैद्यः किंचित्समाचरेत् ॥

इति भगवच्छास्त्रोक्तेरिति भावः । वैद्येन ‘सा विद्या या विमुक्तये' इत्युक्तब्रह्मविद्याविदा। विद्याशब्दात् तद्वेदेत्यर्थे प्राग्दीव्यतीयोऽण् । गुरुणा आचार्येण । ‘आभ्यां पदाभ्यां तद्विज्ञानार्थम्’ इति श्रुत्युक्तश्रोत्रियब्रह्मनिष्ठगुरुशब्दार्थास्स्मारिताः । दत्तं अनुगृहीतं लोकनाथरसं भगवदनुभवानन्दं निषेवमाणः पुरुषः विगताः सर्वरुजाः यस्य स तथोक्तः ‘स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः' इत्यमरः । गळितसकलोपताप इत्यर्थः । पुण्यात्मा धन्यस्वभावः भवति ‘पुण्यवान्धन्यः' इत्यमरः । अत्र-

न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् ।
सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वशः ॥

इति भूमविद्यागतश्रुत्यर्थस्स्मारितः।

 पक्षे-अवैद्यान् अभिषजः प्रास्य परिहृत्य गुरुणा श्रेष्ठेन वैधेन भिषजा दत्तं लोकनाथरसं तन्नामानमौषधविशेषं निषेवमाणः पुरुषः रोगीति भावः । विगतसर्वरुजः शान्तसकलरोगस्सन् वैद्यचिन्तामणौ लोकनाथरसस्वरूपं प्रपञ्च्य--

इत्ययं लोकनाथस्य रसस्सर्वरुजो जयेत् ।

इत्युक्तेरिति भावः । अत एव पुण्यात्मा नीरोगतया चारुशरीरो

भवति । ‘पुण्यं तु चार्वपि' इति, 'आत्मा यत्नो धृतिर्बुद्धिस्स्वभावो ब्रह्म वर्ष्म च' इति चामरः । अत्र पञ्चरात्रवेदान्तशास्त्रीयव्यवहरे वैद्यशास्त्रीयव्यवहारारोप इति पूर्वेभ्यो वैलक्षण्यम् ॥

 यथावा--

 बहुधा कषायिताऽपि च वैष्णवरसमेळनात्तपरभागा । मानसवृत्तिर्विष्णुक्रान्तैषामज्ज्वरादिकं शमयेत् ॥ ७८२ ॥

 एषा मदीयेति भावः । मानसवृत्तिः बहुधा कषायिताऽपि च रागादिकलुषिताऽपि वैष्णवानां मनस्स्थितिः भागवतानां रसः अनुरागः तस्य मेळनेन तदनुग्रहव्यतिकरेणेत्यर्थः । आत्तः उपात्तः परभागः परस्य परमात्मनः भागो भजनं भक्तिः । भजेर्भावे घङ्, उपधावृद्धिः ‘चजोः कुघिण्यतोः इति कुत्वम् । यया सा तथोक्ता । यादृच्छिकादिसुकृतपरिणतिसुलभभागवताभिमानविषयतासंपादितपरब्रह्मभक्तिरित्यर्थः । अत एव विष्णुक्रान्ता भगवदाक्रान्ता सती तदाकाराकारिता सतीति यावत् । मज्ज्वरादिकं मदीयभवतापादिकं शमयेत् । मनोवृत्तेर्भागवतप्रवणत्वे भगवदधिष्ठितत्वे च सकलसांसारिकाभितापनिर्वापणं संभावितमेवेति भावः ।

 पक्षे--एषा विष्णुक्रान्ता प्रसिद्धा । उपलक्षणमिदं भूनिम्बादीनाम् । बहुधा कषायिता कथिता । नैतावदेव, अपिच किंच वैष्णवरसस्य औषधविशेषस्य मेळनेन योजनेन आत्तपरभागा स्वीकृतगुणोत्कर्षा ‘परभागो गुणोत्कर्षे' इति यादवः । विष्णुक्रान्ता स्वयमेव ज्वरहारिणी ज्वरहरवैष्णवरसमेळने तद्गुणोत्कर्षः किंपुनर्न्यायसिद्धः इति भावः । आमज्वरादिकं आमज्वरो नाम-

ज्वरोपद्रवतीक्ष्णत्वमग्लानिबहुमूत्रता ।
न प्रवृत्तिर्न विड्जीर्णा न क्षुत्साऽऽमज्वराकृतिः ॥

इति बाहटोक्तलक्षणः स अदिर्यस्य तम् । ज्वरोपद्रवाश्च दशविधाः । यथोक्तं तेनैव-

श्वासमूर्छारुचिच्छर्दितृष्णातीसारनिद्रिताः ।
हिक्काकासाङ्गभेदाश्च ज्वरस्योपद्रवा दश ॥

इति । आदिशब्देन-

ज्वरवेगोऽधिकं तृष्णा प्रलापश्श्वसनं भ्रमः ।
मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम् ॥

इत्यादितदुक्तपच्यमानज्वरादिकं गृह्यते । शमयेत् । तथाचोक्तं वैद्यचिन्तामणौ-

भूनिम्बाश्चित्रकं चव्यं शरपुङ्खी गुडूचिका ।
विष्णुक्रान्ता शृङ्गिबेरं क्वाथस्सर्वज्वरापहः ॥

इति, शृङ्गिबेरमित्येषां क्वाथ इत्यध्याहारेण योज्यम्-

द्वंद्वज्वरं सन्निपातं पुराणं विषमज्वरम् ।
नाशयेदखिलं घोरं नाम्नऽयं वैष्णवो रसः ॥

इति च । वैष्णवरसलक्षणादिकं तत्रैव द्रष्टव्यम् । अत्रापि श्रुतिस्मृतिपुराणागमादिव्यवहारे वैद्यशास्त्रीयव्यवहारारोपः॥

 यथा वा--

 शान्तो मम पाप्मा श्रीकान्तनिषेवणत एष धुततान्तिः । दीप्तार्चिस्सत्करणश्रीसुभगोऽन्नादतेच्छुरस्मि यतः ॥ ७८३ ॥  इदं कस्यचित्प्रपित्सोर्वचनम् । तथाहि- श्रीकान्तस्य श्रीनिवासस्य निषेवणतः प्रपदनात् मम पाप्मा विद्याधिगमादुत्तरं पूर्वं चाघं शान्तः अश्लिष्टो विनष्टश्च ‘आशंसायां भूतवच्च' इत्याशंसायां भूते क्तः । न श्लिष्यति विनश्यतीत्याशंसाविषयभूत इत्यर्थः । तत्र हेतुमाह-एष इत्यादिना । यतः यस्मात्कारणात् । एषः अहं धुता विनष्टा तान्तिः अशनायापिपासादिग्लानिः यस्य सः। दीप्ता या अर्चिस्सत्करणश्रीः अर्चिरादिसत्कारसंपत् तया सुभगः दीप्यमानार्चिराद्यातिवाहिकपुरस्करणसौभाग्यवान् सन् अन्नादतेच्छुः अन्नादतां ‘अहमन्नादोऽहमन्नादः' इति श्रुतिप्रथितपरिपूर्णब्रह्मानुभवानन्दं इच्छुः अभिलाषुकः अस्मि । यतोऽहमशनायादिग्लान्यतीतोऽर्चिरादिपथेन परमं पदं प्रपन्नः परिपूर्णपरब्रह्मानुबुभूषुर्भवामि तदाशंसे ममोत्तरपूर्वाघाश्लेषविनाशौ संपद्यते इतीति भावः ।

