अलङ्कारमणिहारः (भागः १)/दीपकालंकारसरः (१७)

विकिस्रोतः तः
Jump to navigation Jump to search

अथ दीपकालंकाररसरः.


 तद्दीपकं स्याद्यद्वर्ण्यावर्ण्ययोरेकधर्मता ॥

 प्रकृताप्रकृतयोरेकसाधारणधर्मान्वयो दीपकम् । अत्र द्विवचनमविवक्षितम् ‘मणिश्शाणोल्लीढः' इत्यादौ बहूनामप्येकसाधारणधर्मान्वये दीपकदर्शनात् । तुल्ययोगितायामिवात्राप्यौपम्यं गम्यम् । प्रस्तुतार्थमुपात्तो धर्मः प्रसङ्गादप्रकृतमपि दीपयति प्रकाशयति सुन्दरीकरोतीति दीपकम् । यद्वा-दीप इव दीपकं ‘इवे प्रतिकृतौ’ इत्यधिकारस्थेन ‘संज्ञायां च' इत्यनेन कन् । दीपसादृश्यं च प्रकृताप्रकृतप्रकाशकत्वेनेति ध्येयम् ॥  यथा-

 आचार्यकृपाप्लुतता वाचा मधुमधुरकवनगम्भीरा। सा चाच्युताङ्घ्रिभक्तिः प्राचां परिपाक एव सुकृतानाम् ॥ ५५८ ॥

 वाचेति टाबन्तश्शब्दः । अत्र प्रस्तुताया अच्युताङ्घ्रिभक्तेः अप्रस्तुताया आचार्यकृपाप्लुततादेश्च प्राचीनसुकृतपरिपाकलक्षणगुणरूपैकधर्मान्वयः । अत्र कस्यचिदेव प्रस्तुतत्वे दीपकं, अन्यथा तुल्ययोगितैव ॥

 यथा-

 रक्तिविहीना वनिता शक्तिविहीना न शोभते नृपता । युक्तिविहीना कविता भक्तिविहीना मतिस्त्वयि च शौरे ॥ ५५९ ॥

 अत्राभावस्साधारणो धर्मः, मतान्तरे त्वभावोऽपि गुण एवेति तुल्ययोगितानिरूपणावसरेऽवोचाम । अत्रापि कस्यचिदेव प्रकृततायां दीपकं सर्वेषां प्रकृतत्वे अप्रकृतत्वे वा तुल्ययोगितेत्यनुसंधेयम् । यत्र तु क्रिया साधारणो धर्मः तत्र यावतां कर्त्रादिकारकाणां सन्निधानं तेषां स्वसजातीयेनान्येन सह तुल्ययोगिता दीपकं वा पृथक्पृथग्भवति, औपम्यस्यापि पृथगेव भासमानत्वात् ॥

 यथा--

 लावण्यं ललनामणिमारुण्यं विद्रुमं वृषाद्रि- मणे । नैपण्यं नरनाथं कारुण्यं त्वां च संप्रसाधयति ॥ ५६० ॥

 अत्र कर्तृकर्मणोः ॥

 यथावा--

 तपनीयकुण्डलं यद्रुचिरं तपनीयमण्डलं यदपि । कुङ्कुमवर्णविशेषं तद्द्वयमभिरञ्जयत्यनन्तमपि ॥