 पक्षे-श्रीयुक्तं च तत् कान्तं च श्रीकान्तं कान्तभस्म ‘विनाऽपि प्रत्ययं पूर्वोत्तरपदयोर्लोपः' इति भस्मशब्दस्य लोपः।

कान्तं तु शीतं मधुरं कषायमायुष्करं धातुविवर्धनं च ।

इति योगरत्नाकरे कान्तभस्मनः कान्तमिति व्यपदेशदर्शनात् । तस्य निषेवणतः उपयोगात् मम पाप्मा ज्वरः ।

ज्वरो रोगपतिः पाप्मा मृत्युरोजोऽशनोऽन्तकः ।

इति बाहटेन पाप्मशब्दस्य तन्नामसु पाठात् । इदमुपलक्षणं पाण्डुरोगादीनाम् । शान्तः गत एवेत्यर्थः । यतः यस्मात् एष जनः अहमित्यर्थः । विधुततान्तिः विगळितग्लानिः दीप्तार्चिः प्रज्वलज्जाठराग्निः सती प्रशस्ता या करणश्रीः इन्द्रियसौष्ठवं तया सुभगः अन्नदतायां ओदनाशने इच्छुश्चास्मि । इदमुपलक्षणमव्यथत्वादीनाम् । अत्र श्रुतीतिहासादिव्यवहारे प्रकृते अप्रकृतस्य ।

देहो लघुर्व्यपगतक्लममोहतापः
पाको मुखे करणसौष्ठवमव्यथत्वम् ।
स्वेदः क्षवः प्रकृतियोगिमदोऽन्नलिप्सा
कण्डूश्च मूर्ध्नि विगतज्वरलक्षणानि ॥

इति बाहटोपदर्शितविगतज्वरपुरुषव्यवहारस्यारोपः । कान्तस्य ज्वरादिशमयितृत्वं योगरत्नाकरे-

ये गुणा मृतरूप्यस्य ते गुणाः कान्तभस्मनः ।

इति रूप्यभस्मगुणातिदेशाल्लभ्यते । तथाच तत्रैव रजतभस्मगुणा निरूप्यन्ते-

तारं शीतकषायमम्लमधुरं दोषत्रयच्छेदनं
स्निग्धं दीपनमक्षिकुक्षिगदजिद्दाहं विषार्तिं हरेत् ।
मेदोद्भेदिमदात्ययात्ययकरं कान्त्यायुरारोग्यकृत्
यक्ष्मापस्मृतिशूलपाण्डुपलितप्लीहज्वरघ्नं परम् ॥ इति ॥

 एवमारोप्यारोपविषययोश्शास्त्रीयव्यवहारयोर्विजातीयत्वे दर्शितान्युदाहरणानेि । तयोस्सजातीयत्वेऽपीयं संभवति । यथा-

 सहकार्येऽहंकारे महति विलीने तवेक्षणाद्भगवन् । प्रकृतिस्थोऽयमियं धीर्विलीयते त्वयि ततः परे देवे ॥ ७८४ ॥

 हे भगवन्! तव ईक्षणात् कटाक्षात् सहकार्ये कार्येण वक्ष्यमणेन सह वर्तत इति तथोक्ते महति अपरिच्छेद्ये अहंकारे।

अविद्यायामन्तरे वर्तमानास्स्वयं धीरः पण्डितंमन्यमाना ।
जङ्घन्यमानाः परियन्ति मूढा अन्धेनेव नीयमाना यथाऽन्धाः ॥

इत्याद्युक्ते स्वतन्त्रात्मभ्रममूलके गर्वापरनामन्यभिमने । येन जरारोगाद्यनेकानर्थव्रातैर्भृशं हन्यमाना मूढास्संसारे भ्रमन्ति प्राणिनः । विलीने सति । अयं अहमित्यर्थः । स्वस्यैव विनयातिशयेन अन्यतया निर्देशः । प्रकृतिस्थः प्रकृतिः स्वाभाविकशेषता तस्यां तिष्ठतीति तथोक्तः--

दासभूतास्स्वतस्सर्वे ह्यात्मानः परमात्मनः ।

इत्याद्युक्तस्वाभाविकशेषत्वानुसंधातेत्यर्थः । आसमिति शेषः । ततः इयं धीः मदीया एषा मतिः परे देवे त्वयि विलीयते त्वदाकाराकारिता भवतीत्यर्थः । अहंकारादिमलराहित्येन शुद्धान्तःकरणतया स्वाभाविकशेषतानुसंधातुर्मम सर्वग्रन्थिविप्रमोक्षहेतुभूता ध्रुवाऽनुस्मृतिर्भवतीति भावः । अत्र-

लीयते ब्रह्मणि मतिर्निर्ममस्यानहंकृतेः। इति,
मामनुस्मरतश्चित्तं मय्येव प्रविलीयते ॥

इत्यादिकं च स्मार्यते ।

 पक्षे- तव ईक्षणात् संकल्पात् सहकार्ये एकादशेन्द्रियशब्दादितन्मात्राकाशादिभूतपञ्चकात्मककार्यैस्सहिते अहंकारे सात्त्विकाद्यहंकाराख्ये तत्त्वे महति महत्तत्वे स्वकारणभूते विलीने सति अयं महान् महत्तत्त्वमित्यर्थः । प्रकृतिस्थः मूलप्रकृतौ विलीन इत्यर्थः । इयं प्रकृतिः अव्यक्ताद्यपरपर्याया ततः अनन्तरं परे देवे परस्मिन् ब्रह्मणि त्वयि लीयते । क्रमादक्षरत्वतमस्त्वावस्थापन्ना सती एकीभवतीत्यर्थः । अत्र वेदान्तशास्त्रीयभगवद्भक्तिव्यवहारे प्रस्तुते अप्रस्तुतस्य तच्छास्त्रीयस्यैव 'अहंकारो महति विलीयते महानव्यक्ते लीयते अव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते तमः परे देव एकीभवति' इति श्रुत्युक्तप्रलयव्यवहारस्यारोपः ॥

 लौकिके व्यवहारे शास्त्रीयव्यवहारारोपो यथा-

 हारास्तव प्रतीकालम्बनभाजो यथोचितगुणाढ्याः । मुञ्चन्त्यर्चिस्सरणिं दूरान्नारायणाचलसुधांशो ॥ ७८५ ॥

 हं नारायणाचलसुधांशो! नारायणाचल इति शेषाद्रेरेवनामान्तरमित्यवोचाम । तव प्रतीकः वक्षोरूपोऽवयवः तस्य आलम्बनमाश्रयणं प्रतीकरूप आश्रयो वा तद्भजन्तीति तथोक्ताः । यथोचिताः यथार्हाः ये गुणाः सुवर्णादितन्तवस्तैः आढ्याः अभिरूपा इति यावत् । हाराः मुक्तादिरत्नमयाः सरा अर्चिस्सरणिं रोचिःपरंपरां ‘सरणिः पङ्क्तिवर्त्मनोः' इति रनमाला । दूरात् मुञ्चन्ति प्रसारयन्तीति यावत् ।

 पक्षे- प्रतीकालम्बनभाजः नामादिप्रतीकोपासकाः अत एव यथोचितगुणाढ्याः यथाक्रतुनयेन उपासनानुगुणयत्किंचिद्गुणसंपन्नाः न तु साक्षाद्ब्रह्मोपासकवदाविर्भूतापहतपाप्मत्वादिब्राह्मगुणा इति भावः । अर्चिस्सरणिं अर्चिरादिमार्गं दूरात् मुञ्चन्ति 'अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात्तत्क्रतुश्च' इति सूत्रेण भगवता बादरायणेनाप्रतीकालम्बनानामेवार्चिरादिगतेर्निर्णीतत्वेन प्रतीकोपासकानां तस्या असंभवादिति भावः । प्रतीकोपासनं नाम अब्रह्माणि नामादौ ब्रह्मदृष्टिः यद्विधीयते 'नाम ब्रह्मेत्युपासीत’ इत्यादिभूमविद्यादौ । अत्र लौकिके भगवन्मुक्ताहारव्यवहारे प्रस्तुते अप्रस्तुतवेदान्तशास्त्रीयव्यवहारारोपः ॥  यथावा--

 देवच्छन्दानुगुणास्तमुपासीनाश्श्रितोज्ज्वलनसृतयः । मुक्ताख्यां लभमाना मणयोऽश्नुवते हरेः परं धाम ॥ ७८६ ॥

 देवच्छदस्य शतयष्टिकमुक्ताहारस्य ‘देवच्छन्दोऽसौ शतयष्टिकः' इत्यमरः । अनुगुणाः अनुरूपाः तद्घटनार्हा इत्यर्थः । अत एव तं देवच्छन्दं उपासीना आश्रिता इत्यर्थः । श्रितोज्ज्वलनसृतयः। श्रिता प्राप्ता उज्ज्वलनस्य उत्कृष्टप्रकाशस्य सृतिः सरणं प्रसरः यैस्ते तथोक्ताः मुक्ता इत्याख्यां लभमानाः मणयः मोक्तिकानीत्यर्थः । हरेः श्रीनिवासस्य परं धाम दिव्यविग्रहं ‘गृहदेहत्विट्प्रभावा धामानि' इत्यमरः। अश्नुवते प्राप्नुवन्ति तत्र प्रकाशन्त इति भावः ।

 अन्यत्र देवस्य परमात्मनः 'अध्यात्मयोगाधिगमेन देवम्' इत्यादौ देवशब्दस्य परमात्मनि प्रयोगात् । छन्दः अभिप्रायः वशो वा ‘अभिप्रायवशौ छन्दौ' इत्यमरः । तस्यानुगुणाः भगवदधीनस्वरूपस्थितिप्रवृत्तय इति यावत् । तं देवमेव 'सर्वं वाक्यं सावधारणम्' इति न्यायात् । न तु तत्प्रतीकं नामादिकमिति भावः । उपासीनाः । अत एव श्रितोज्ज्वलनसृतयः प्राप्तोत्तमार्चिरादिमार्गास्सन्तः ‘पदवी सृतिः' इत्यमरः । मुक्ताः प्रकृतिबन्धविसृष्टा इति भावः । हरेः परं धाम अश्नुवते 'तद्विष्णोः परमं पदम्’ इत्युक्तमप्राकृतं देशविशेषं विन्दन्तीत्यर्थः । अत्रापि पूर्ववदेव लौकिके व्यवहारे शस्त्रीयव्यवहारारोपः ॥

 यथावा--

 मुक्ताः कतिचन मणयोतनवश्श्रीनाथ मूर्ति- भाजश्च । स्वैरं दिव्यालोकान् सृजन्ति हृद्यास्तव स्वराजश्च ॥ ७८७ ॥

 हे श्रीनाथ! तत्र हृद्याः हृदयस्थाः ‘शरीरावयवाच्च' इति भवार्थे यत् ‘हृदयस्य हृल्लेख’ इत्यादिना हृदयशब्दस्य हृदादेशः । स्वेन राजन्त इति स्वराजः अनन्याधीनप्रकाशा इत्यतिशयोक्तिः । अतनवः स्थूलाः । मूर्तिभाजः काठिन्यभाजश्च । मूर्तिः काठिन्यकाययोः' इत्यमरः । कतिचन मुक्ता इति मणयः स्वैरं यथेष्टं दिव्याश्च ते आलोकाश्च दिव्यालोकाः तान् रमणीयान् प्रकाशानित्यर्थः । ‘दिव्यं वल्गुलवङ्गयोः' इति हेमचन्द्रः ‘आलोको दर्शने द्योतौ' इत्यमरः । सृजन्ति प्रसारयन्तीति यावत् ॥

 पक्षे- तव हृद्याः हृदयप्रियाः ‘स च मम प्रियः’ इति गानात् । हृदयस्य प्रियः' इति यत् । अत एव मुक्ताः प्रकृतिबन्धवियुक्ताः कतिचन चेतना इति गम्यते । स्वैरमित्येतदत्राप्यपकृष्यते । स्वैरं यथेष्टं अतनवः अशरीराः मूर्तिभाजः शरीरभाजश्च । दिव्याः दिवि परमपदे भवाः दिव्यास्सन्तः, दिगादित्वाद्यत् । स्वैरं यथेष्टं लोकान् 'स यदि पितृलोककामो भवति संकल्पादेवास्य पितरस्समुत्तिष्ठन्ते' इत्याद्युक्तप्रकारान् लोकान् सृजन्ति । अत एव स्वराजश्च अनन्याधिपतयश्च भवन्तीति शेषः । अत्र पूर्वार्धेन अभावाधिकरणसिद्धान्तार्थः, उत्तरार्धेन संकल्पाधिकरणार्थश्च संगृहीतः।

 तत्र हि -अभावाधिकरणे शरीरस्य दुःखहेतुत्वान्मुक्तस्य शरीरं नेति ‘अभावं बादरिराह ह्येवम्’ इति सूत्रेण बादरिमतमनूद्य स एकधा भवति' इत्यादिना मुक्तस्यानेकधा भावश्रवणादच्छेद्यस्य निरवयवस्य शरीरेण विनाऽनेकीभावानुपपत्तेः कर्मकृतशरीरस्यैव दुःखहेतुत्वाच्च सशरीर एवायमिति ‘भावं जैमिनिर्विकल्पामननात्’ इति जैमिनिमतेन प्रतिक्षिप्य सत्यसंकल्पत्वश्रुत्या इच्छानुरोधेन कदाचित्सशरीरः अशरीरश्च कदाचिदिति स्वमतमुपन्यस्तम् । ‘द्वादशाहवदुभयविधं बादरायणोऽतः' इति सूत्रेण भगवता बादरायणेन । संकल्पाधिकरणे तु सत्यसंकल्पत्वेन व्यवह्रियमाणानां राज्ञां कार्यनिष्पादने प्रयत्नसापेक्षत्वदर्शनान्मुक्तस्यापि प्रयत्नसापेक्षैव पित्रादिसृष्टिरित्याशङ्क्य ‘संकल्पादेवास्य पितरस्समुत्तिष्ठन्ते' इत्यवधारणात् प्रयत्नापेक्षत्वे प्रमाणाभावाच्च संकल्पमात्रादेव सृष्टिरिति ‘संकल्पादेव तच्छ्रूतेः’ इति सूत्रेण निर्णीय ‘अत एव चानन्याधिपतिः' इति सत्यसंकल्पत्वमेव ‘स स्वराड्भवति' इति श्रुत्युदाहरणेन स्थापितं शारीरकभाष्ये । तदेतत्सर्वं मूले यथास्थानं प्रत्यभिज्ञापितं तैस्तैः पदैरिति सावधानं द्रष्टव्यम् । अत्रापि लौकिके शास्त्रीयारोपः॥