 रुचिरं सुन्दरं यत् तपनीयकुण्डलं स्वर्णकर्णवेष्टनं यदपि तपनस्य भानोरिदं तपनीयं ‘वा नामधेयस्य' इति वृद्धसंज्ञायां 'तस्येदम्’ इत्यर्थे ‘वृद्धाच्छः’ इति छप्रत्यय । मण्डलं बिम्बं कुङ्कमस्य काश्मीरजन्मनः वर्णविशेष इव वर्णविशेषो यस्य तत्तथोक्तं अरुणवर्णमित्यर्थः । तद्वयमपि अनन्तं भगवन्तमपि । पक्षे- गगनमपि तमालश्यामलमपीति भावः । अभिरञ्जयति अरुणयतीत्यर्थः। किंच- तपनीयकुण्डलं यत् यदपि तपनीयमण्डलं कु म इत्याकारफवर्णावेव विशेषो वैलक्षण्यं यस्य तत्तथोक्तं तद्वयमपि कुं भुवं अनन्तमन्तरिक्षमपि अभिरञ्जयति । स्ववर्णव्यापनेन लोहितीकरोतीत्यर्थः । कुमिति पृथक्पदपक्षे 'वा पदान्तस्य ’ इति परसवर्ण इति ध्येयम् । अत्रापि कर्तुकर्मणोः। श्लेषसंकीर्णत्वं विशेषः ॥

 औदार्यं कल्पतरोर्गाम्भीर्यं श्रीनिवास सलिलनिधेः । शैशिर्यं तुहिनगिरेरैश्वर्यं तव च भासते सहजम् ॥ ५६२ ॥  अत्र केवलकर्तुः ॥

 सत्यविहीनं वचनं वित्तविहीनं कुटुम्बिनां भवनम् । वृत्तविहीनं जननं चित्तं हरिभक्तिहीनमपिशोच्यम् ॥ ५६३ ॥

 अत्र कर्मणः ॥

 इन्दिरया तव वक्षश्चन्दिरकलयाऽन्तरिक्षमब्जाक्ष । सुन्दरतामनवरतं विन्दत्यरविन्दरेखया च सरः ॥ ५६४ ॥

 अत्र कर्तृकरणयोः ॥

 कविना वचसा सहृदयहृदयं सुदृशा दशा मनो यूनाम् । भवता सौशील्येन क्रीतं भुवनं समग्रमपि भूमन् ॥ ५६५ ॥

 अत्र कर्तृकरणकर्मणामिति विशेषः । सौशील्यं महतो मन्दैस्सह नीरन्ध्रेण संश्लेषस्वभावः ॥

 जलदस्स चातकेभ्यस्सुधामयूखश्चकोरनिकरेभ्यः। अहिगिरिपतिर्नतेभ्योऽप्यमृतं निरपेक्षमेव संदत्ते ॥ ५६६ ॥

 अत्र कर्तृसम्प्रदानयोः । अमृतं सलिलं पीयूषं निश्श्रेयसं च यथाक्रममर्थः । अमृतशब्दस्यावृत्त्या कर्मणोऽपीति बोध्यम् । निरपेक्षमेव प्रत्युपकाराभिसन्धिविधुरमेवेत्यर्थः ॥  अरविन्दान्मकरन्दं माकन्दान्मधुरवृत्ति फलबृन्दम् । कुन्दाद्विन्देद्गन्धं मुक्त्यानन्दं जनो मुकुन्दाच्च ॥ ५६७ ॥

 अत्रापादानकर्मणोः । मधुरा वृत्तिः स्थितिर्यस्य तत् मधुरवृत्ति स्वभावमधुरमित्यर्थः ॥

 यथावा--

 अरुणात्त्रासस्तमसां हरिणाधीशान्मदावलकुलानाम् । हरिणाङ्कात्तापानां शरणागतितस्तवाम्ब पापानाम् ॥ ५६८ ॥

 अत्रापादानकर्त्रोः । कतों चात्र ‘कर्तृकर्मणोः कृति’ इति कृद्योगलक्षणषष्ठीबोध्यः ॥

 घृणिनिवहोऽम्बुजबन्धौ मणिनिवहो भासते महासिन्धौ । गुणनिवहोऽखिलबन्धौ फणिशिखरीन्दौ च नन्दयन्विश्वम् ॥ ५६९ ॥