 यथावा--

 न क्षिप्तं न च मूढं न च विक्षिप्तं श्रयेत्त्वदीयजनः । त्वय्येकाग्रनिरुद्धस्थितिर्भवेद्देव सार्वभौमोऽयम् ॥ ७८८ ॥

 अत्र लौकिके व्यवहारे प्रस्तुते अप्रस्तुतयोगशास्त्रीयव्यवहारारोपः । तथाहि- हे देव! त्वदीयजनः क्षिप्तं अन्यैरधिक्षिप्तं पुमांसं न श्रयेत् । मूढं अज्ञं च न श्रयेत् । विक्षिप्तं अनवस्थितात्मानं च न श्रयेत् । संभावनायां लिङ् । किंतु अयं त्वदीयजनः त्वयि एकाग्रं अव्यग्रं यथा स्यात्तथा निरुद्धस्थितिः निरुद्धचित्तवृत्तिरिति यावत् । सार्वभौमः सर्वभूमेरीश्वरः सर्व भूमिविदितश्च भवेत् । न च पुंवाक्येष्वनेकार्थत्वं दोषमावहति। अत एव शिशुपालवधे-क्रियासमभिहारेण’ इत्यत्र ‘भृशं पौनःपुन्येन चेत्यर्थः' इति मल्लिनाथः । 'तस्येश्वरः, तत्र विदित इति च' इत्यधिकारे ‘सर्वभूमिपृथिवीभ्यामणञौ’ इत्यण् । अनुशतिकादित्वादुभयपदवृद्धिः ॥

 पक्षे-योगशास्त्रीयप्रक्रिययाऽर्थोऽनुसन्धेयः । तथाहि-'योगश्चित्तवृत्तिनिरोधः’ इति पातञ्जलं सूत्रम् । चित्तस्य रजस्तमोवृत्तीनां निरोधो योग इति तदर्थः । ‘स च सार्वभौमः’ इति तद्भाष्यम् । चित्तस्य पञ्च भूमयो भवन्ति- क्षिप्तं मूढं विक्षिप्तं एकाग्रं निरुद्धमिति । तासु सर्वासु भूमिषु विदित इति तदर्थः यदाह भोजरजः– 'स च निरोधस्सर्वासां चित्तवृत्तीनां सर्वप्राणिनां च धर्मः कदाचित्कस्यांचिद्वृद्धिभूमावाविर्भवति' इति । अयमाशयः- यदा चित्तस्य या बुद्धिवृत्तिरुदेति तदा तस्यामन्यस्या वृत्तेर्निरोधो दृश्यते । यथा क्षिप्तावस्थायां मूढावस्थानिरोध इति तस्मादयं निरोधस्सर्वास्वपि चित्तभूमिषूक्तप्रकारेण विदित इति । वाचस्पतिमिश्रस्तु-- ‘एकाग्रस्य चित्तस्य तिस्रो भूमयः मधुमती मधुप्रतीका विशोकेति । निरुद्धस्य तु संस्कारशषतैकैवेति । सर्वासु च तासु चतसृषु भूमिषु अन्यासां प्रमाणादिवृत्तीनां निरोधो विदितः' इति तदर्थमाह । युक्तं चैतत् क्षिप्तादिषु पञ्चसु भूमिषु क्षितं सदैव रजसा तेषु तेषु विषयेषु क्षिप्यमाणमत्यन्तमस्थिरम् । मूढं तु तमस्समुद्रेकान्निद्रादिमत् । क्षिप्ताद्विशिष्टं विक्षिप्तम् । विशेषश्चास्थेमबहुलस्य कादाचित्कस्थेमा । तत्र क्षिप्तमूढयोस्सत्यपि परस्परापेक्षया वृत्तिनिरोधे पारंपर्येणापि निश्श्रेयसहेतुताविरहात्तदुपघातुकत्वाच्च समाधिशङ्कैव नास्ति । विक्षिप्ते तु चेतसि कादाचित्कस्समाधिर्न योगपक्षे वर्तते । किंतु तीव्रपवनविक्षिप्तप्रदीपवत्स्वयमेव नश्य ति । एकाग्रं त्वेकविषयकधारावाहिकवृत्तिसामर्थं सत्त्वोद्रेकेण तमोगुणकृततन्द्रादिविलयादेकाकारा वृत्तिः । सा च रजोगुणकृतचाञ्चल्यरूपविक्षेपाभावादेकविषयैवेति शुद्धे सत्त्वे भवति चित्तमेकाग्रम् । अस्यां च भूमौ संप्रज्ञातः अत्र ध्येयाकारावृत्तिरपि भासते । तस्या अपि निरोधे निरुद्धं चित्तमसंप्रज्ञातसमाधिभूमिर्भवतीति क्रमः । तस्मात् क्षिप्तमूढविक्षितेषु समधेरसंभवादवशिष्टयोरेकाग्रनिरुद्धयोरेव समाधिभूमितया तदवान्तरभूतमधुमतीप्रभृतिभूमिचतुष्टयमादाय सार्वभौमत्वं योगस्य निर्व्यूढं वाचस्पतिमिश्रेणेति । अयमेव हि पक्षोऽस्मिन्नुदाहरणपद्ये विवक्षितः । क्षिप्तमूढविक्षिप्तभूमित्रयाश्रयणं प्रतिषिध्य एकाग्रनिरुद्धाख्यभूमिद्वयस्थित्यैव योगस्य सार्वभौमताया दर्शितत्वादित्यलम् ॥

 यथा वा--

 अविसन्निधिसातङ्कस्तवसेनारेणुरुल्ललन् शौरे। मन्येऽभ्रसरित्सलिलोपस्पर्शात्सकलमपि खमस्प्राक्षीत् ॥ ७८९ ॥

हे शौरे! तव सेनारेणुः अवेः भानोः स्त्रीधर्मिण्याश्च ।

अविर्ना पर्वते सूर्ये मेषे मूषककम्बळे ।
प्राकारे भवने भासि स्त्री तु पुरुषवतीभुवोः ॥

इति रत्नमाला । सन्निधेः सन्निकर्षात् सातङ्कः तापान्वितः उपहतिशङ्कान्वितश्च ‘रुक्तापशङ्कास्वातङ्कः' इत्यमरः । उल्ललन् ऊर्ध्वं गच्छन् । पक्षे उत्प्लवमान इत्याचारशीलानुभावोक्तिः । अभ्रसरितः सलिलस्य उपस्पर्शात् अवमर्शाद्धेतोः । पक्षे स्नानादाचमनाच्च तत्कृत्वेत्यर्थः ।पुंवाक्येष्वनेकार्थत्वमदोषायेत्यनन्तरपूर्वश्लोकव्याख्यायामवोचाम । ल्यब्लोपे पञ्चमी 'उपस्पर्शस्स्पर्शमात्रे स्नानाचमनयोरपि' इति मेदिनी । सकलं खं अन्तरिक्षं अस्प्राक्षीत् । अस्पृशदेवेति मन्ये अनुमिनोमि अन्यथा मन्दाकिनीस्पर्शासंभवादिति भावः । पक्षे सकलं खं चक्षुरादीन्द्रियं अस्प्राक्षीत् उपास्पृशदित्यर्थः ।

चण्डालसूतिकोदक्यापतितान् दूरतस्त्यजेत् ।
अतस्सन्निधिमात्रेण सचेलं स्नानमाचरेत् ॥

इति, स्नात्वा पीत्वा च भुक्त्वा च सुप्त्वा क्षुत्वा द्विजोत्तमः।

अनेन विधिना सम्यगाचान्तश्शुचितामियात् ॥

इति च संवर्तस्मृतेः,

अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबुद्बुदेः ।
त्रिः प्राश्यापो द्विरुन्मृज्य खान्यद्भिस्समुपस्पृशेत् ॥

इति याज्ञवल्क्येन आचमनानन्तरं चक्षुरादीन्द्रियस्पर्शस्मरणाश्च । ‘इन्द्रियेऽपि खम्' इत्यमरः । अत्र लौकिके भगवत्सेनारेणुव्यवहारे घर्मशास्त्रीयव्यवहारारोपः ॥

 यथा वा--

 हृद्गतमुक्तावळिकश्शितिकण्ठीयातिवेलरुचिसुभगः । प्रौढशिरोमणिदीधितिपरिचयपरभागवान् हरिर्जयति ॥ ७९० ॥

 हृद्गता वक्षस्स्था मनस्स्था च मुक्तावळिः मुक्ताहारः न्यायग्रन्थविशेषश्च यस्य स तथोक्तः । 'शेषाद्विभाषा' इति कप् । शितिकण्ठीया मयूरसंबन्धिनी अतिवेला रुचिः तया सु भगः । पक्षे शितिकण्ठीयमिति न्यायग्रन्थविशेषः । तस्मिन्नतिवेला रुचिः आस्था तया सुभगः । प्रौढः शिरोमणिः चूडारत्नं तस्य दीधितेः प्रभायाः, पक्षे शिरोमणिदीधितिः न्यायग्रन्थविशेषः तस्य परिचयतः संपर्कात् व्यासङ्गाच्च परभागवान् गुणोत्कर्षवान् ‘परभागो गुणोत्कर्षे’ इति कोशः । अत्र लौकिके श्रीनिवासदिव्यविग्रहव्यवहार न्यायशास्त्रीयव्यवहारारोपः । अत्राप्रकृतव्यवहारस्यापि लौकिकत्वाभिसन्धौ प्राथमिकप्रभेदस्यैवेदं स्यादुदाहरणम् ॥

 यथावा-

 हस्तेऽनन्तोच्चे तव लग्नं धनुरुदितमुच्छ्रितं ननु राज्ये । सौम्यमिनं च दधानं सुश्रीकं स्वकलितोदयं त्वातनुते ॥ ७९१ ॥

 ननु अनन्त! हे भगवन्! उच्चे उत्कृष्टे उच्छ्रिते वा तव हस्ते पाणौ लग्नं अत एव उदितं उत्कर्षं प्राप्तं धनुः चापं कर्तृ उच्छ्रितं उत्कर्षेणाश्रितं जनं विभीषणादिकमिवेति भावः । राज्ये आधिराज्यस्थाने सौम्यं अनुग्रशासनं इनं राजानं च 'सौम्यो ज्ञे ना त्रिष्वनुग्रे’ इति, ‘इनः पत्यौ नृपार्कयोः' इति च मेदिनी । दधानं पुष्णत् राज्ये निराबाधं निवेशयदित्यर्थः । सुश्रीकं शोभनतेजसं स्वकलितोदयं स्वेन धनेन ‘स्वोऽस्त्रियां धने' इत्यमरः । कलितः उदयः प्राभवं यस्य तं तथोक्तम् । तुशब्दोऽवधारणे । उक्तविधमेवेत्यर्थः । नात्र संदेग्धव्यमिति भावः । आतनुते इति ।

 इतरत्र-ननु इति कस्यचित्संबोधनम् । हस्ते हस्तर्क्षे अनन्तोच्चे अनन्ते अन्तरिक्षे उच्चे सति द्रष्टुर्भ्रूमध्यतुल्यभागस्थे सति उदितं उदयं प्राप्तं धनुः धनुराख्यं तव लग्नं त्वज्जन्मलग्नं, तथाचोक्तं ज्यौतिषोपकरणे-

अवाच्यभिमुखो भूत्वा निशि कालं खमध्यम ।
स्वभ्रूमध्यगतां योगतारां दृष्ट्वा वदेत्सुधीः ॥
अक्षराणां कटपयादीनां संख्याक्रमाश्रयात् ।
तत्तन्नक्षत्र उच्चस्थे लग्नानां गतिरुच्यते ॥

इत्युपक्रम्य ‘हस्तो धनुर्गृहे बाला' इति । हस्तनक्षत्रमुच्चस्थं चेत् धनुर्लग्ने तिस्रो नाडिकाः त्रयो नाडिकाष्टांशाश्च गता इति तदर्थः ।

प्रतिवाक्यं पठ्यमानवर्णयुग्मादिमाक्षरम् ।
लग्नेऽवबोधयेन्नाडीं तदष्टांशं पराक्षरम् ॥

इति तत्रैवोक्तेः । राज्ये दशमे कन्याराशौ उच्छ्रितं उच्चस्थमित्यर्थः । इदं सौम्यमित्यनेनैवान्वेति, तस्यैव कन्याया उच्चस्थानत्वात् । न त्विनमित्यनेन । तस्य हि मेषो राशिरुच्चस्थानम् । सौम्यं बुधं इनं भानुं च दधानं सत् स्वकलितोदयं स्वस्मिन् धनुर्लग्ने कलितोदयं प्राप्तजन्मानं त्वा त्वां सुश्रीकं शोभनैश्वर्यं तनुते । भाग्याधिपस्य भानोरुच्चगतेन राज्याधिपेन बुधेन सह राज्यस्थानेऽवस्थानादिति भावः । धनुर्लग्नस्य सिंहकन्ये भाग्यराज्यस्थाने । ‘भाग्यं धर्मश्च नवमं, कर्म राज्यं च दशमम्' इति नवमदशमराश्योर्भाग्यराज्यस्थानत्वाभिधानात् । अत्र लौकिके भगवद्धनुर्व्यवहारे--

भाग्यराज्याधिपौ स्यातां भाग्ये राज्येऽपि वा यदि ।
तयोरेकोऽप्युच्चगश्चेन्महद्राज्यं प्रयच्छति ॥

इति ज्यौतिषव्यवहारारोप ॥  यथावा-

 फणिशिखरिणीश्वर त्वं निवसन्कोणे क्ववाऽपि सुरपूज्यः। भविता यदुदयदृष्टिर्धीमान् श्रीमान् भवेत्स च वपुष्मान् ॥ ७९२ ॥