 अत्र कर्त्रधिकरणयोः ॥

 कारकदीपकमपि दीपक एवान्तर्भावितं दण्डिप्रभृतिभिः । अत्र केचित्-दीपकमपि तुल्ययोगितायामेवान्तर्भवति, धर्मस्य सकृद्वृत्तिमूलकविच्छित्तेरुभयत्राविशेषात् । प्रकृताप्रकृतत्वादिविशेषस्य चावान्तरभेदसाधकत्वेऽप्यलंकारान्तरतायामसाधकत्वात् । अन्यथा तुल्ययोगितायां धर्मिणां केवलप्रकृतत्वस्य केवलाप्रकृतत्वस्य च विशेषस्य सत्त्वादलंकारद्वैतापत्तेः, श्लेषेऽप्येवं दैविध्यापत्तेः, सर्वेषामप्यलंकाराणां प्रभेदवैलक्षण्याद्वैलक्षण्यापत्तेश्च । तस्मात्प्रकृतानामेव अप्रकृतानामेव प्रकृताप्रकृतानां चैकधर्मान्वय इति तुल्ययोगिताया एव त्रयः प्रभेदा वक्तुमुचिता इति दीपकस्य तुल्ययोगितातः पृथगलंकारतामाचक्षाणानां प्राचां दुराग्रह एवेति वदन्ति । अन्ये तु-

नानाधिकरणस्थानां शब्दानां संप्रदीपकः।
एकवाक्येन संयोगो यस्तद्दीपकमुच्यते ॥

यथा-

सरांसि हंसैः कुसुमैश्च वृक्षा मत्तद्विरेफैश्च सरोरुहाणि ।
गोष्ठीभिरुद्यानवनानि चैव यस्मिन्नशून्यानि सदा क्रियन्ते॥

इति भरतमुनिना दण्डिनाऽपि दीपकमात्रस्याभ्युपगमात्तत्रैव तुल्ययोगितान्तर्भावनस्य औचित्यात्तुल्ययोगितायां दीपकान्तर्भावनं मन्वतेऽनुचितम् । अमुमलंकारं धर्मस्य गुणक्रियाद्यात्मकस्यादिमध्यावसानगतत्वेन त्रिविधमामनन्ति रुद्रटादयः । तन्मते यथा-अत्रोदाहृतेष्वेव पद्येषु-‘अरुणात्त्रासस्तमसाम्' इत्यत्रादौ, रक्तिविहीना वनिता' इत्यत्र मध्ये 'लावण्यं ललनामणिं’ इत्यादाववसाने च धर्मो निर्दिष्टः । वस्तुतस्तु -तत्र धर्मस्यादिमध्यावसानगतत्वेऽपि विच्छित्तिविशेषविरहात् त्रैविध्योक्तिरापातमात्रात् । अन्यथा धर्मस्योपाद्युपमध्योपान्तगतत्वं ततोपि किंचिन्न्यूनाधिकदेशवृत्तित्वे चानन्तभेदप्रसङ्गात् । अनुपदप्रदर्शितेषूदाहरणेषु केवलानुगामिसाधारणधर्मतायां दर्शितं दीपकम् । ‘रक्तिविहीना वनिता’ इत्यादौ बिम्बप्रतिबिम्बभावेनाप्येतददर्शि ॥  यथावा--

 नयशाली विबुधेन्द्रो जयशाली भाति सांयुगीनेन्द्रः । रयशाली खगराडुच्छ्रयशाली चापि वेङ्कटगिरीन्द्रः ॥ ५७० ॥

 एवं तुल्ययोगितायामपि संभवतीत्युदाहार्ष्म । अत्र बिम्बप्रतिबिम्बतायां न केवलं क्रियारूपमनुगामिमात्रं चमत्कारकारणम् । किंतूदाहृतरीत्या नयादिप्रतिबिम्बभावकरम्भितम् । इयांस्तु विशेषः-यत्केवलबिम्बप्रतिबिम्बभावेनाप्युपमादीनां भवति निष्पत्तिः । यथा-प्रागुपमायामुदाहृते ‘कमलाभुजयुगळाञ्चित' इत्यादौ । प्रकृते तु न तथा, अनुगामिनं विना धर्मस्वरूपस्यैवानिष्पत्तेः। न हि बिम्बप्रतिबिम्बमात्रेण धर्मस्य सकृद्वृत्तिस्संभवति । श्लेषेणाप्येतत्संभवति ॥