 फणिशिखरिणि शेषाद्रौ । ईश्वर ! स्वामिन् ! ‘स्वामीश्वराधिपति' इत्यादिना सप्तमी । सुरपूज्यः देवाराधनीयः । पक्षे बृहस्पतिरित्यर्थः । त्वं क्ववाऽपि कोणे फणिशिखरिणीत्येतदत्रानुषज्यते । शेषाद्रौ कस्मिंश्चित्प्रदेशे इत्यर्थः । पक्षे लग्नात्पञ्चमे नवमे वा त्रिकोणाख्यस्थाने निवसन् सन् यस्य पुंसः उदये अभ्युदये । पक्षे- उदयशब्दः स्वद्रष्टव्यस्थानोपलक्षकः उदये जन्मलग्ने तदुपलक्षिते त्रिकोणान्तरे च । दृष्टिः अभिप्रायः दृक्च यस्य स तथोक्तो भविता । स पुमान् धीमान् श्रीमान् वपुष्मांश्च भवति । त्वत्कटाक्षितस्य किं दुर्लभमिति भावः । द्वितीयपक्षे यज्जन्मलग्नात्पञ्चमे नवमे वा कोणे विद्यमानो गुरुर्लग्नं त्रिकोणदृष्ट्या पश्यति स धीमान् श्रीमान् वपुष्मांश्च भवति । पञ्चमस्य बुद्धिस्थानत्वात्तत्र गुरुस्थितौ धीमान् तस्मात्पञ्चमकोणदृष्ट्या नवमस्थानदर्शने श्रीमान् नवमकोणदृष्ट्या वपुस्स्थानस्य लग्नस्य वीक्षणे वपुष्मांश्च भवति । एवं नवमस्य भाग्यस्थानत्वात्तत्र तदवस्थाने श्रीमान् तस्मात्पञ्चमकोणदृष्ट्या लग्नावलोकने पूर्ववद्वपुष्मान् नवमकोणदृष्ट्या पञ्चमस्थानावलोकने धीमांश्च भवेदिति विवेकः । अत्र लौकिके भगवत्कटाक्षितजनव्यवहारे,

पश्यन्ति सप्तमान् सर्वे शनिजीवकुजाः पुनः ।
विशेषतस्तु त्रिदशत्रिकोणचतुरश्रकान् ॥

योयो भावस्स्वामिदृष्टो युतो वा ।
सौम्यैर्वा स्यात्तस्यतस्याभिवृद्धिः ॥

इत्यादिज्योतिश्शास्त्रीयव्यवहारारोपः ॥

 यथावा--

 न नमय शिरो यतस्त्वयि ननु वृत्ते काऽपि मालिनी भवति कृतिन् । साध्वन्वयगुणरुचिरा ह्यतिशक्वर्यन्तरुज्ज्वलाऽनघलक्ष्मीः ॥ ७९३ ॥

 इदं पद्यं कंचित्कृतिनं प्रति कस्यचिद्वचनम् । हे कृतिन् ! शिरः मूर्धानं न नमय न प्रह्वय । यतः यस्मात्कारणात् त्वयि वृत्ते चरित्रे विषये काऽपि मालिनी मालिन्यं ‘गुणवचन' इति भावे ष्यञि षित्वलक्षणो ङीष् । न भवति नु । नु इत्येतदव्ययमनुनये । ‘नु वितर्कापमानयोः ! विकल्पानुनयातीते प्रश्ने हेत्वपदेशयोः' इति मेदिनी । यदि चारित्रे यत्किंचिदपि संभवेन्मालिन्यं तर्हि शिरो नमयितव्यं, तद्धि शिरोनमनकारणं, न हि त्वयि तद्दृश्यत इति भावः । तत्र हेतुमाह-- साध्विति । हे अनघ ! हि यस्मात् साध्वन्वयगुणरुचिरा साधुः अन्वयस्संबन्धः येषां ते नित्यसंबद्धा इत्यर्थः । तथाविधाः ये गुणाः सत्यत्वज्ञानत्वानन्दत्वादयः अपहतपाप्मत्वादयश्च कल्याणगुणाः तैः रुचिरा रमणीया । अतिशक्वरी दुरितनिग्रहाश्रितानुग्रहयोरतिमात्रशक्ता । शक्नोतेः ‘अन्येभ्योपि दृश्यते’ इति क्वनिप् । स्त्रीत्वविवक्षायां ‘वनो र च' इति ङीप्, रश्चान्तादेशः । ईदृशी लक्ष्मीः श्रीः अन्तः तव हृदये उज्ज्वला दीप्ता त्वया ध्यातेति यावत् । उक्तप्रकारलक्ष्मीनिवासभूतहृदयतया तव मालिन्यस्पर्शो न भवत्येवेति भावः ॥  अन्यत्र - त्वयि इत्यत्र तु अयि इति छेदः । अयि कृतिन् ! ननमयशिरोयतः ननमयाः क्रमेण नगणद्वयमगणयगणाः शिरसि आदौ यस्य स तथोक्तः । यः यगणः तस्मात् ननमयशिरोयतः । सार्वविभक्तिकस्तसिः । वृत्ते, जात्येकवचसम् । वृत्तेषु मध्ये काऽपि इयमप्येकेत्यर्थः । मालिनी भवति मालिनीनाम वृत्तं भवति । ‘ननमयययुतेयं मालिनी भोगिलोक्तैः’ इति तल्लक्षणात् । तामेव विशिनष्टि-- साध्विति । अन्वयः अविद्यमानः उवर्णो यस्य सः अनुः । नञ्पूर्वपदबहुव्रीहौ नञो नलोपे ‘तस्मान्नुडचि ' इति नुट् । स चासौ अयश्च यं यातीत्ययः । याधातोः ‘आतोऽनुपसर्गे कः’ इति कः । उकारस्थानिकाकारवानित्यर्थः । गुणः गण इत्यर्थः । गुणशब्दे उक्तरीत्या उकारोत्सारणे तत्रैव अकारन्यासे गण इति निष्पत्तेः । साधुः वक्ष्यमाणरीत्या शुभप्रदः यः अन्वयगुणः, जात्येकवचनम् । यद्वा-साधवः अन्वयगुणा इति बहुवचनान्तशब्दाभ्यामेव विग्रहः । अन्वयगुणाः पूर्वोक्ताः ननमययगणा इत्यर्थः । तैः रुचिरा । अतिशक्वरी तन्नामपञ्चदशं छन्दः । ‘उक्ताऽत्युक्ता' इत्यारभ्य ‘शक्वरी साऽतिपूर्वा स्यात्’ इति तस्याः पञ्चदशत्वेन गणनात् तस्यां अन्तः मध्ये उज्ज्वला दीप्यमाना अनघाः निर्दोषाः लक्ष्म्यः संपदो यस्यास्सेति पञ्चमीबहुव्रीहिः । हीत्यवधारणे । अस्याः प्रबन्धादौ प्रयोगे कृतिनेतुस्तत्प्रणेतुश्च संपदस्सिद्ध्यन्त्येवेति भावः । यथोक्तमलंकारशिरोभूषणे--