 यथा--

 ननु नाथ शब्दविद्याविदः परब्रह्मवेदिनश्चापि। शेषगिरीश्वर नियतं भवति हि गतिरच्छगत्यर्थे ॥

 शब्दविद्याविदः व्याकरणवेत्तुः परब्रह्मवेदिनः परब्रह्मवेत्तुश्च अच्छगत्यर्थे गतिर्भवति नियतम् । तत्राद्यपक्षे—अच्छ अच्छेत्यव्ययं गत्यर्थे गत्यर्थकधातुयोगे गतिः गतिसंज्ञको भवति । ‘गतिश्च' इत्यनुवर्तमाने 'अच्छ गत्यर्थवदेषु' । इति सूत्रेणाच्छेत्यव्ययस्य गत्यर्थकधातुयोगे गतिसंज्ञाविधानादिति भावः । द्वितीयपक्षे—अच्छा प्रकृतिसंवन्धविमोचयित्री या गतिः अर्चिरादिमार्गेण गमनं तस्यै तदर्थं ‘अर्थे कृते च शब्दौ द्वौ तादर्थ्येऽव्ययसंज्ञितौ' । गतिः ज्ञानं भवति निष्पद्यत इत्यर्थः । अत्रा प्रकृतस्य शब्दविद्याविदः प्रकृतस्य परब्रह्मविदश्च अच्छगत्यर्थे गतिर्भवतीति श्लेषेण समानधर्मता ॥

 अत्रेदमवधेयं, यद्यपि--

 दुर्दमदारिद्र्यतमोनिर्दलनचणावुभौ समिन्धाते। चिन्तामणिशिखरिमणिश्चिन्तामणिरिति च यस्सुपर्वमणिः ॥ ५७२ ॥

इत्यत्र प्रस्तुताप्रस्तुतयोर्युगपद्धर्मान्वयः प्रतिभाति । ‘रक्तिविहीना वनिता’ इत्यादिषु प्रागुदाहृतेषु पद्येषु अप्रस्तुतस्यैव प्रथमं धर्मान्वयः, तथाऽपि—तस्य प्रासङ्गिकत्वं न हीयते । वस्तुगत्या प्रस्तुतोद्देशेन प्रवृत्तस्यैव वर्णनस्य प्रस्तुतेऽप्यन्वयात् । न हि दीपस्य रथ्याप्रासादयोर्युगपदुपकारकत्वेन जामात्रर्थं श्रपितस्य सूपस्यातिथिभ्यः प्रथमपरिवेषणेन च प्रासङ्गिकत्वं हीयते । तुल्ययोगितायां त्वेकं प्रस्तुतमन्यदप्रस्तुतमिति विशेषाग्रहणात्सर्वोद्देशेनैव धर्मोक्तिरिति विशेषः । अयं चनयोरपरो विशेषः- उभयोरनयोरुपमालंकारस्य गम्यत्वाविशेषेऽपि अत्राप्रस्तुतमुपमानं प्रस्तुतमुपमेयमिति व्यवस्थित उपमानोपमेयभावः, तत्र तु विशेषाग्रहणादैच्छिकस्स इति । इदं सर्वं कुवलयानन्दे स्पष्टम् । कैश्चित्तु–मालादीपकमप्यत्रैवान्तर्भावितम्, तदयुक्तम् । ‘स्मरेण हृदये तस्यास्तेन त्वयि कृता स्थितिः' इत्यादौ सादृश्यसंपर्काभावादिति । एतच्च मालादीपकनिरूपणावसरे प्रपञ्चयिष्यते ॥


इत्यलंकारमणिहारे दीपकसरस्सप्तदशः

अलङ्कारमणिहारः.pdf