नगणस्त्रिलघुर्ददात्यजस्रं सकलार्थानपि देवताऽस्य यज्वा ।
हरितालनिभो ग्रहेण हीनस्तदमुष्यारिगणो न कश्चिदस्ति ॥
मगणत्रिगुरुश्श्रियं विधत्ते बुधभूमिग्रहदेवतस्तटिच्छ्रीः ।
तनुते सगणान्वितोऽथ लक्ष्मीं भवति क्रूरयुतस्त्वशोभनोऽसौ ॥
यगणे जलदेवतोऽतिशुभ्रो धनदाय्यादिलघुः कविग्रहश्च ।

तगणेन युतोऽशुभं प्रदत्ते विपमिश्रौदनवत्कवेश्च नेतुः ॥
यस्य यस्य तु शुभाऽधिदेवता तस्य तस्य तु गणस्य सौम्यता ।
यस्य यस्य भवतीह साऽन्यथा क्रूरता भवति तस्य तस्य हि ॥

इति । एवंच नगणोपक्रमेऽस्मिन्वृत्ते नगणस्य ग्रहविधुरतया सर्वगणयोगेऽपि शुभप्रदत्वात् बुधादिदेवताकस्य मगणादेरिव रिपुपापग्रहदेवताकत्वप्रयुक्ताशुभगणसंबन्धनिबन्धनाशुभत्वानवकाशान्निसर्गत एव शुभयोर्मगणयगणयोर्योगाच्च लक्ष्मीप्रदत्वमिति ध्येयम् । अत्रेदं बोध्यम् –‘नद्युतश्च' इति काप सिद्धे उरःप्रभृतिषु लक्ष्मीशब्दपाठस्य एकवचनान्तलक्ष्मीशब्दावयवकबहुव्रीहेरेव नित्यं कप्, अन्यत्र ‘शेषाद्विभाषा' इति विकल्प एवेति नियमार्थताया उक्तत्वादिह च बहुवचनान्तलक्ष्मीशब्देन विग्रहस्य प्रदर्शितत्वान्न नित्यकप्प्रसक्तिः । ‘शेषाद्विभाषा' इति कपश्च वैकल्पिकतयाऽत्र तस्याविवक्षणम् । नाप्युपसर्जनहृस्वः ‘गोस्त्रियोः' इत्यनेन स्त्रीप्रत्ययान्तस्यैव ह्रस्वविधानात् । लक्ष्मीशब्दस्य च स्त्रीप्रत्ययान्तत्वाभावादिति । अत्र लौकिके प्रस्तुतव्यवहारे अप्रस्तुतच्छन्दश्शास्त्रीयव्यवहारारोपः ॥

 यथावा--

 रमणीयसन्धिबन्धं हृद्याङ्कं सर्वतोऽभिनन्द्यरसम् । रूपं तवाभिरूपं विलोक्य सभ्या मुकुन्दयान्ति मुदम् ॥ ७९४ ॥

रमणीयस्सन्धिबन्धो यस्य तत् । अनेन--

अङ्गप्रत्यङ्गकानां यस्सन्निवेशो यथोचितम् ॥
सुस्निग्धसंधिबन्धं यत्तत्सौन्दर्यमितीर्यते ।

इत्युक्तलक्षणसौन्दर्यवत्त्वं द्योतितम् । पक्षे रमणीयाः सन्धीनां । 'मुखं प्रतिमुखं गर्भस्सावमर्शोपसंहृतिः’ इत्युक्ताः ये पञ्च सन्धयस्तेषां बन्धः यस्मिंस्तत् । हृद्यः हृदये भवः अङ्कः श्रीवत्सचिह्नं यस्य तत् । पक्षे हृदयप्रियाः अङ्काः ॥

प्रत्यक्षनेतृचरितो बिन्दुव्यक्तिपुरस्कृतः ।
अङ्को नानाप्रकारार्थसंविधानरसाश्रयः ॥

इत्युक्तलक्षणाः विच्छेदविशेषाः यस्मिंस्तत् । सर्वतः अभिनन्द्या रसा भूः येन तत् अभिनन्दनीयशृङ्गारादिरसमिति च । तव अभिरूपं मनोज्ञं रूपं दिव्यविग्रहं विलोक्य सभ्याः साधवः सामाजिकाश्च मुदं यान्ति । अत्र लौकिकव्यवहारे नाटकीयव्यवहारारोपः ॥

 शास्त्रीये लौकिकव्यवहारोपो यथा--

 विजरो विमृत्युरपहतपाप्मा त्वं सत्यकाम इति भगवन् । त्वयि तत्परा प्रसूते श्रुतिरनघा । काङ्क्षितार्थमखिलमपि ॥ ७९५ ॥

 अत्र वेदान्तशास्त्रीये व्यवहारे लौकिकवल्लभानुरक्तसुप्रजः कुटुम्बिनीव्यवहारारोपः । ‘अपहतपाप्मा विजरः' इति श्रुत्यर्थोऽत्रानुसंहितः । पक्षे -सत्यकामः स्वनायिकानुरक्त इति यावत् । काङ्क्षितार्थं अपेक्षितं अभिधेयं प्रयोजनं च ॥

 यथावा--

 प्रविहाय भुक्तभोगामचितं प्रकृतिं स्वलाभसोत्कण्ठम् । तावकमच्युत धन्यं कुशलतरा संप्रतीक्षते मुक्तिः ॥ ७९६ ॥  भुक्तभोगां अनुभूतसुखां विरक्तेः प्रागेव भोगा भुक्ताः न तूपरिष्टाद्भोक्ष्यन्त इति भावः । अचितं अचेतनरूपां अज्ञां च प्रकृतिं प्रविहाय ‘जहात्येनां भुक्तभोगामजोऽन्यः ' इति श्रुतिरत्रानुसंहिता । स्वलाभे अपहतपाप्मत्वादिविशिष्टस्वस्वरूपप्राप्तौ सोत्कण्ठम् । पक्षे स्वलाभे आत्मप्राप्तौ सोत्कण्ठं--

सर्वेन्द्रियसुखस्वादो यत्रास्तीत्यभिमन्यते ।
तत्प्राप्तीच्छां ससंकल्पामुत्कण्ठां कवयो विदुः ॥

इत्युक्तेच्छाविशेषसहितम् । हे अच्युत! तावकं त्वद्भक्तं धन्यं कृतकृत्यं धनं लब्धारं च पुमांसं कुशलतरा अतिमात्रक्षेमंकरा चतुरतरा च ‘पर्याप्तौ सुकृते क्षेमे कुशलं निपुणे त्रिषु' इति रत्नमाला । मुक्तिः प्रतीक्षते प्रतिपालयति । अत्र वेदान्तशास्त्रीये प्रकृते व्यवहारे भुक्तभोगमूढवनितापरित्यजनपूर्वकस्वाभिलाषिनायकप्रतिपालयितृवासकसज्जिकाव्यवहारारोपः ॥

 यथावा--

 सा देवता विजयतेतरां परव्यूहविभवभेदेन । साध्वर्चा भुवनेऽन्तर्यामितया चापि विख्यात्या ॥

 सा देवता सेयं देवतैक्षत’ इत्युक्तापरब्रह्मरूपा देवता । परव्यूहविभवभेदेन परः परवासुदेवः व्यूहाः वासुदेवसंकर्षणाद्याः विभवाः रामकृष्णाद्यवताररूपाः तद्रूपेण भेदेन विजयतेतराम् । किंच भुवने अस्मिन् जगति साध्वर्चा श्रीरङ्गवेंकटाचलादिदिव्यक्षेत्रनिवासरमणीयार्चारूपा । साध्वी अर्चा यस्यास्सेति बहुव्रीहिः । साध्वी च सा अर्चेति तत्पुरुषो वा । ‘प्रतिकृतिरर्चा' इत्यमरः । अन्तर्यामितया अन्तर्यामिरूपेण, हेतौ तृतीया । विख्यात्या चापि अन्तर्यामित्वप्रयुक्तकीर्त्या चापीत्यर्थः। यद्वा- विशिष्टा ख्यातिर्यस्यास्सा तथोक्ता, अन्तर्यामितया चापीति योज्यम् । विजयतेतरामित्यनुषज्यते । परब्रह्मरूपा देवता परव्यूहविभवार्चान्तर्यामिरूपैर्जगति विजयतेतरामिति निर्गळितोऽर्थः । पक्षे- उत्तरार्धे भुवने अन्तः या अमितया इतिच्छेदः । भुवनेऽन्तः लोकस्य मध्ये इत्यर्थः । ‘सप्तमी शौण्डैः' इति सप्तमीसमासविधायकसूत्रस्थशौण्डादिगणे अन्तश्शब्दपाठात् ज्ञापकात् तद्योग अवयविन आधारत्वविवक्षया सप्तमी वृक्षे शाखेतिवदिति ध्येयम् । या देवता परेषां वैरिणां व्यूहाः बलविन्यासाः तेषां विभवस्य भेदेन विदारणेन अमितया अपरिच्छिन्नया विख्यात्या कीर्त्या चापि साध्वी अर्चा यस्यास्सा तथोक्ता पूज्या भवतीत्यर्थः । सा देवता विजयतेतरामित्यन्वयः । अत्र प्रस्तुते पञ्चरात्रागमसिद्धे व्यवहारे-

महती देवता ह्येषा नररूपेण तिष्ठति ।

इत्युक्तप्रभावप्रतापयशस्सुभगमहाराजव्यवहारो लौकिक आरोप्यते ॥

 यथावा--

 ननु नित्यदस्युवर्गत्रस्तोऽहं क्वापि रक्षणमविन्दन् । विश्वस्य त्वयि नाथ न्यस्तस्वो धन्य एव न कथं स्याम् ॥ ७९८ ॥

 ननु नाथ ! नित्याः अनपायिनः ये दस्यवः कामादयश्शत्रवः तेषां वर्गात् वर्गस्य वा त्रस्तः भीतः । पक्षे—नित्यं दस्युवर्गात् चोरनिवहात् त्रस्तः उद्विग्नः ‘दस्युश्चोरे पुंसि रिपौ’ इत्युभयत्रापि मेदिनी । क्वापि रक्षणमविन्दन् शरणमलभमानस्सन् विश्वस्य रक्षिष्यतीति प्रतीत्य त्वयि न्यस्तं अर्पितं स्वं आत्मा धनं च येन स तथोक्तः ‘स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने’ इत्युभयत्राप्यमरः । धन्यः कृतार्थ एव कथं न स्याम् । भगवति न्यस्तात्मरक्षाभरस्य कृतार्थता स्यादेवेति भावः ।

 पक्षे– धनं लब्धा धन्यः प्रत्ययिते सुजनसार्वभौमे न्यस्तधनस्य कथं पुनस्तद्धनलाभो न स्यादिति भावः । अत्र भगवच्छास्त्रीये व्यवहारे लौकिकव्यवहारारोपः ॥

 यथावा--

 प्रोल्लसदमलाब्जकरः प्रकाशविभवैः प्रसाधिताशान्तः । प्रथते फणाधरगिरिप्रभोरपघनो घनागमस्यान्ते ॥ ७९९ ॥

 प्रोल्लसन् अमलः अब्जशङ्खः करे यस्य सः, प्रोल्लसन्त: अमलाः अब्जकराः चन्द्रकिरणाः यस्मिन् स इति च । प्रकाशविभवैः प्रभातिशयैः प्रकृष्टैः काशकुसुमविभवैश्च प्रसाधिताशान्तः । फणाधरगिरिप्रभोः अपघनः दिव्यविग्रहः घनस्य गम्भीरार्थस्य आगमस्य वेदस्य अन्ते उपनिषदीत्यर्थः । पक्षे- घनागमस्य प्रावृट्समयस्य अन्ते अवसाने इत्यर्थः । प्रथते । अत्रापि शास्त्रीये व्यवहारे लौकिकशरत्समयव्यवहारारोपः ॥

संख्यावद्भिस्सर्वविद्भिश्चमत्कारैकजीवितैः ।
उदाहरणभूयस्त्वं सोढव्यं चापलात्कृतम् ॥

 इयं चालंकारान्तरेषु भूयस्स्वानुगुण्येन वर्तते । यथा--

 कटकश्चरणे व्यलसच्छिरो हरेरधिरुरोह मणिमकुटी । दत्तेऽन्तरे वधूटी स्वल्पेऽपि विशृङ्खलप्रवृत्तिस्स्यात् ॥ ८०० ॥

 अत्र सामर्थ्यत्वेन वर्तमाना समासोक्तिरर्थान्तरन्यासानुगुण्यमाधत्ते ॥  यथावा--

 गृह्णाति को नु हृदयान्यबलानां भुवि निसर्गचपलानाम् । दरमनभिमुखे भगवति चिरपरिचितमपि नरं त्यजति संपत् ॥ ८०१ ॥

 अत्र समर्थकत्वेन वर्तते ॥

 प्रसृमरघृणयो मणयो हारगताश्शौरिहृत्पदगताय । प्राभृतमर्पयितुं मणिवराय मन्ये प्रसारयन्ति करान् ॥ ८०२ ॥

 अत्र साम्राज्यसिंहासनाधिरूढसार्वभौमोपहारार्पणपरपरिच्छिन्नजनपदाधिपनरपतिसमुदयव्यवहारमूला करप्रसारणोत्प्रेक्षा । अनेनैव पथा अचेतनव्यवहारे प्रस्तुते चेतनव्यवहारसंबन्धिस्वरूपहेतुफलोत्प्रेक्षायां, चेतनव्यवहारे प्रस्तुते चाचेतनव्यवहारसंबन्धिस्वरूपहेतुफलोत्प्रेक्षायां च समासोक्तिरेव मूलम् । सारूप्यादपीयं समासोक्तिर्भवतीति दीक्षितैरभ्यधायि। न क्षमते तां समासोक्तिजीवातोर्विशेषणसाम्यस्य ‘पुरा यत्र स्रोतः’ इत्यत्राभावेन समासोक्तिताया एवानुपपत्तेरिति वदन्रसगङ्गाधरकृत् । तन्मते-‘पुरा यत्र स्त्रोतः इत्यादावप्रस्तुतप्रशंसैव, तथैव तेनव्यवस्थापनात् । तत्सर्वमप्युपरिष्टादप्रस्तुतप्रशंसालंकारनिरूपणावसरे दर्शयिष्यामः ॥

इत्यलंकारमणिहारे समासोक्तिसरः पञ्चविंशः.

पूर्वभागस्समाप्तः.